सुन्दरवनराष्ट्रियोद्यानम्
सुन्दरवनराष्ट्रीयोद्यानम् | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम्, |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | |
अनुबन्धाः | ९४५ |
क्षेत्रम् | एषियापेसिफिक् |
निर्देशाङ्कः | ii, iv |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.२००४ (२८तमं सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
सुन्दरवनम् अथवा स्थलीयभाषया सुन्दरबन् विश्वस्य अतिविस्तृतं सम्मिश्रसामान्योन्नतवृक्षाणाम् अरण्येषु अन्यतमम् अस्ति । एतत् अन्वर्थकम् अस्ति । एतदरण्यं विशालं नयनमनोहरम् चास्ति । गङ्गानद्याः सागरमुखे शोभमानं सुन्दरवनारण्यं बाङ्ग्लादेशे भारते च व्याप्तम् अस्ति । नदीमुखजभूमौ सागरतटे विद्यमानस्य एतस्य विस्तीर्णं १०सहस्रं व.कि.मी. अस्ति । अस्य ६सहस्रं व.कि.मी. बाङ्ग्लादेशे अस्ति अवशिष्टः भागः भारते अस्ति । सा.श.१९९७तमवर्षे युनेस्कोसंस्थया एतद्वनं विश्वपरम्परास्थानमिति उद्घुष्टम् । उभयराष्ट्रयोः व्याप्तम् एतत् अरण्यम् एकमेव प्राकृतिकखण्डः चेदपि युनेस्को द्वारा भारतस्य बङ्गालस्य च विश्वपरम्परास्थानम् इति पृथक् परिगणितः । सुन्दरवनं सङ्कीर्णं सागरकुल्यायुतम् अस्ति । अपि च एतत् पङ्काङ्गणं सामान्यवृक्षाणां मिश्रारण्यं च अन्तर्गच्छति । लघुलघुद्वीपानि अत्र अधिकसङ्ख्यया सन्ति । समुद्रस्य क्षारजलमेव पिबन्तः एते वृक्षाः संवृद्धिसमर्थाः । सुन्दरवनं बङ्गालव्याघ्रस्य मूलस्थानम् । ५०० बङ्गालव्याघ्राः (रायल् बेङ्गाल् टैगर्स्) सन्तीति परिगणितम् । अपि च अत्र विविधजातीयाः मृगाः, मकराः, उरगाः, पक्षिणः च अत्र निवसन्ति ।
इतिहासः
[सम्पादयतु]मोघलवंशीयानां प्रशासनकाले (सा.श.१२०३-१५३८) राजानः अत्र सुन्दरबनस्य निर्वहणं भाटार्थं दत्तवन्तः । अयं प्रदेशः विश्वे एव प्रथमवारं वैज्ञानिकरीत्या निरूढः सामन्यवृक्षाणां मिश्रारण्यम् । सुन्दवनस्य निर्वहणं सा.श. १७५७तमवर्षे मोघलराजात् अलङ्गीरात् ईश्ट् इण्डिया इति आङ्ग्लसमवायेन भाटकर्थं स्वीकृतम् । अग्रे सा.श. १८७५-७६काले सुन्दरवनं रक्षितारण्यम् इति उद्घुष्टम्
भूरचनं परिसरः च
[सम्पादयतु]सुन्दरवनं गङ्गानद्याः मुखजभूमिः अतः अत्र अतिसङ्कीर्णपारिसरिकी व्यवस्था अस्ति । अस्य ६२%अंशः बङ्गालदेशस्य आग्नेयसागरटे अस्ति । अरण्यस्य दक्षिणदिशि गङ्गासागरः (बङ्गालकोल्ली) अस्ति । अस्य पूर्वसीमायां बालेश्वरनदी अस्ति । उत्तरे सुफलं कृषिक्षेत्रम् अस्ति । प्रमुखनदीः अतिरिच्य अन्येषु अनेकेषु निर्झरेषु जलबन्धाः निर्मिताः । अनेन जलस्य प्रवाप्रमाणः अपि कुण्ठितः । कालक्रमेण सुन्दरवनस्य विस्तारः अपि क्षयन् अस्ति । अत्र विद्यमानाः नदीकुल्याः मधुजलक्षारजलयोः सङ्गमस्थानं सन्ति । अत्र भूमिः समुद्रस्तराः ०.९मी. औन्नत्य अस्ति । सागरतटास्य भौगोलिकप्रगतिः सागरस्य तरङ्गानां चलनं, तस्य आरोहावरोहौ तीरस्य जलबलम् इत्यादिभिः अवलम्बिता भवति । सामान्यतः एते तस्य भूप्रदेशस्य क्षयं निश्चिन्वन्ति । अस्य अर्ण्यस्य वृक्षाः भूप्रदेशस्य ह्रासं नियन्त्र्यं भूस्थैर्यं रक्षन्ति । वृष्टिकाले अत्र मुखजभूमिः जलावृता भवति । अस्मिन् काले समुद्रदिशायां प्रेषितकर्दः चण्डमारुतस्य प्रक्रियया अनुप्राप्तः भवति । अनेन अस्मिन् सुन्दरवनप्रदेशे सर्वदा सुफलवती मृत् सदा समृद्धा भवति । सुन्दरवने मधुरजलस्य प्रवाहप्रमाणं कुण्ठितम् । तस्मात् वृक्षाणां प्रमाणम् अपि न्यूनं सम्भवत् अस्ति । एतस्मात् भूप्रदेशस्य क्षयः अपि सञ्जातः । क्रमेण अधिकभागः सागरे निमग्नः भविष्यति इति शङ्का अस्ति ।
-
सुन्दरवनस्य पङ्काङ्गणम् ।]
-
सुन्दरवनस्य नदीतीरे सामान्यवृक्षाणां समुच्चयः।
-
सुन्दरिवृक्षः ।
-
सुन्दरवनस्य उपग्रहग्रस्तचित्रम् । गाढहरिद्वर्णयुक्तः सुन्दरवनप्रदेशः ।।
सस्यवैविध्यम्
[सम्पादयतु]सुन्दरवने सामान्यतः २४५ सस्यकुलानां ३३४जातिप्रभेदाः सन्ति । सुन्दरवनम् आर्द्रयुक्तोष्णप्रदेशः इति वर्गीकृतम् । जले विद्यमनक्षारत्व परिगणय्य अरण्यं त्रिधा विभाक्तम् । सुन्दरिवृक्षाः गेवावृक्षाः च अत्र बहुधा प्ररोहन्ति । अपि डुण्डुल् काङ्क्राः वृक्षाः अपि यथेष्टं सन्ति । नैकविधस्य तृणानि तालवृक्षस्य अनेकप्रभेदाः च अत्र सन्ति । नक्षत्राङ्कितमृगानां प्रमुखः आहारः कोयोरासस्यम् अत्र अधिकप्रमाणेन रोहन्ति ।
जीविसङ्कुलम्
[सम्पादयतु]सुन्दरबनस्य प्राणिवैविध्यम् अतीव विस्तृतम् । बङ्गालस्य व्याघः डाल्फिन्मीनाः अत्र प्रसिद्धाः । अत्र नैकानि वन्यधामानि निर्मितानि । अस्मिन् प्रदेशे मृगया अरण्योत्पन्नस्य सङ्ग्रहः सम्पूर्णं निषिद्धः । अतः अत्रस्थाः जन्तवः सुरक्षिताः । अत्र ५००व्याघ्राः सन्तीति उपगतम् । विविधजातीयाः सागरकूर्माः, मानिटरगोधाः, अजगराः इत्यादयः वसन्ति ।
प्राणिगणतिकालः | मृगाः | रीसस् कपयः | मानिटर् गोधाः | वन्यसूकरः | दक्षिणस्य २४विभागेषु व्याघ्रसङ्ख्या । | सुन्दरवनस्य व्याघ्रसुरक्षास्थानेषु व्याघ्रसङ्ख्या । | |||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
पुमान् | स्त्रीः | वत्सः | आकलनम् | पुमान् | स्त्रीः | वत्सः | आकलनम् | प्रायः | |||||
सा.श.१९७३ | अपूर्णगणनम् । | ५०+ | ५०+ | ||||||||||
सा.श.१९७६ | ६६ | ७२ | ४३ | १८१ | १८१ | ||||||||
सा.श.१९७७ | अज्ञातम् । | २०५ | २०५ | ||||||||||
सा.श.१९८३ | १३७ | ११५ | १२ | १६४ | २६४ | ||||||||
सा.श.१९८९ | ३०,८८६ | १२६ | १०९ | ३४ | २६९ | २६९ | |||||||
सा.श.१९९२ | ९२ | १३२ | २७ | २५१ | २५१ | ||||||||
सा.श.१९९३ | ३०,९७८ | ३७,६९१ | १०,२७२ | ११,८६९ | |||||||||
सा.श.१९९६ | ९५ | १२६ | २१ | २४२ | २४२ | ||||||||
सा.श.१९९७ | १३ | १६ | ६ | ३५ | ९९ | १३७ | २७ | २६३ | २९८ | ||||
सा.श.१९९९ | ९ | १६ | ५ | ३० | ९६ | १३१ | २७ | २५४ | २८४ | ||||
सा.श.२००१ | ७ | १३ | ६ | २६ | ९३ | १२९ | २३ | २४५ | २७१ | ||||
सा.श.२००४ | ७ | १४ | ४ | २५ | ८३ | १३३ | ३३ | २४९ | २७४ |
बाह्यानुबन्धाः
[सम्पादयतु]- सुन्दरवनस्य विषये मूलज्ञानम् । Archived २००८-११-१५ at the Wayback Machine
- युनेस्कोसंस्थायाः अधिकृतं जालस्थानम् ।
- सुन्दरवनस्य व्याघ्रसुरक्षाप्रकल्पः ।
- सुन्दरवनराष्ट्रियोद्यानम् ।[नष्टसम्पर्कः]
- सुन्दरवनराष्ट्रियोद्यानम् ।
- EcoIndia.com सुन्दरवनराष्ट्रियोद्यानम् । Archived २००७-०४-०७ at the Wayback Machine
- Web123India: सुन्दरवनराष्ट्रियोद्यानम् ।