ईशावास्य उपनिषद्
विकिपीडिया इत्यस्मात्
ॐ पूर्णमदः पूर्णमिदम पूर्णात्पूर्णमुदच्यते| पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते||
||ॐ शान्तिः शान्तिः शान्तिः ||
ईशावास्यं इदं सर्वं यत् किञ्च जगत्यां जगत| तेन त्यक्तेन भुञ्जिथाः मा गृधः कस्य स्विद् धनम्||१||
कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः| एवं त्वयि नान्यथेतो स्ति न कर्म लिप्यते नरे||२||
असुर्या नाम ते लोका अंधेन तमसा वृताः| ता स्ते प्रेत्याभिगछन्ति ये के चात्महनो जनाः|| ३ ||
अनेजदैकं मनसो जवीयो नैनद्देवा आप्नुवन पूर्वमर्षत | तद्धावतो न्यानत्येति तिष्ठत तस्मिन्नपो मातरिश्वा दधाति ||४||
तदेजति तन्नैजति तद्दूरे तद्वन्तिके| तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः||५||
यस्तु सर्वाणि भूतान्यात्मनेवानुपश्यति | सर्वभूतेषु चात्मानं ततो न विजुगुप्सते||६||
यस्मिन्सर्वाणि भूतानि आत्मैवाभूद विजानतः | तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ||७||
स पर्यगाच्छक्रमकायव्रणम स्नाविर शुद्धमपापविद्धम | कविर्मनीषी परिभुः स्वयंभूर्याथातत्थ्यतो र्थान व्यदधाच्छाश्वतीभ्यहः समाभ्यः ||८||
अन्धं तमः प्रविशन्ति ये विद्यामुपासते | ततो भूय इव ते तमो य उ विद्याया रताः ||९||
अन्यदेवाहुर्विद्यया न्यदेवाहुर्विद्यया | इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे||१०||
विद्यां चाविद्यां च यस्तद वेदोभयम सह | अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते||११||
अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते | ततो भूय इव ते तमो य उ संभूत्या रताः ||१२||
अन्यदेवाहुः संभवादन्यदाहुरसंभवात| इति शुश्रुम धीराणां ये नस्तद विचचिक्षिरे ||१३||
संभूतिं च विनाशं च यस्तद वेदोभयम सह | विनाशेन मृत्युम तीर्त्वा सम्भुत्या मृतमश्नुते||१४||
हिरण्यमयेंन पात्रेण सत्यस्यापिहितं मुखं | तत्वं पूषन्नपावृणु सत्यधर्माय द्रृष्टये||१५||
पूषन्नेकर्षे यम् सूर्य प्राजापत्य व्यूह रश्मीन समूह| कल्याणतमं तत्ते पश्यामि यो सौ पुरुषः सो हमस्मि||१६||
वायुर्निलममृतमथेदम भस्मानतम शरीरम| ॐ क्रतो स्मर कृत स्मर क्रतो स्मर कृत स्मर ||१७||
अग्ने नय सुपथा राये अस्मान विश्वानी देव वयुनानि विद्वान्| युयोध्यस्म ज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम||१८||
ॐ पूर्णमदः पूर्णमिदम पूर्णात्पूर्णमुदच्यते| पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते||
||ॐ शान्तिः शान्तिः शान्तिः ||