अमर्त्य सेन

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अमर्त्यसेनः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अमर्त्यसेनः
Capability Approach
Amartya Sen NIH.jpg
Official Portrait at the Nobel Prize
जन्म नवम्बर ३, १९३३ (1933-11-03) (वयः ८०)
Santiniketan, Bengal Presidency, British India (present-day West Bengal, India)
राष्ट्रियता Indian
संस्था
कार्यक्षेत्रम् Welfare economics, development economics, ethics
मुख्यशिक्षणम् Presidency College of the University of Calcutta (B.A.),
Trinity College, Cambridge (B.A., M.A., Ph.D.)
प्रभावः
प्रभावितः
योगदानम् Human development theory
प्रशस्तयः Nobel Prize in Economics (1998)
Bharat Ratna (1999)
National Humanities Medal (2012)[३]
Information at IDEAS/RePEc

अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः । अर्थशास्त्राय एतेन कृतानि योगदानानि, समाजस्य निर्धनानां समस्यानां विषये अस्य आसक्तिं च पुरस्कृत्य अयं १९९८ तमे वर्षे नोबल्-पारितोषिकेण सम्मानितः । दुर्भिक्षायाः हेतूनां विषये अनेन कृतानां प्रयासानां कारणतः आहाराभावसमस्यायाः प्रायोगिकपरिहारान् प्राप्तुं शक्तवन्तः । नेषनल्-हुमानिटिस्-पदकम् अनेन २०१२ तमे वर्षे प्राप्तम् । इदं पदकं प्राप्तवान् प्रथमः अनिवासी-अमेरिकाजनः अयमेव ।

अद्यत्वे अयं थामस् डब्ल्यू लमण्ट् विश्वविद्यालये प्राध्यापकः, हार्वर्ड् विश्वविद्यालये अर्थशास्त्र-तत्त्वशास्त्रयोः प्राध्यापकः च अस्ति । हार्वर्ड्-सोसैटि-सदस्येषु अयं ज्येष्ठः गौरवसदस्यः अस्ति । आल् सोल्स् विद्यालयस्य आक्स्फर्ड् विद्यालयस्य च विशिष्टगौरवसदस्यः, ट्रिनिटि-केम्ब्रिड्ज्-विद्यालययोः गौरवसदस्यश्च अस्ति [४]। आक्स्ब्रिड्ज्-विद्यालयस्य प्रथमः भारतीयः प्रथमः एशियनीयः प्रमुखः अस्ति ।

चत्वारिंशत्सु वर्षेषु अमर्त्यसेनस्य पुस्तकानि एकत्रिंशदधिकाभिः भाषाभिः अनूदिताः सन्ति । शान्त्यै रक्षणाय च अर्थशास्त्रज्ञाः (Economists for Peace and Security) इत्येतस्य गणस्य विश्वस्तः अस्ति ।

'टैम्'पत्रिकया निर्दिष्टम् अस्ति यत् 'एशियन्-नायकानां ६० वर्षाणि' इत्यस्याम् आवल्यां तस्य नाम योजितवती अस्ति । अपि च 'जगतः १०० अति प्रभावशालिनः जनाः' इत्यत्र अपि अस्य नाम् योजितमस्ति । 'जगतः अपेक्षिताः ५० अति प्रभावशालिनः' इत्यस्मिन् २०१० तमायां सञ्चिकायाम् अस्य नाम निर्दिष्टवती अस्ति न्यू स्टेट्स्मन् पत्रिका ।

बाल्यजीवनं विद्याभ्यासश्च[सम्पादयतु]

पश्चिमवङ्गराज्ये शान्तिनिकेतने हिन्दुवङ्गवैद्यब्राह्मणकुले सेनस्य जन्म अभवत् । रवीन्द्रनाथठागूरेण 'अमर्त्यसेनः' इति नाम चितम् इति श्रूयते । तस्य मातामहः आचार्यः क्षितिमोहनसेनः रवीन्द्रनाथठागूरस्य आत्मीयः आसीत् । सः मध्यकालीनभारतीयेतिहासस्य तज्ज्ञः, हिन्तुतत्त्वशास्त्रे कृतभूरिपरिश्रमः, विश्वभारती-विश्वविद्यालयस्य द्वितीयः उपकुलपतिश्च आसीत् । तस्य मातामहः, प्रथमनिर्वाचनाधिकारिणः सुकुमारसेनस्य, प्रसिद्धवैद्यस्य अमियासेनस्य, न्यायवादिनः अशोककुमारस्य च पितृव्यः आसीत् । सेनस्य पिता प्राध्यापकः आशुतोषसेनः माता अमिता । एतौ ढाकायाः मणिक्गञ्जे जन्म प्राप्तवन्तौ । तस्य पिता ढाकाविश्वविद्यालये रासायनिकशास्त्रस्य प्राध्यापकः आसीत् । अग्रे वेस्ट्बेङ्गाल्-पब्लिक्-सर्वीस्-कमीषन्-संस्थायाः अध्यक्षरूपेण देहल्यां बहूनि वर्षाणि कार्यम् अकरोत् ।

आधुनिक-पश्चिमवङ्गराज्यस्य ढाकायां सैण्ट् ग्रेगोरिविद्यालये सेनस्य प्रौढशालाभ्यासः जातः । १९४७ तमे वर्षे भारतस्य विभजनानन्तरं तदीयं कुटुम्बं भारतं प्रति आगतम् । भारते सेनः विश्वभारती-विश्वविद्यालय-विद्यालये अपठत् । ततः कोल्कोतानगरस्थे प्रेसिडेन्सिविद्यालये अर्थशास्त्रम् अधीत्य बि ए पदवीं प्रथमश्रेण्यां प्राप्तवान् । १९५३ तमस्य गणस्य अति प्रतिभावान् विद्यार्थी आसीत् सः । तस्मिन् एव वर्षे सः केम्ब्रिड्ज्मध्ये विद्यमानं ट्रिनिटिविद्यालयं प्रति अगच्छत् । तत्र १९५६ तमे वर्षे ऐच्छिकपदवीपरीक्षां प्रथमश्रेण्या उत्तीर्णः । सः केम्ब्रिज् मजिसस्य अध्यक्षरूपेण चितः ।

ट्रिनिटिविद्यालये पठनावसरे एव सेनेन प्रशान्तचन्द्रमहलनोबिसः मिलितः, यः सेनस्य व्यक्तित्वात् नितरां प्रभावितः जातः । कलकत्तां गतः सः तदानीन्तनेन शिक्षणमन्त्रिणा त्रिगुणसेनेन अमिलत् । नूतनजादवपुरविश्वविद्यालयस्य संस्थापने त्रिगुणसेनः उपकरणरूपः जातः ।

परीक्षायाः समाप्तेः अनन्तरं सेनः अर्थशास्त्रे विद्यावारिधिं (डाक्टरेट्) प्राप्तुम् आवेदनं समर्प्य वर्षद्वयात्मकं विरामं प्राप्य भारतं प्रत्यागतः । त्रिगुणसेनः अनुपदमेव तं जाधवपुरस्य विश्वविद्यालये अर्थशास्त्रविभागे प्राध्यापकत्वेन नियुङ्क्तवान् । तदा तस्य वयः आसीत् २३ वर्षाणि । अद्यत्वे अपि तस्मिन् लघुवयसि विश्वविद्यालये प्राध्यापकत्वं प्राप्तवान् जनः सः एकः एव अस्ति । तत्र कार्यकरणावसरे बेनारस् हिन्दु विश्वविद्यालये पाठयतः अर्थशास्त्रे कृतभूरिपरिश्रमस्य ए के दासगुप्तस्य मार्गदर्शनं सेनेन प्राप्तम् । सेनः १९५९ तमे वर्षे केम्ब्रिड्ज्विद्यालयं प्रतिगतवान् ।

ट्रिनिटीविद्यालयतः तेन विशेषानुमतिः प्राप्ता यत् वर्षचतुष्टयं तेन यत्किमपि कर्तुं शक्यते इति । तदवसरे तेन तत्वशास्त्रम् अध्येतव्यम् इति अपूर्वनिर्णयः कृतः । अग्रिमशोधकार्याय इदं नितरां प्रयोजनाय जातम् । तत्त्वशास्त्रस्य अध्ययनस्य महत्त्वविषये सः वदति - अर्थशास्त्रस्य केचन प्रमुखाः अंशाः तत्त्वशास्त्रस्य पृष्ठभूमिकायामेव समीचीनतया अवगन्तुं शक्याः इत्येतन्मात्रं न अपि च तत्त्वशास्त्रस्य पठनं स्वयं महत्त्वपूर्णम् इति ।

अध्यापनम्[सम्पादयतु]

१९६०-१९६१ वर्षयोः अमर्त्यः मस्सचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नालजि विद्यालये सन्दर्शक-प्राध्यापकत्वेन कार्यम् अकरोत् [५]। बर्क्ले, स्ट्यान्फोर्ड्, कार्नेल् महाविद्यालयेषु अपि एवं कार्यम् अकरोत् । तेन कल्कत्ताविश्वविद्यालये अपि अर्थशास्त्रं बोधितम् । १९६१ तः-१९७२ पर्यन्तं डेल्लि स्कूल् आफ् एकनामिक्स् शिक्षणसंस्थायां प्राध्यापकत्वेन कार्यं कृतम् । अयं कालः तस्याः संस्थायाः स्वर्णकालः इति कथ्यते । १९७२ तः १९७७ पर्यन्तं तेन लण्डन् स्कूल् आफ् एकनामिक्स् मध्ये अर्थशास्त्रप्राध्यापकत्वेन कार्यं कृतम् । १९७७ तः १९८६ पर्यन्तम् आक्स्फर्ड्-विश्वविद्यालये कार्यं कृतम् । १९८६ तमे वर्षे तेन हार्वर्ड्-विश्वविद्यालयः प्रविष्टः । १९८८ तः २००४ पर्यन्तं केम्ब्रिड्ज्-विश्वविद्यालये कार्यम् अकरोत् । पुनः २००४ तमे वर्षे हार्वर्ड्-प्रति प्रत्यागच्छत् ।

संशोधनानि[सम्पादयतु]

१९८१ तमे वर्षे अमर्त्यसेनेन 'दारिद्र्य-दुर्भिक्षयोः सामर्थ्यं लोपाश्च' (Poverty and Famines: An Essay on Entitlement and Deprivation) इत्येतस्मिन् विषये किञ्चन पुस्तकं प्रकाशितम् । अस्मिन् पुस्तके दुर्भिक्षायाः कारणम् आहाराभावमात्रं न अपि तु आहारवितरणव्यवस्थायाः न्यूनताः इति समीचीनतया प्रतिपादितः अस्ति [६]। वङ्गराज्यस्य दुर्भिक्षायाः कारणं नगरे जातस्य आहारमूल्यवर्धनम् । ततः ग्रामीणाः दिनभृत्यकाः आहाराभावेण मृत्युं प्राप्तवन्तः । नववर्षीयेण सेनेन १९४३ तमे वर्षे वङ्गराज्ये दुर्भिक्षा स्वयं दृष्टा आसीत् यस्यां ३० लक्षजनाः मरणं प्राप्तवन्तः । सेनस्य दृष्ट्या एतावता प्रमाणेन जीवनाशः अनिवार्यः न आसीत् । तेन दर्श्यते यत् तदवधौ वङ्गराज्ये अपेक्षितः आहारराशिः आसीत् एव । अचिरात् वर्धितम् आहारमूल्यं दातुं भृत्यगणः न अशक्नोत् । निरुद्योगः, असमीचीना आहारवितरणव्यवस्था, विविधाः सामाजिकाः समस्याः च दुर्भिक्षायाः कारणानि भवन्ति । सकारात्मकं स्वातन्त्र्यं सर्वेषां न आसीत् इत्यतः एवं महता प्रमाणेन जीवनाशः जातः इति प्रतिपादयति सेनः । एतदतिरिच्य तेन समाजोपरकराणि अन्यानि बहूनि संशोधनानि कृतानि |

वैयक्तिकं जीवनम्[सम्पादयतु]

सेनस्य प्रथमा पत्नी नबनीतदेवसेनः भारतीयलेखिका विदुषी च । तयोः उभे अपत्ये - अन्तरा, नन्दना च । अन्तरा पत्रकर्त्री, नन्दना बालिवुड्नटी च । भिन्नाभिप्रायकारणतः तयोः विवाहः अचिरादेव १९७१ तमे वर्षे एव विच्छिन्नः जातः [७]। १९७३ तमे वर्षे तेन द्वितीयः विवाहः कृतः । पत्नी जूविष्-महिला इवा कोलोर्नि या उदरार्बुदरोगात् १९८५ तमे वर्षे दिवङ्गता । तयोः अपत्ये न्यूयार्क्-पत्रकर्त्री इन्द्राणी, शाडी-हिल्-विद्यालये सङ्गीतशिक्षकः कबीरः । १९९१ तमे वर्षे सेनेन एम्मा गोर्गिना परिणीता । सेनः विरामकालं भारते, पश्चिमवङ्गे, शान्तिनिकेतने यापयति । बैक्याने दीर्घप्रयाणं तस्मै रोचते । मस्साचुसेट्स्नगरे विद्यमाने स्वगृहे पत्न्या एम्मया सह दीर्घविरामं यापयति । अधिकं पठनं जनैः सह चर्चाकरणञ्च तस्मै रोचते ।

आकराः[सम्पादयतु]

  1. The Idea of Justice (2009).
  2. Deneulin, S., (2009). "Intellectual roots of Amartya Sen: Aristotle, Adam Smith and Karl Marx – Book Review". Journal of Human Development and Capabilities, 10 (2), pp. 305–306.
  3. "2011 US National Humanities Medals". National Endowment for the Humanities. Retrieved 11 February 2012. 
  4. "ट्रिनिटि विश्वविद्यालय केम्ब्रिड्ज् - The Fellowship". Retrieved 17 मार्च 2014. 
  5. ""Amartya Sen – Autobiography"". Retrieved 17 मार्च 2014. 
  6. "The Real Causes of Famine". Retrieved 17 मार्च 2014. 
  7. Steele, Jonathan. "The Guardian Profile: Amartya Sen". London: The Guardian. http://www.theguardian.com/books/2001/mar/31/society.politics. 
"http://sa.wikipedia.org/w/index.php?title=अमर्त्य_सेन&oldid=275372" इत्यस्माद् पुनः प्राप्तिः