"उत्तरकाशीमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
उद्धरणम् using AWB
पङ्क्तिः ४८: पङ्क्तिः ४८:
== भौगोलिकम् ==
== भौगोलिकम् ==


उत्तरकाशीमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[हिमाचलप्रदेशः]], [[चीनादेशः| चीनदेशः]] च, दक्षिणदिशि [[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[पौरीगढवालमण्डलम्|पौरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, पूर्वदिशि [[चमोलीमण्डलम्|चमोलीमण्डलं]], [[चीन|चीन]]देशः च, पश्चिमदिशि [[देहरादूनमण्डलम्]] अस्ति ।
उत्तरकाशीमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[हिमाचलप्रदेशः]], [[चीनादेशः|चीनदेशः]] च, दक्षिणदिशि [[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[पौरीगढवालमण्डलम्|पौरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, पूर्वदिशि [[चमोलीमण्डलम्|चमोलीमण्डलं]], [[चीन]]देशः च, पश्चिमदिशि [[देहरादूनमण्डलम्]] अस्ति ।


== जनसङ्ख्या ==
== जनसङ्ख्या ==
पङ्क्तिः ९१: पङ्क्तिः ९१:
{{उत्तराखण्डस्य मण्डलानि}}
{{उत्तराखण्डस्य मण्डलानि}}


[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
{{शिखरं गच्छतु}}
{{शिखरं गच्छतु}}

[[वर्गः:उत्तराखण्डस्य मण्डलानि]]

१०:२२, ६ अक्टोबर् २०१५ इत्यस्य संस्करणं

उत्तरकाशीमण्डलम्

Uttarkashi District
उत्तरकाशी जिला
उत्तरकाशीमण्डलम्
उत्तरकाशीमण्डलस्य गङ्गोत्रीमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि मोडी, भाटवाडी, पुरौला, राजगढी, डूण्डा, चिन्यलीसौर
विस्तारः ८,०१६ च.कि.मी.
जनसङ्ख्या(२०११) ६,१८,९३१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७५.८१%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://tehri.nic.in/

उत्तरकाशीमण्डलम् ( /ˈʊttərəkɑːʃɪməndələm/) (हिन्दी: उत्तरकाशी जिला, आङ्ग्ल: Uttarkashi District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उत्तरकाशी इति नगरम् । उत्तरकाशीमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले गङ्गोत्री-यमुनोत्री-मन्दिरे स्तः ।

भौगोलिकम्

उत्तरकाशीमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि हिमाचलप्रदेशः, चीनदेशः च, दक्षिणदिशि देहरादूनमण्डलं, पौरीगढवालमण्डलं, रुद्रप्रयागमण्डलं च, पूर्वदिशि चमोलीमण्डलं, चीनदेशः च, पश्चिमदिशि देहरादूनमण्डलम् अस्ति ।

जनसङ्ख्या

उत्तरकाशीमण्डलस्य जनसङ्ख्या(२०११) समस्ता ३,७६,३९३ अस्ति । तस्मिन् , १,६८,५९७ पुरुषाः, १,६१,४८९ स्त्रियः, ४६,३०७ बालकाः (२४,१६५ बालकाः, २२,१४२ बालिकाः च ) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ७५.८१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८८.७९% स्त्री – ६२.३५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मोडी, भाटवाडी, पुरौला, राजगढी, डूण्डा, चिन्यलीसौर

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि मन्दिराणि सन्ति । यथा – गङ्गोत्रीमन्दिरं, यमुनोत्रीमन्दिरं, शनिमन्दिरं, भैरवमन्दिरं, कपिलमुनेः आश्रमः, कर्णदेवता, पोखुदेवता, दुर्योधनमन्दिरम् ।

गङ्गोत्रीमन्दिरम्

मानवानां सर्वाणि पापानि हरन्ती नदी अस्ति गङ्गा । अतः नदीषु गङ्गायाः पूजा सर्वाधिका भवति । गङ्गानदी पवित्रतायाः प्रतीकः अस्ति । अतः कथ्यते यत्, अमुकजलं गङ्गाजलवत् पवित्रमस्तीति । पुराणे कथास्ति यत्, मानवानां पापशमनार्थं, पालनार्थञ्च विष्णुः गङ्गां स्वपादाङ्गुष्ठात् उद्भावयत् । गङ्गायाः उद्भवे सति तस्याः पूजा प्रारभत । एवम् एतस्मिन् स्थले गङ्गायाः पवित्रमन्दिरस्य निर्माणमभूदिति । अस्मात् मन्दिरादेव अस्य स्थलस्य नाम गङ्गोत्रीति । अन्या कथास्ति यस्यां भगीरथनामकः राजा गङ्गायाः प्रवाहमार्गं प्रशस्तं कर्तुं तपस्तप्यत । तस्य तपसा एव गङ्गायाः अवतरणं स्वर्गात् भूलोके अभूदिति । अतः गङ्गायाः अपरं नाम भागीरथी अस्ति ।

यमुनोत्री

गङ्गायाः वर्णः श्वेतः इति कथ्यते । यमुनायाः वर्णः कृष्णः श्यामः वा इति कथ्यते । यमुनोत्रीयात्रा क्लिष्टतमा यात्रास्ति । यमुनानदी कालिन्दीपर्वतात् उद्भवति । यमुनोत्रीयात्रायाः मार्गे मार्कण्डेयर्षेः आश्रमः अस्ति । अनुमानमस्ति यत्, तत्र स्थित्वैव मार्कण्डेयर्षिः मार्कण्डेयपुराणम् अलिखत् ।

अस्मिन् मण्डले अन्यानि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – नेहरु इन्स्टिट्युट् ओफ मौण्टनीरिङ्, विझ्डम् कोटेज्, गोबाण्ड् नेशनल् पार्क्, पुलोरा एक्वेशनस्, टिहरी शहीद स्मारक ।

बाह्यानुबन्धः

http://uttarkashi.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/uttarkashi.htm

http://www.euttaranchal.com/uttaranchal/uttarkashi.php

"https://sa.wikipedia.org/w/index.php?title=उत्तरकाशीमण्डलम्&oldid=318073" इत्यस्माद् प्रतिप्राप्तम्