सामग्री पर जाएँ

डङ्कपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(डाकोर इत्यस्मात् पुनर्निर्दिष्टम्)
डङ्कपुरम्

ડાકોર

Dakor
श्रीरणछोडरायमन्दिरं, डङ्कपुरम्
श्रीरणछोडरायमन्दिरं, डङ्कपुरम्
श्रीरणछोडरायमन्दिरं, डङ्कपुरम्
स्थितिः खेडामण्डलम्, गुजरातराज्यम्
मुख्योत्सवः जन्माष्टमी
स्थापनादिनः माघमासस्य कृष्णपक्षस्य पञ्चमी
जालस्थानम् www.ranchhodraiji.org

डङ्कपुरम् ( /ˈdənkəpʊrəm/) (गुजराती: ડાકોર, आङ्ग्ल: Dakor) गुजरातराज्यस्य खेडामण्डलस्य ठासरा उपमण्डले स्थितं, सेरुकानद्याः तीरे विकसितञ्च पवित्रं तीर्थस्थानमस्ति [] । अत्र भगवतः श्रीरणछोडरायस्य सुप्रसिद्धं मन्दिरमस्ति । एतत् स्थलं 'डाकोर' इति नाम्ना प्रसिद्धम् ।

पुराणे डङ्कपुरम्

[सम्पादयतु]

महाभारतकाले डङ्कपुरं परितः गाढवनानि आसन् । वनेषु नद्यः, तडागाः, सरोवराः च आसन् । अतः ऋषयः तपस्तप्तुम् अत्र आगच्छन्ति स्म, तथा आश्रमं निर्माय तपश्चर्यां कुर्वन्ति स्म । अत्र डङ्कनामकः कश्चन ऋषिः निवसति स्म । एकस्मिन् दिने डङ्कर्षेः तपसा प्रसन्नः शिवः 'वरं याचस्व' इति ऋषिम् अकथयत् । "हे शिव ! भवान् अत्रैव निवसतु" इति ऋषिः अयाचत । ततः शिवः शिवलिङ्गरूपेण तत्रैव न्यवसत् । अधुना एतत् स्थलं डङ्कनाथमहादेव इति नाम्ना विख्यातम् अस्ति । तेन अस्य स्थलस्य नाम डङ्कपुरम् इति ।

रणछोडरायः डङ्कपुरम्

एकवारं श्रीकृष्णेन सह भीमार्जुनौ डङ्कपुरमार्गं भूत्वा कुत्रचित् गच्छन्तौ आस्ताम् । मार्गे भीमः अतृष्यत् । तदा भगवान् श्रीकृष्णः तं डङ्कर्षेः आश्रमसमीपे स्थितं तडागम् अदर्शयत् । जलं पीत्वा ते त्रयः वृक्षछायायां विश्रामं स्वीकुर्वन्तः आसन् । तदा भीमः एवम् अचिन्तयत्, "एषः तडागः इतोऽपि बृहत् भवेत् चेत्, बहूनां पशुपक्षिमानवादीनां तृष्णाशान्तिर्भवेत्" इति । तदा सः गदायाः प्रहारेण तडागविस्तारम् अवर्धयत् । एषः तडागः ५७२ प्रहल(Acre)मितः विस्तृतोऽस्ति । एषः गोमतीतडागः इति नाम्ना प्रसिद्धः अस्ति ।

यदा भगवान् श्रीकृष्णः डङ्कर्षेः आश्रमम् अगच्छत्, तदा श्रीकृष्णः ऋषिं "वरं याचस्व" इति अकथयत् । डङ्कर्षिः अवदत्, "हे द्वारकेश ! भवान् अत्रैव निवसतु" इति । किञ्चित् विचार्य श्रीकृष्णः अवदत्, कलियुगे द्वारका-तः आगत्य अहम् अत्र निवत्स्यामि इति । एवं श्रीकृष्णः डङ्कपुरागमनस्य वचनं दत्तवान् []

'बोडाणा'नामकः भक्तः

[सम्पादयतु]

अधुना यत् डङ्कपुरम् अस्ति, तत् भगवतः श्रीकृष्णस्य 'बोडाणा' इत्याख्यस्य परमभक्तस्य भक्त्या ख्यातिं प्राप्तवदस्ति । 'बोडाणा' पूर्वस्मिन् जन्मनि विजयानन्दनामकः गोपालकः आसीत् । होलीकायाः दिवसे विजयानन्दं विहाय अन्ये सर्वे गोपालकाः श्रीकृष्णस्य पूजनार्थं गतवन्तः । परन्तु मदान्धः विजयानन्दः गृहे एव स्थितवान् । श्रीकृष्णः विजयानन्दस्य मित्रस्वरूपं धृत्वा तं पूजनार्थं प्रेरितवान् । पूजां समाप्य पुनरागमनकाले विजयानन्दः ज्ञातवान् यत् एतत् मम मित्रं नापि तु श्रीकृष्ण एव इति । पश्चाद् श्रीकृष्णः तं स्वस्य बोधं कारितवान् । विजयानन्दः क्षमां ययाच । श्रीकृष्ण उवाच - "कलियुगस्य ४२०० वर्षपश्चात् तव जन्म क्षत्रियकुले भविष्यति । तदा तव मोक्षो भविष्यती"ति ।

कलौ विजयानन्दस्य 'बोडाणा'रूपे जन्म

[सम्पादयतु]
रणछोडरायस्य शृङ्गारारती

पूर्वजन्मनः पुण्यप्रभावेन विजयानन्दः शिश्वावस्थायामेव श्रीरणछोडरायस्य भक्तिं प्रारभत । कलियुगे विजयानन्दस्य नाम बोडाणा आसीत् । तस्य पत्न्याः नाम गङ्गाबाई आसीत् । बोडाणा वर्षे द्विवारं द्वारकां गत्वा द्वारकाधीशाय तुलसीसस्यम् अर्पयति स्म । सः षड्मासं यावत् तुलसीसस्यं पोषयति स्म, समाप्ते षष्ठमासे, तत् सस्यं द्वारकाधीशाय अर्पयति स्म । पुनः आगत्य आगामिनियात्रायै नूतनं तुलसीसस्यं प्रारोप्य पोषयति स्म । विना जामितो भूत्वा, सः बाल्यकालादारभ्य ७० वर्षपर्यन्तं, द्वारकाधीशस्य दर्शनार्थं द्वारकां गच्छति स्म, तुलसीसस्यं चार्पयति स्म । परन्तु 'बोडाणा'-परमभक्तः यदा ७२ वर्षीयः जातः, तदा श्रीकृष्णः तम् उक्तवान्, "भोः ! त्वं यदा आगामिनियात्रायै आगच्छेः, तदा शकटं नीत्वा आगच्छ । अहं त्वया सहैव आगमिष्यामी"ति ।

श्रीकृष्णस्य डङ्कपुरागमनम्

[सम्पादयतु]

प्रतिप्रश्नं विना 'बोडाणा' आगामिनियात्रायां शकटं नीत्वा अगच्छत् । यदा सः द्वारकां प्राप्तवान्, तदा द्वारकावासिनः 'गुग्गुली'-ब्राह्मणाः अपृच्छन्, "अरे वृद्ध! तव सदृशम् एनं जीर्णं शकटं नीत्वा कुत्र गच्छसि ? किमर्थम् एनं स्वञ्च पीडयसि त्वं ?" सुविविक्तः 'बोडाणा' उक्तवान्, "द्वारकाधीशं नेतुम् आगतोऽहम्" इति । परन्तु केऽपि तस्य विश्वासं न कृतवन्तः । तथाऽपि मन्दिरद्वारं तु बृहत्तालकेन पिधाय गतवन्तः ते । श्रीकृष्णः जन्मसमये यथा सर्वबन्धनं मुक्तं कृतवान्, तथा रात्रौ अस्य मन्दिरस्य द्वारमपि बन्धनमुक्तं कृतवान् । द्वारकानगर्याः सीमा-तः डङ्कपुरग्रामसीमापर्यन्तं श्रीकृष्णः रथम् अचालयत् । एवञ्च तौ कार्तिकमासस्य पूर्णीमायां डङ्कपुरं प्राप्तवन्तौ ।

'बोडाणा'-भक्तस्य मोक्षः

[सम्पादयतु]

प्रातःकाले 'गुग्गुली'-ब्राह्मणाः दृष्टवन्तः यत् द्वारकाधीशस्य विग्रहः नास्ति इति । 'बोडाणा' एव विग्रहं नीत्वा अगच्छत् इति विचिन्त्य ते डङ्कपुरं अगच्छन् । क्रोधेन ते 'बोडाणा'-परमभक्तम् आहूतवन्तः । परन्तु श्रीकृष्णः 'बोडाणा'-परमभक्तम् उक्तवान् "मां गोमतीतडागे गोपयतु" इति । अतः 'बोडाणा' श्रीकृष्णं तडागे गोपयित्वा ब्राह्मणानुप अगच्छत् । क्रुद्धाः ब्राह्मणाः 'बोडाणा'-परमभक्तोपरि शूलस्य प्रहारम् अकुर्वन् । तेन प्रहारेणैव 'बोडाणा'-परमभक्तस्य मोक्षो जातः । प्रहारे सति तस्य रक्तं यथा निर्गतं, तथैव जलमग्नश्रीकृष्णस्यापि अभूत् । श्रीकृष्णस्य रक्तेन जलमपि रक्तवर्णीयं जातम् । अतः तडागजलं रक्तवर्णीयमस्तीति भक्ताः वदन्ति ।

'सेवर्धन'नामके कूपे द्वाराकाधीशविग्रहः

[सम्पादयतु]

'गुग्गुली'ब्राह्मणाः द्वारकाधीशं द्वारकां पुनरागम्यताम् इति न्यवेदयन् । परन्तु श्रीकृष्णः उवाच- "भो ब्राह्मणाः! भवन्तः षड्मासपश्चाद् द्वारकायाः 'सेवर्धन'नामके कूपे द्वितीयं विग्रहं प्राप्स्यन्ति । तस्य विग्रहस्य पूजां कुर्वन्तु" इति । परन्तु अधीराः 'गुग्गुली'ब्राह्मणाः षड्मासात् पूर्वमेव भगवतः विग्रहम् अन्वेष्य द्वारकां नीतवन्तः । तेन विग्रहस्य आकारः लघु अस्ति इति भक्ताः कथयन्ति ।

अस्याः कथायाः कुत्रापि उल्लेखो नास्ति । परन्तु भक्ताः वदन्ति, एतस्याः श्रीकृष्णलीलायाः पश्चाद् श्रीद्वारकाधीशः डङ्कपुरे एव निवसन्नस्ति इति ।

रणछोडरायस्य भव्यमन्दिरस्य स्थापना

[सम्पादयतु]

१७७२ तमे वर्षे शुभकृतिसंवत्सरे, १६९० तमे शालिवाहनशके, फाल्गुनमासे, कृष्णपक्षस्य पञ्चम्यां, सोमवासरे, गोमतीतडागस्य पूर्वदिशि रणछोडरायस्य भव्यातिभव्यस्य सुन्दरमन्दिरस्य प्राणप्रतिष्ठा जाता []

गोमतीतडागमन्दिरम्

गोमतीतडागमन्दिरम्

[सम्पादयतु]

गोमतीतडागे यत्र श्रीकृष्णस्य विग्रहः आसीत्, तत्र एकं मन्दिरम् अस्ति । भक्ताः कथयन्ति, अत्रस्था भूमिः अधुनापि रक्तवर्णीयास्ति । अत्र भगवतः श्रीकृष्णस्य चरणचिह्नमस्ति । सर्वे गत्वा श्रीकृष्णस्य पूजनं कुर्वन्ति ।

मुख्योत्सवाः

[सम्पादयतु]

१. कार्तिकमासस्य शुक्लपक्षस्य प्रतिपदा - अन्नकूटोत्सवः, गोवर्धनपूजा
२. कार्तिकमास्य शुक्लपक्षस्य एकादशी - तुलसीविवाहः
३. माघमास्य कृष्णपक्षस्य पञ्चमी - श्रीरणछाडरायस्य प्राणप्रतिष्ठापनोत्सवः
४. फाल्गुनमास्य शुक्लपक्षस्य पूर्णिमा - होलीका (एतस्मिन् दिने लक्षशः भक्ताः पदयात्राद्वारा तत्र गच्छन्ति ।)
५. श्रावणमास्य कृष्णपक्षस्य अष्टमी - जन्माष्टमी

मार्गाः

[सम्पादयतु]

धूमशकटमार्गः

[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः नडियाद्रेलस्थानं सरलतया प्राप्तुं शक्यते । ततः 'बस्'यानेन डङ्कपुरं (डाकोर) प्राप्तुं शक्यते ।

भूमार्गः

[सम्पादयतु]

डङ्कपुरम् अहमदाबाद्तः ९० कि.मी., नडियाद्तः ४२ कि.मी., आणन्द्तः ३० कि.मी. दूरे अस्ति । एतेभ्यः नगरेभ्यः डङ्कपुरं प्राप्तुं यानानि मिलन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]

कृष्ण

शिव

ब्राह्मण

महाभारत

बाह्यानुबन्धः

[सम्पादयतु]

http://www.gujaratindia.com/about-gujarat/dakor.htm Archived २०१३-१२-२७ at the Wayback Machine

http://yatradham.gujarat.gov.in/Yatradhams/Dakor/default.html Archived २०१३-०८-०८ at the Wayback Machine

http://www.accuweather.com/en/in/dakor/188241/weather-forecast/188241

http://www.mapsofindia.com/india/where-is-dakor.html

उद्धरणम्

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=डङ्कपुरम्&oldid=488218" इत्यस्माद् प्रतिप्राप्तम्