रङ्ग अवधूत महाराज
रङ्ग अवधूत महाराज (गुजराती: रंग अवधूत महाराज, आङ्ग्ल: rang avadhut maharaj)इत्यस्य प्राक्तनं नाम पाण्डुरङ्ग विठ्ठल वणामे इति आसीत् । तस्य मातुः नाम रुक्मिणी, अनुजस्य नाम नारायणः इति आसीत् । महाराष्ट्रस्य रत्नागिरिमण्डलस्य देवल-ग्रामे जयरामभाई वणामे नामकः एकः कर्मकाण्डी ब्राह्मणः वसति स्म । जयरामभाई कथादिकं करोति स्म, अतः जनाः तं जयरामभट्टः इत्यपि कथयन्ति स्म । तस्य चत्वारः पुत्राः आसन् । तेषु तृतीयः विठ्ठल वणामे इति आख्यः आसीत् । अयमेव पाण्डुरङ्गस्य पिता इति । यदा विठ्ठलः स्वग्रामं त्यक्त्वा गुजरातराज्यस्य गोधरा-नगरमागतः, तदा गोधरा-नगरस्य विठ्ठलमन्दिरे अर्चकस्य आवश्यकता आसीत् । मन्दिरार्थम् अर्चकम् अन्वेष्टुं सखाराम इति नामा जनः देवल-ग्रामं गतवान् । सः जयरामभट्टस्य मित्रम् आसीत् । विठ्ठलनाथपूजायै विठ्ठलं प्रेषयतु इति तेन जयरामभट्टः प्रार्थितः जयरामभट्टेन मित्रप्रार्थनया विठ्ठलः प्रेषितः। ततः परं विठ्ठलः स्वपरिवारेण सह गोधरा-नगरे स्थायी अभवत् । अतः गुजरातराज्यं रङ्गावधूतं प्राप्तवान् ।
जन्म
[सम्पादयतु]१८९८ तमस्य वर्षस्य नवम्बर-मासस्य एकविंशति(२१)तमे दिनाङिके संवत् १९५५ तमस्य वर्षस्य कार्तिकशुक्लनवम्यां चन्द्रवासरे प्रदोषसमये रुक्मिण्या कुक्षौ एकः बालः अजीजनत् । तस्य नाम पाण्डुरङ्गः इति अभवत् । वर्षद्वयान्ते तस्य गृहे अपरस्य पुत्रस्य जन्म अभवत् । यस्य नाम नारायणः इति प्रसिद्धः अभवत् ।
बाल्यम्
[सम्पादयतु]पाण्डुरङ्गस्य दृष्टिः बाल्यकालादेव सूक्ष्मा आसीत् । सः यद् किमपि पश्यति स्म तस्य विषये विचार्य पितरम् पृच्छति स्म । पाण्डुरङ्गस्य लक्षणम् विषये एका सूक्तिः प्रसिद्धा यत् – “प्रश्न एव नेमः उत्तरः भवति” इति । प्रश्नकरणस्य इयं शैली मनुष्याय तर्कशक्तिं ददाति । यदा पिता विठ्ठलः सायङ्काले पुत्रेण सह अजिरे उपविष्टः आसीत्, तदा चत्वारः जनाः शवं नीत्वा ततः निर्गताः । प्रियजनाः रूदन्तः अनुधावन्तः आसम् । इदं दृश्यं दृष्ट्वा पाण्डुरङ्गः पितरम् अपृच्छत् – ते किमर्थं रुदन्ति ? पिता – तेषां गृहे कश्चन मृतः अतः ते रुदन्ति । पाण्डुरङ्गः – मृतं नीत्वा ते किं करिष्यन्ति । पिता – धक्ष्यन्ति । पाण्डुरङ्गः – धक्ष्यन्ति चेद् पीडा न भविष्यति ? पिता – मृते सति पीडा न भवति । पाण्डुरङ्गः – भवन्तः अपि मृताः भविष्यन्ति ? पिता – आम्, सर्वे मृताः भवन्ति । पाण्डुरङ्गः – मृत्योः रक्षिताः भवितुं शक्नुमः ? पिता – आम् रामस्य नित्यस्मरणेन रक्षिताः भवामः । इदं सर्वं पित्रा स्वमत्या बोधितम् । किन्तु पाण्डुरङ्गेण गम्भीरतया स्वीकृतम्, जीवने आचरितं च । पाण्डुरङ्गेन अस्मात् प्रसङ्गात् राम इति मन्त्रः प्राप्तः, स्वसाधनायां बहुसहायता च प्राप्ता । अनया साधनया पाण्डुरङ्गः मर्यादापुरुषोत्तमरामवत् जीवितुं प्रेरणां प्रापत् ।
पितुः मरणानन्तरं स्वाभिमानयुक्यं जीवनम्
[सम्पादयतु]यदा पाण्डुरङस्य पञ्चवर्षीयः आसीत्, तदा तस्य पितुः मरणम् अभवम् । पितरि मृते सति मात्रा रूक्मिण्या उभावपि पुत्रौ दायित्वपूर्वकं पालितौ । माता बालकस्य संस्कारशाला भवति, इयम् उक्तिः तया सार्थकीकृता । माता पुत्राभ्याम् धर्मस्य देशभक्तेः च संस्कारं दत्त्वा, याचनावृत्तिः मरणादपि लघीयसी इति बोधितवती । निर्धनत्वे सत्यपि मनसा धनाढ्यत्वस्य भावं गृहीत्वा माता मितव्ययेन गृहं चालयति स्म । एकदा गृहे शाकम् नासीत् । मात्रा सुपः रोटिका च निर्मिता । किन्तु पुत्राभ्याम् एतादृशं भोजनं प्रदातव्यम् इति विचार्य माता खिन्ना आसीत् । तदानीमेव प्रातिवेश्यः आगत्य चतुरः वृन्ताकान् अददात् । माता शाकं विनिर्माय पुत्राभ्याम् अयच्छत् । ज्येष्ठः पाण्डुरङ्गः अपृच्छत् मातः ! स्थालिकायां शाकम् कुतः ? माता अवदत् प्रातिवेश्यः अयच्छत् इति । पुत्रः अवदत् – भवती सिंहसमानयोः पुत्रयोः माता अस्ति । अन्येभ्यः याचनापेक्षया तु शाकेन विना भोजनं वरम् । भवत्या एव उक्तम् याचनावृत्तिः मरणादपि लघीयसी इति ।
विनययुक्तं स्वाभिमानम्
[सम्पादयतु](१) सर्वं सत्ये प्रतिष्ठितम् इति उक्तिः पाण्डुरङ्गेन स्वजीवने सार्थकीकृता । असत्यस्य विनयपूर्वकविरोधः कर्तव्यः । इत्थं कर्तुं सङ्कोचः न करणीयः इति पाण्डुरङ्गः अमन्यत । गोधरा-नगरस्य तैलङ्गशालायां पाण्डुरङ्गः पठति स्म । तत्र कक्षायां छात्राः कोलाहलं कुर्वन्तः हसन्तः आसन् । तदानीं शिक्षकः आगत्य पाण्डुरङ्गम् अपराधिनं मत्वा उत्पिठिकायाः उपरि उत्थितः अकरोत् । किमपि अज्ञात्वा एव दण्डप्रदानम् - इति विचिन्त्य पाण्डुरङ्गः आश्चर्यचकितः आसीत् । सर्वेषां शिक्षकानां मनसि पांडुरङ्गाय उच्चाभिप्रायाः आसन् । तथापि पाण्डुरङ्गेन शिक्षकस्य आज्ञायाः सविनयं पालनं कृतम् । किन्तु अज्ञानवशात् दण्डदातारं शिक्षकं स्वयं निर्दोषः अस्ति इत्यपि असूचयत् । ततः परम् आचार्यः आगत्य किम् अभवत् इति पाण्डुरङ्गम् अपृच्छत् । पाण्डुरङ्गः शिक्षकम् एव पृच्छतु इति अवदत् । शिक्षकेन तु शङ्कायाः आधारेण दण्डः प्रदत्तः अतः सः मूकः अभवत् । पाण्डुरङ्गमुपावेश्य अयम् उच्छृङ्खलः वा स्वच्छन्दः नास्ति इति प्राचार्येण शिक्षकाय सूचितम् ।
(२) पाण्डुरङ्गस्य वडोदरा-नगरे बी.ए. इत्यस्य अन्तिमं वर्षं चलति स्म । तथापि प्रमाणपत्रस्य मोहं त्यक्त्वा अहमदाबाद-नगरे गुजरात-विद्यापीठं गतः । वडोदरा-नगरस्य विद्यार्थिनां प्रतिनिधित्वेन पाण्डुरङ्गस्य महात्मना सह मेलनम् अभवत् । महात्मा अपृच्छत् – कुतः आगच्छसि ? पाण्डुरङ्गः- वडोदरा-नगरात् महाविद्यालयस्य विद्यार्थिनां प्रतिनिधित्वेन आगतोऽस्मि । महात्माः- भवान् विद्यार्थिनां प्रतिनिधिः अस्ति तस्य प्रमाणं किम् ? पाण्डुरङ्गः – प्रश्नस्तु तदा भवति यदा कश्चन शङ्कां कुर्यात् किन्तु अत्र तु प्रश्नः निरर्थकः । वने सिंहस्य राजपदे अभिषेकः कः कुर्यात् ? इत्थम् वचः श्रुत्वा महात्मा मन्त्रमुग्धः सन् पाण्डुरङ्गस्य प्रशंसां कृत्वा अवदत् भवादृक्षु शतेषु युवसु प्राप्तेषु स्वराजं क्षणेन लप्स्यामहे इति ।
पाण्डुरङ्गस्य सकारात्मकदृष्टिः
[सम्पादयतु]एकदा महात्मा डाकोर-नगरात् अहमदाबादनगरम् गतः । पाण्डुरङ्गः अपि तथैव अहमदाबाद-नगरं गतः । महात्मना पाण्डुरङ्गः पृष्टः- इदानीं कुतः समागतः ? पाण्डुरङ्गः अकथयत् - इदानीं डाकोर-नगरात् आगतोऽस्मि । महात्मा – डाकोर-नगरं देवस्थलमस्ति किन्तु तत्र बहुप्रदूषणम् अस्ति । पाण्डुरङ्गः- अहं तु डाकोरनाथस्य दर्शनार्थं गतवान् । तत्र आह्लादकीं, भव्यां, रम्यां च मूर्तिं दृष्ट्वा देहभानं विस्मृतवान् । अतः प्रदूषणविचाराय मनसि स्थानमेव नासीत् । अविनयः अभवत् चेत् क्षमां याचे किन्तु यदा यद् कार्यं कुर्मः, तदा तस्मिन्नैव कार्ये ध्यानं केन्द्रितं कुर्याम चेत् मनोरथसिद्धिर्भवति इति भवान् न मन्यते ? इत्थं श्रुत्वा महात्मा पाण्डुरङ्गोपरि प्रसन्नः अभवत् ।
संस्कृतिसंस्कृतयोः प्रेम
[सम्पादयतु]प्रत्येकस्मिने जने स्वधर्मस्य, स्वसंस्कृतेः, स्वदेशस्य च अभिमानम् आवश्यकम् इति पाण्डुरङ्गः मन्यते स्म । स्वधर्मे निधनं श्रेयः इति उक्त्यनुसारं पाण्डुरङ्गस्य हिन्दुसंस्कृतिं प्रति बहुमानम् आसीत् । तथैव मातृभूमिं प्रति अपि तस्य बहुमानम् आसीत् । पाण्डुरङ्गेन यदा मेट्रिक् परीक्षा प्रदत्ता, तदा मौखिकी परीक्षापि भवति स्म । परीक्षकः आङ्ग्लाधिकारी भवति स्म । आङ्ग्लाधिकारिणः आङ्ग्लज्ञानेन सह शिस्तबद्धतायाः अपि आग्रहिणः भवन्ति स्म । अन्ये विद्यार्थिनः भयभीताः आसन् । किन्तु परीक्षायाः सज्जताकर्ता, प्रत्युत्पन्नमतियुक्तः च कथं बिभेत् ? । सठे साठ्यं समाचरेदिति विचारयुतः पाण्डुरङ्गः अपि सत्यशिस्तयोः आग्रही आसीत् । अधिकारिणा मौखिकपरीक्षायै यथाक्रमात् विद्यार्थिनः आहूताः । पाण्डुरङ्गस्य क्रमः आगतः । पाण्डुरङ्गस्य मित्राणि तम् अविचार्य चर्चा न कर्तव्या इति औपदिशत् । “रोबर्टसन्’ इत्यनेन शिखासूत्रतिलकादिभिः भारतीयब्राह्मणस्य वेशभूषायां पाण्डुरङ्गः दृष्टः । पाण्डुरङ्गेन भारतीयपरम्परानुसारम् अधिकारिणे नमस्कारः कृतः ।
उभयोर्संवादः
[सम्पादयतु]रोबर्टसन् – भवान् ब्राह्मणः ? पाण्डुरङ्गः – आम् प्राचार्यः । रोबर्टसन् – भवन्तः यज्ञोपवीतम् किमर्थं धारयन्ति ? पाण्डुरङ्गः – भवताम् प्रश्नोत्तरम् प्रश्नेन दास्यामि वा उत्तरेणैव । रोबर्टसन् – यथा तुभ्यं रोचते । पाण्डुरङ्गः – भवान् ग्रेवैयकण्ठबन्धौ कथम् धारयन्ति ? रोबर्टसन् – तद् मम धर्मचिह्नमस्ति अतः । पाण्डुरङ्गः – तथैव यज्ञोपवीतम् अस्मद्धर्मचिह्नम् अस्ति । रोबर्टसन् – यदि यूयं यज्ञोपवीतं न धारयन्ति तर्हि ब्राह्मणाः न भवन्ति ? पाण्डुरङ्गः – यदि त्वं ग्रेवैयम्(collar) एवं कण्ठबन्धनम् न धारयन्ति तर्हि ख्रिस्ती न भवति ? रोबर्टसन् – अनयोः धारणं मह्यं स्वधर्मं स्मारयति, स्वधर्मानुसारेण आचरणं कुर्तुं शुद्धजीवनाय च प्रेरयति । पाण्डुरङ्गः – तथैव यज्ञोपवीतमपि स्वधर्मस्मारयन् शुद्धजीवनाय अस्मभ्यं प्रेरयति । रोबर्टसन् पाण्डुरङ्गस्य तर्कबद्धविचारशैल्या प्रसन्नः जातः पुनर्मुण्डनमेवं शिखाविषये उभयोः संवादः अभवत्। रोबर्टसन् – इत्थं गोलाकारं विहाय मुण्डनं किमर्थम् ? पाण्डुरङ्गः – इत्थं कर्तनेन न्यूनव्ययः भवति एवम् अन्यैच्छिककर्तने बहुव्ययः भवति अतः दरिद्रदेशाय इदमेव सुकरम् ।रोबर्टसन् – अन्यः किमपि लाभः अस्ति ? पाण्डुरङ्गः – आम्, इत्थं करणेन मस्तिष्कं शीतलं भवति, सद्विचारस्फुरणे सम्पूर्णावकाश्च भवति । रोबर्टसन् – सत्यं खलु ? पाण्डुरङ्गः – इत्थं माभूच्चेत् मह्यम् अनुत्तीर्णं करोतु । पाण्डूरङ्गस्य कथनेन रोबर्टसन् इत्ययं प्रसन्नः अभवत् । तस्य नम्रतां, तर्कशक्तियुतां बुद्धि च दृष्ट्वा रोबर्टसन् इत्ययं तस्मै प्रथमक्रमम् अददात् ।
संस्कृतप्रेम
[सम्पादयतु]पाण्डुरङ्गस्य हृदि संस्कृतिप्रेमवदेव संस्कृतप्रेम अपि वहति स्म । पपाण्डुरङ्गः स्नातककक्षासु मित्रैः साकं संस्कृतभाषायामेव भाषते स्म । देवभाषा संस्कृतम् यादृशी समृद्धा भाषा अस्ति तादृशी अपरा कापि भाषा नास्ति । तस्य पठनकाले संस्कृते रूचिः आसीत् । पठनान्ते सः विद्यार्थिभ्यः संस्कृतं पाठयन्ति स्म । व्याकरणं कठिनं किन्तु तद् तरिष्यामश्चेत् बहुलाभान्विताः भवामः इति विचार्य तेन संस्कृतव्याकरणं सरलीकर्तुम् एकं पुस्तकं प्रकाशितम् । तस्य नाम गीर्वाणभाषाप्रवेशः इति अददात् । तस्य पूर्वार्धम्, उत्तरार्धम् इति भागद्वयम् अप्रकाशयत् । पुस्तकमिदं गुर्जरविद्यापीठस्य मान्यताप्राप्तिः भवेत् तदनन्तरम् एव शालायाः अभ्यासक्रमे स्थापितुं शक्यते । मान्यतादानस्य कार्यं संस्कृतस्य पराध्यापकस्य मु.किशोरभाई मशरूवाला इत्यस्य आसीत् । तेन मान्यतादानात् पूर्वं पाण्डुरङ्गाय द्वादश प्रश्नाः पृष्टाः। तेषु प्रथमः प्रश्नः गीर्वाण इत्यर्थं देवः किम् । पाण्डुरङ्गेन सविनयम् उत्तरः प्रदत्तः यद् – “शब्दकोशे सर्वत्र अस्यार्थः देव इत्यैव भवति अतः भवता कथमयं प्रश्नः उपस्थापितः इत्येव अहं न जाने । कोऽपि स्वपुस्तकस्य मुख्यपृष्ठम् अर्थरहितं कर्तुं प्रयतते खलु ? । पुस्तकमिदं हर्षद ध्रुव इति आख्येन विदुषा दृश्टम् किन्तु तेनापि अयं प्रश्नः न उपस्थापितः” इति ।
धनप्रभावितानां गतिः
[सम्पादयतु]पाण्डुरङ्गमते धनप्रभाविताः जनाः अविवेकिनः भवन्ति ते आत्मानमेव ईश्वरः मन्यन्ते । तेषां दशा कीदृशी भवति इति विषये एकम् उदाहरणं लिखितम् अस्ति यत् – जामनगर-ग्रामे राजभवने सर्पदंशेन एका सिंहिः मृता । तस्याः शिशवः शुनक्याः दुग्धम् अपिबन् । यदि सिंहिः वने स्यात् चेत् तस्याः शिशवः अन्यायाः सिंह्याः दुग्धम् प्राप्नुयुः । किन्तु सा शिशूनां सुखाय राजभवने गता अतः शिशवः शुनक्याः दुग्धम् अलभन्त । अतः श्रीमतां सहवासेन वा स्वयं श्रीमते सति सर्वेषां दुर्दशा भवति । अतः अस्माभिः शुचीनां श्रीमन्तः इति सूक्त्यनुसारम् आचरणीयम् ।
देशभक्तिः
[सम्पादयतु]पाण्डुरङ्गस्य देशप्रेम अनन्यः आसीत् । लोकमान्यतिलकावसाने पाण्डुरङ्गस्य वेदना असह्यासीत् । यदा पाण्डुरङ्गः महाविद्यालये पठन् आसीत्, तदानीं देशस्वतन्त्रतायै विविधानि कार्यक्रमाणि करोति स्म । जनेभ्यः देशभक्तिविषये प्रवचनानि अपि ददाति स्म । यदा महात्मना देशाय महाविद्यालयं त्यक्तुं पाण्डुरङ्गः सूचितः, तदा सः प्रमाणपत्रमोहं त्यक्त्वा गुजरातविद्यापीठम् अगच्छत्, देशाय किमपि करिष्यति इति अविचारयत् च । पाण्डुरङ्गः देशे अतिवृष्टि वा अनावृष्टिः भवेच्चेत् जनाः अन्नं प्राप्नुयुः इति विचार्य भक्तेभ्यः अक्षतभक्षणत्यागं कर्तुं कथयति स्म, स्वयं त्यागं करोति स्म, तदन्नं दीनजनेषु वितरन्ति स्म च । यदा चीन-देशेन भारतोपरि आक्रमणं कृतं, तदा पाण्डुरङ्गः मातश्चाम्बे जागृही इति स्तोत्रं रचित्वा देशरक्षायै देवीम् अप्रार्थयत्, नारेश्वर-नगरे भुशुण्डिकाचालनस्य प्रशिक्षणकेन्द्रम् अचालयत् च । सर्वकारः साधून् युद्धाय आह्वयेच्चेत् अवधूतः मुखरः भविष्यति इत्यपि सः वदति स्म । रङ्गावधूतः महात्मनः आदर्शानुसारेण “खादी”अम्बरं स्वीकृत्य आजीवनम् खादी-वस्त्राणि एव अधात् । अतः रङ्गावधूतः देशभक्तः आसीत् इति ज्ञायते ।
देवभक्तिः
[सम्पादयतु]पाण्डुरङ्गः मूलतः महाराष्ट्रीयन् ब्राह्मणः आसीत् । अतः तस्मिन् बाल्यादेव भक्तिसंस्कारः आसीत् त्रयः वर्षस्य वयसि पिता राम इति मन्त्रः अददात् । अतः वयस्के सति कर्गदोपरि राम इति लिखित्वा प्रतिशनिवासरे ह्नुमतः चरणे अर्पयति स्म । विठ्ठलनाथमन्दिरस्य पूजाम् आरार्तिक्यञ्च करोति स्म ।
स्वप्नवाणी
[सम्पादयतु]पाण्डुरङ्गः अष्टवर्षस्य वयसि उपवीतम् अधरत् । तस्यां रात्रौ स्वप्ने कथां कुरू वा पोथी पठ इति देवस्य आदेशात् कथां कर्तुं दृढसङ्कल्पम् अकरोत् । अत्र पोथी अर्थात् किम् ? तर्हि ई.१५०० तमस्य वर्षस्य दत्तावतारी देवपुरूषस्य श्रीपादवल्लभः वर्णनकारी पुस्तकमेव पोथी इति कथ्यते । शालायां शिक्षकः आसीत् तदानीं सालायाम् अवकाशे सति साधनास्थलानि अन्विष्यति स्म । एकदा रात्रौ शयिते सति पुनः स्वप्नवाणी जाता यद् दत्तपुराणस्य शताधिकान् अष्टौ पाठान् कुरु इति । अतः पाण्डुरङ्गेन वेदव्यासस्य अष्टादशपुराणानाम् अन्येषाम् उपपुराणानाम् च अवलोकनं कृतम् । किन्तु तेषु दत्तपुराणस्य उल्लेखः नासीत् । ततः परं यदा पाण्डुरङ्गः कश्चन संस्कृतज्ञं मिलति, तदा दत्तपुराणविषये पृच्छति स्म । किन्तु कस्याऽपि पार्श्वे तद्विषयकं ज्ञानं नासीत् । पाण्डूरङ्गः पुनर्देवानामुपरि विश्वासम् अधरत् ।
भरूच-नगरे गमनम्
[सम्पादयतु]पाण्डुरङ्गेन सह शालायां शिक्षकत्वेन रतनलाल त्रिपाठी आसीत्, इदानीं सः रणापुर-ग्रामस्य माधवशालायां सेवारतः अस्ति । तस्य पुत्रः गृहात् पलायनम् अकरोत् । अतः तम् अन्वेष्टुम् उभौ भरुच-नगरे मोहनलाल इत्यस्य गृहं गतौ । मोहनलाल इत्ययं रतनलाल त्रिपाठी इत्यस्य मित्रम् आसीत् । रतनलाल इत्यस्य पुत्रः तत्र आसीत् । पुत्रे मिलिते सति पाण्डुरङ्गः मोहलाल इत्यस्मै दत्तपुराणविषये अपृच्छत् । मोहनलाल-इत्ययम् अवदत् - जानामि टेम्बेश्वरस्वामिना रचितः अयं ग्रन्थः मम ग्रन्थालये अस्ति । इदं श्रुत्वा पाण्डुरङ्गेन १०८ पारायणानि कर्तुं ग्रन्थः याचितः । तदा मोहलाल स्वगृहे पारायणानि कर्तुम् अनुमतिम् अददात् । पाण्डुरङ्गः खिन्नः जातः किन्तु गुरोरुपरि श्रद्धा आसीत् ।
पुस्तकप्राप्तिः पारायणारम्भः
[सम्पादयतु]कालान्तरे पुनर्मोहनलाल इत्ययं कल्याणजी इत्यस्य गृहे इदं पुस्तकमस्ति इति असूचयत् ततः पुस्तकम् च अददात् । अनन्तरं पांडुरङ्गः साधनायै स्थलमन्विषन् नारेश्वर-वने प्राचीनशिवमन्दिरं तद्दीव्यतां दृष्ट्वा अचिनोत् । १९२५ तमस्य वर्षस्य दिसम्बरमासस्य चतुर्थे दिनाङ्के मार्गशीर्ष-कृष्ण-चतुर्थ्यां शिवालयसमीपं नीमवृक्षस्याधः आसन्दम् स्थाप्य रात्रौ त्रिवादनात् सूर्योदयं यावत् योगसाधनाम् अकरोत् । सूर्योदये सति दत्तपारायणम् च आरभत । अस्यां साधनायां सः १ धनस्पर्शस्य २ प्रवचनकरणस्य ३ प्रचारकार्यस्य ४ प्रतिष्ठाप्राप्तेः ५ पीठपरम्परायाः इत्येतेषां पञ्चानां त्यागम् अकरोत् । सभाभासो वृथा लोके’ इत्युक्त्वा स्वस्य आचरणमाध्यमेन जनेभ्यः औपदिशत् । पाण्डुरङ्गस्य वृत्त्या वृत्तिरक्षणमिति सूत्रमासीत् अतः तेन एकस्मिन् भजने उक्तम् – करनी बिन कथनी की कीमत कौडी जान बजारो है । जिन कथनी करनी कर बन्द उधरे सन्त हजारो है ॥ पाण्डुरङ्गस्य मतानुसारं विद्वांसः वाचा धनमर्जयति, नर्तकी नर्तनेन तच्च समानमेव । अतः प्रवचनकर्तुः जीवनम् प्रेरणामयं भवेत् सः प्रतिष्ठां च प्राप्नोत् इत्यपि पाण्डुरङ्गः ऐच्छत् । पाण्डुरङ्गः प्रतिष्ठाविषये एकं श्लोकम् औपदिशत् । तच्च –
अभिमानं सुरापानं गौरवं रौरवं महत् ।
प्रतिष्ठा सूकरीविद्या तस्मादेतत्त्रयं त्यजेत् ॥
धार्मिकभक्तियुक्तस्य जीवनं सदाचारयुतं स्यात् । तस्मिन् मानवतायाः सुगन्धः स्फुरेत् । असत्याचरणं मा भूत्, कर्तव्यपालनात् च्युतिः मा भूत्, परपीडनम् अनीतेः धनग्रहणम् च मा भूद इत्येतानि धार्मिकमनुष्यस्य चिह्नानि सन्ति इति पाण्डुरङ्गः अमन्यत । पुनः ते सर्वधर्म समभाविनः, सर्वधर्म ममभाविनश्च स्युः इत्यपि पाण्डुरङ्गः अमन्यत । इत्थम् जनेभ्यः अपेक्ष्य पाण्डुरङ्गः स्वयमपि तथैव व्यवहारम् अकरोत् ।
मातृभक्तिः
[सम्पादयतु]पाण्डुरङ्गस्य पञ्चवर्षीये सति पितुर्मरणं जातम् । युवावस्थायामेव मात्रा वैधव्यं च प्राप्तम् । तथापि मात्रा बालकयोः पालने स्वार्थं विहाय परिश्रमः कृतः । अतः पाण्डुरङ्गेन मातृदेवो भव , न मातुः पर दैवतम् , माता मातैव केवलम् , इमानि सूत्राणि जीवने अङ्गीकृतानि आसन् । इत्थं विचारकः पाण्डुरङ्गः नारेश्वरमुप्विष्टः तथापि मातुःपीडां ज्ञात्वा नारायणस्य रुग्णतावशात् तौ नारेश्वरम् अनयताम् । पाण्डुरङ्गः नारायणम् अवदत् - “चिन्तां मा कुरु आवश्यकतानुसारम् अहं व्यवसायं स्वीकृत्वा मातुः रक्षणम् सेवां च करिष्यामि” इति । १९३६ तमे वर्षे नारायणस्य मृत्युः अभवत् । मातुः दुःखं वा कल्पान्तः हृदयद्रावकः आसीत् । तदनन्तरं पाण्डुरङ्गः मम मातैव उच्चन्यायालयमिति विचिन्त्य मातृभक्तिदीपकं प्राज्वालयत् । प्रातः काले स्नात्वा मातुः वन्दनं कृत्वैव जीवनव्यवहारस्य कार्याणाम् आरम्भः कर्तव्यः इति अविचारयत् ।
नर्मदायाः परिक्रमणम्
[सम्पादयतु]नर्मदा भगवतः शङ्करस्य तपस्यावशात् उत्पन्ना नदी अस्ति । इयम् एतादृशी नदी अस्ति यस्याः उभयतटतः परिक्रमा भवितुं शक्या । अस्याः प्रतिकङ्करः(पत्थर) शङ्कर इवास्ति । जनाः कथयन्ति यद् गङ्गायाः पाने, यमुनायाः स्नाने रेवायाः दर्शनमात्रेण च पावनाः भवाम इति । मेकलपर्वतात् निर्गतायाः नर्मदायाः सम्पूर्णापरिक्रमा ३२०० कि.मी. पर्यन्ताऽस्ति । इयं परिक्रमा सरला नाऽस्ति । शूलपाणेश्वरस्य वने आदिवासिनः परिक्रमा कारकान् लुण्ठन्ति । वने सिंहादि हिंसकपशूनामपि भीतिः अस्ति । किन्तु नर्मदायां श्रद्धावशात् श्रद्धालवः परिक्रमां कुर्वन्ति । अवधूतः नारेश्वरङ्गतः ततः तस्य नर्मदया सह सम्बन्धः आसीत् । अतः नर्मदायां श्रद्धावशात् अवधूतः अपि परिक्रमां कर्तुम् अविचारयत् । अवधूतः स्वेच्छया आचरितं कष्टम् तपश्चर्या अमन्यत । अवधूतः निरोगी अवस्थायाम् आसीत् अतः प्रतिदिनं ६० कि.मी. रोगेन पीडिते सति ३० कि.मी. चलति स्म । इत्थम् सर्वान् विघ्नान् अवतीर्य भरूच-नगरे स्वामी चन्द्रशेखरम् अमिलत् । तेन द्वारकापीठस्य शङ्कराचार्यपदम् अलङ्कर्तुम् अवधूतः प्रार्थितः । किन्तु अवधूतेन आशा हि परमं दुःखं निराशा परमं सुखमिति इति उक्तम् । नर्मदापरिक्रमां कुर्वन् अवधूतः अमरकण्टकं प्राप्तवान् । तत्र नर्मदाकुण्डे स्नात्वा पुनः परिक्रमायाः आरम्भस्थलं मोरटङ्का-ग्रामं प्राप्य ३२०० कि.मी. परिक्रमां पूर्णाम् अकरोत् । एतादृशी श्रद्धायुक्तपरिक्रमाकर्तुः रक्षणं भगवता कर्तव्यं भवति । यत्र श्रद्धायाः वार्ता भवति तत्र प्रमाणस्य कृते स्थानम् नास्ति ।
साहित्यसर्जनम्
[सम्पादयतु]पाण्डुरङ्गः वा रङ्गावधूतः गुजरातविद्यापीठमासीत् तदानीं शतत्रयेषु काकासाहेब एभिः चितानां १०८ श्लोकानां टीकां विलिख्य सर्वान् प्राभावयत् । संस्कृतगुर्जरमराठीआङ्ग्लहिन्द्यादिषु भाषासु सः साहित्य रचनाम् अकरोत् । तस्य ग्रन्थानामत्र लघुपरिचयः दीयते ।
१ रङ्गहृदयम् – सर्वधर्मसमभावः सर्वधर्म ममभावः इत्येतयोः पुरस्कर्त्रा पूज्येन अवधूतेन दत्तः, रामः, कृष्णः, शङ्करः, हनुमान्, अम्बा, इत्येषां सर्वेषां देवानां विषये संस्कृते स्तोत्राणि रचितानि सन्ति । तानि रङ्गहृदय इति नाम्ना प्रसिद्धानि सन्ति । तथा स्वामीरामदासस्य ’मनाञ्चे’ श्लोक इव संस्कृते १०८ श्लोकाः रचिताः । मनसि प्रतिश्वासम् दत्तनामस्मरणं कर्तुम् जनान् औपदिशत् । तथा आत्मनि परिष्कारः भवेत्, जगति न इति आदर्शम् अस्थापयत् ।
२ अवधूती आनन्दः – अवधूति आनन्दः भजनसङ्ग्रहस्य नाम अस्ति । यस्मिन् विविधरागेषु सात्विकानुभूतियुक्तानि भजनानि सन्ति । मानवजीवनस्य सार्थकता कुत्र, कया रीत्या च प्राप्तुं शक्यते तस्य ज्ञानं भजनैः भवति । एवं शङ्कराचार्यस्य अद्वैतवादः अपि भजनेषु दृश्यते । काचन भजन पङ्क्तयः -
૧ ભર્યું જ્યા ત્યા પ્રભુ તારું અનુપમ રૂપ હે અવધૂત . નિરાકારી નિજેચ્છાએ બન્યો સાકાર તું અવધૂત .
૨ ખૂનીનાં ખંજરોમાં તુ પ્રિયાના ચુમ્બનોમાં તું . હરે હરિગર્જનામાં તુ રહ્યો પીકકૂજને અવધૂત .
૩ પ્રભુ પરખ્યા હૃદે જેણે ફરે ભમતો જગે શાને ! પીધું આકણ્ઠ અમૃત તે કરે કાંજી વૃથા શાને ! ન શોધ મોર ચીતારો કદિ પીક રઙ્ગ તમ્બૂરો, કૃતાકૃતથી પરે બેસી, નિહાળે ખલ્કની રો-રો.
स्थूलवर्णनात् सूक्ष्मवर्णनम् प्रति गमनस्य दृष्टिः, येषां प्रज्ञा जागृताऽस्ति त एव जानन्ति ।
३ श्रीगुरुलीलामृत - देवाज्ञया १९०५ दोहरायुक्तेऽस्मिन् ग्रन्थे ज्ञानकर्मोपासना एत्येतानि त्रीणि काण्डानि सन्ति । यथा संस्कृतज्ञानां कृते श्रीमद्भागवतम्, हिन्दीज्ञानाङ्कृते रामायणं तथैव गुर्जरज्ञानां कृते श्री गुरुलीलामृतम् अस्ति । ग्रन्थस्यास्य ज्ञानकाण्डम्, ब्रह्मसूत्रगीतोपनिषदां सिद्धान्तान् सरलतया बोधयति । इत्थं केवलम् ईश्वरानुभवकर्ता जनः एव बोधयितुं शक्नोति । अस्मिन् ग्रन्थे दत्तात्रेयस्य तथा तेषामन्येषाम् अवताराणां वर्णनम् प्राप्यते । गृहं, समाजञ्च कथं रक्षितुं शक्नुमः इत्यपि प्राप्यते ।
यथा – રોગ ભોગનું મૂળ છે, ભોગ મૂળ અવિચાર,
યૌવન,ધન સત્તા મદે થાય નષ્ટ વિચાર.
એક ઘડી સ્તનપાનનું દેવુ માથે જેહ
આપું ત્રિભુવન ધનમાં તોયે મટે ન તેહ.
४ सङ्गीत गीता - ग्रन्थोऽयं श्रीमद्भगवद्गीतायाः भीमपलासी इति रागे गुर्जरभाषायां कृतः । अस्य रूपान्तरणं गायनवृत्त्याभ्याम् कुर्मश्चेत् नादब्रह्मणः वातावरणं सृज्यते ।
५ अक्षरगीता - अयं ग्रन्थः स्वरव्यञ्जनयोरुपरि लिखिताः चिन्तनात्मक श्लोकाः, अद्वैतवादः मायायाः मिथ्यानादं च स्पष्टयति । औ इति स्वरे एकः श्लोकः –
औषधं भगवन्नामो वैद्यो कारूणिको गुरु । संसार रोगनाशाय पथ्यः साधु समागमः ॥
ભવની ભાગટ ભાંગવા ઓસડ હરિનું નામ , વૈદ્ય દયાળું સદ્ગુરુ શ્રી સુસંગ અકામ .
६ पत्रगीता – अत्र पाण्डुरङ्गः स्वमित्रम् अमृतलाल इत्यस्मै पत्रमाध्यमेन प्रश्नानामुत्तराणि दत्त्वा गीतायाः श्लोकान् अवर्णयत् । अतः तस्य पुस्तकस्य नाम पत्रगीता इति अभनत् ।
७ प्रश्नोत्तरमाला- यथा यक्षयुधिष्ठिरयोः प्रश्नोत्तरं, तुलसीदास रचिता प्रश्नोत्तरं, जगद्गुरु-रचिता प्रश्नोत्तरम् एताभिः समानाः एका अवधूतरचिता प्रश्नोत्तरं अस्ति सा एव प्रश्नोत्तरमाला इति नाम्ना विख्याता ।
८ अमर-आदेशः – पाण्डुरङ्गः वा अवधूतः प्रवचनानि न कुर्वन्ति स्म । किन्तु भक्तानामधिकाग्रहेण स्वस्य जन्मदिने रङ्गजयन्त्योपरि लिखितम् प्रवचनम् अपठत् । तद् प्रप्रथम् वडोदरा-नगरस्य पार्श्वे बाजवा-नगरे पठितम् । तस्य शीर्षकमासीत् अमरः आदेशः । ततः भक्ताः अमर-आदेशः इति पत्रिकाम् अप्रचारयत् ।
उत्सवस्य भिन्ना रीतिः
[सम्पादयतु]परम्परापोषकाः उत्सवाः समाजं सङ्गठितं करोति । तस्मिन् नवचेतनायाः सञ्चारं विदधाति । अवधूतः दत्तोपासकः आसीत्, अतः नारेश्वर-ग्रामे दत्तजयन्ति उत्सवः आयोजयति स्म । अनेन कार्यक्रमेण राष्ट्रियकविना स्व.श्री झवेरचन्द मेघाणी इत्येतेन तस्य प्रशंसा कृता । स्वयम् अर्जितेन धनेन उत्सवस्य आयोजनम् कर्तव्यम् इति तस्य सिद्धान्तः आसीत् । पाण्डुरङ्गः उत्सवाय श्रीमद्भिः किमपि न अयाचत । अपि तु भक्ताः स्वेच्छया निजगृहे अवलेहनिर्माणे सति उत्सवाय भिन्नमनलेहं निर्म्यन्ति स्म । स्वगृहे पर्पटः निर्माणे सति एका पर्पटपेटिका उत्सवाय अपि निर्म्यन्ति स्म । इत्थम् स्वेच्छानुसारम् उत्सवम् आयोजयितुं भक्ताः पाण्डुरङ्गस्य सहायतां विदधन्ति स्म ।
मानवसेवा एव माधवसेवा
[सम्पादयतु]येन केन प्रकारेण यस्य कस्यापि देहिनः । सन्तोषं जनयेत् प्राज्ञः तदेवेश्वर पूजनम् ॥ इति श्लोकानुसारं पाण्डुरङ्गः मानवेभ्यः अन्नं, गोभ्यः तृणं च दत्त्वा ईश्वरं पूजयति स्म । एकदा राजपीपला-ग्रामस्य समीपे वणखूटा ग्रामे हनुमतः मन्दिरे तैलाभिषेकः आसीत् । स्वयम् अवधूतः अभिषेकं करिष्यन्ति इति विचिन्त्य भक्तैः अभिषेकाय बहुतैलम् प्रदत्तम् । किन्तु अवधूतेन स्वल्पेन तैलेन अभिषेकं कृत्वा अवशिष्टं तैलं दरिद्रेभ्यो प्रदत्तम् ।
सर्वधर्मसमभावः
[सम्पादयतु]अवधूतः सर्वधर्मसमभावेन सह सर्वधर्मममभावस्य अपि आग्रही आसीत् । अतः रङ्गावधूतः हिन्दुधर्मस्य सम्प्रदायानाम्, सम्प्रदायस्य आचार्याणां च अभ्यासम् अकरोत् । अभ्यासात् साम्प्रदायिककलहस्य कारणं धनमेव इति ज्ञात्वा धनमहत्वम् मूलतः अनष्यत् । धर्मज-नगरे यः अवधूत जयन्ति आयोजयति तस्य मनसि ग्रामे-स्वामीनारायणस्य अनुयायिनां कारणात् वातावरणं प्रफुल्लितं न भविष्यति इति आसीत् अतः तेन इदम् अवधूताय बोधितम् । अवधूतेन उक्तम्- ते स्वामीनारायणाः अहं द्विगुणः स्वामीनारायणः इति उक्त्वा एकः श्लोकः निर्मितः ।
स्वामी नारायणो यस्य नान्य कोऽपि कदाचन । न मे तस्यैव मन्येत स्वामीनारायणः स वै ॥
यस्य नाथः साक्षात् नारायणः परमेश्वरः अस्ति सः अन्येषां छत्रं कालत्रयेषु अपि न स्वीकरोति । तथा हृदयेन मदीयम् किमपि नास्ति यद्किमपि अस्ति तद् भगवतः अस्ति इति मन्यते सैव स्वामीनारायणः । यथा दत्तः नारायणस्य स्वरूपम अस्ति, तथा अन्ये देवाऽपि नारायणस्य स्वरूपम् अस्ति । यथा चित्रसङ्ग्रहे एकस्य जनस्य बाल्यकालाद् वृद्धं यावत् चित्राणि भवन्ति किन्तु सर्वेभ्यः भिन्नानि चित्राणि रोचन्ते । तथैव ईश्वरोऽपि एकैव किन्तु जनाः पृथक् पृथक् रूपेण पूजयन्ति । अस्मिन्नैव विषये अवधूतेन दत्तशतकस्तोत्रे लिखितमस्ति यद् – દત્ત કહે કોઈ તને રામ કૃષ્ણ વળી કોઈ દિનમણિ શિવ શક્ત્યાદિ તુ નામરૂપ સહુ એક. इत्थं सर्वेषां धर्माणां लक्ष्यं तु एकमेव । यस्मिन् धर्मे अनुकूलता भवेत् सः स्वीकृत्य मानवतायुक्तं जीवनं जीवन्तु तदेव धर्माणां मूलहेतुः ।
अवधूतस्य सत्वं, पवित्रता च
[सम्पादयतु]एकदा भक्तेन एकस्मिन् ग्रामे मुस्लिम-जनसङ्ख्याधिक्यात् कार्यक्रमे कालुष्यं न स्यादतः दण्डधारिणः सैनिकाः आहूताः । इदं दृष्ट्वा अवधूतेन तान् दूरीकर्तुं भक्तः आदिष्टः । तदानीम् अवधूतस्य परीक्षायै मुस्लिमजनाः एकां रुग्णां स्त्रियम् आनीय तां निरोगिनी कर्तुम् अवधूतम् अप्रार्थयत् । अवधूतः सम्पूर्णं वृत्तम् अजानत् । तेन पाकमुस्लिमगृहात् जलयुक्तं चषकम् आनेतुम् उक्तम् । मुस्लिमजनाः तादृक्मुस्लिमस्य अभावात् युगपत् परस्परं मुखावलोकनम् अकुर्वन् । तद् दृष्ट्वा अवधूतेव उक्तं भवतु कस्याऽपि मुस्लिमगृहात् जलमानयतु । वाक्यस्य समाप्तौ सहसा जलमागतम् । तच्चावधूतेन आच्छाद्य अक्षिणी निमिल्य उक्तम् - या अल्ला यद्यहं पाकमुस्लिमश्चेत् एनां निरोगिणी कुरू । इत्युक्त्वा तज्जलं तस्यै अपास्यत् सा जलं पीत्वा पद्भ्यां गृहङ्गताः । अनेन ज्ञायते यद् सात्विकविचारधारया चित्तशुद्धिः भवति , तेन जनः व्यक्तिः सङ्कल्पेषु साफल्यं च प्राप्नोति ।
अन्तिमः प्रवासः
[सम्पादयतु]संवत् २०१४ शरदपूर्णिमायां चन्द्रग्रहणमासीत् अतः आश्विन-शुक्ल प्रतिपत्तिथौ लीञ्च-नगरम् गन्तुं नारेश्वर-नगरात् हरि ॐ मोटा इत्यस्य मित्रभावनया आग्रहेण च अवधूतः नडियाद-नगरमागतः तत्र हरि ॐ मोटा इत्यस्य आश्रमे च स्थितः । ततः अरेरा-ग्रामं ततः कपडवञ्ज ग्रामं च गतः । तत्र महाराष्ट्रप्रान्तस्य मुञ्ज-ग्रामात् गांडामहाराज-इत्यस्य भक्तारः अवधूताय आमन्त्रणं प्रदातुम् आगमिष्यन्ति इति श्रुतं किन्तु ते न आगताः।
जयपुरनगरे गमनम्
[सम्पादयतु]जयपुरनगरस्य भक्तः ममगृहनिर्माणे सति भवन्तः आगमिष्यन्ति इति भवद्भिः उक्तमिति सस्मार, कदा सेवावसरं दास्यन्ति इति च सभावम् उक्तम् । भक्तस्य वचनं श्रुत्वा अवधूतः इतः एव जयपुर-नगरम् गच्छावः इति अवदत् । ततः लीञ्च-नगरजनान् साबरमतीतटैव मिलित्वा विमानमार्गेण जयपुर-नगरं गतः ।
हरिद्वारनगरे गमनम्
[सम्पादयतु]ततः हरिद्वारं गत्वा आर्यनिवास नामाख्यायां धर्मशालायाम् अतिष्ठत् । तदानीमेव धर्मशालायाः स्वामी रोगग्रस्तः आसीत् । तस्य पुत्री अवधूताय आशीर्वादम् अयाचत् । अवधूतेन पत्रमाध्यमेन आशीषाः प्रेषिताः । धर्मशालाप्रभुः शनैः शनैः रोगात् निर्मुक्तः अभवत् । किन्तु अवधूतस्य स्वास्थ्यम् असमिचीनम् अभवत्
मृत्यृः
[सम्पादयतु]१९६३ वर्षस्य नवेम्बर-मासस्य १९ तमे दिनाङ्के कार्तिकमासस्य कृष्ण-अमावस्यायां रात्रौ ८:४५ घटिकायाम् अवधूतः ब्रह्मलीनः अभवत् । तस्य देहं विमानमार्गेण अहमदाबाद-नगरमानीय ततः वाहनमार्गेंण नारेश्वरम् अनयत् । मार्गेषु दर्शनार्थं भक्ताः समुपस्थिताः आसन् । १९६८ वर्षस्य नवेम्बरमासस्य २१ तमे दिनाङ्के मार्गशीर्ष-शुक्लद्वितीयायां बृहस्पतीवासरे रात्रौ नारेश्वर-ग्रामे भक्तैः अन्त्येष्ठि-संस्कारः सम्पादितः। योगानुयोगः जन्म एवम् अन्त्येष्ठि-इत्यनयोः दिनाङ्कः समानः आसीत् । रेवा तटे तपः कुर्यात् मरणं जाह्नवी तटे इति उक्त्यनुसारम् अवधूतः अजीवत् । तेन व्यवस्थायै आश्रमपीठस्य नियुक्तौ अपि सूचना न प्रदत्ता । इत्थं जनमनसि स्वभक्तेभ्यश्च मानवसेवा नैतिकसदाचारस्य च अग्निं प्राज्वालयत् । इत्थम् अवधूतः धर्म माध्यमेन इदानीमपि अस्मत्सु राराजते ।
।। अवधूत चिन्तन श्री गुरूदेव दत्त ।।