गुल्बर्गा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुल्बर्गा
कल्बुर्गी
—  नगरम्  —
गुल्बर्गादुर्गस्थं जुम्मामस्जिद्
Coordinates: 17°20′00″N 76°50′00″E / 17.3333°N 76.8333°E / 17.3333; 76.8333
राष्ट्रम् भारतम्
ऱाज्यम् कर्णाटकम्
भागम् बयलुसीमे
मण्डलम् गुल्बर्गामण्डलम्
औन्नत्यम्
गुल्बर्गा
भारतीय सामान्यकालमानम् (UTC+5ः30)
पत्रालयकूटसंख्या 585101
दूरवणीकूटसंख्या 91 8472
वाहनपञ्जीकरणम् KA-32


गुल्बर्गानगरं (Gulbarga) कर्णाटकराज्ये स्थितं प्रमुखं नगरम्। मण्डलकेन्द्रं च । कल्बुर्गी (STD-०८४७२)

गुल्बर्गानगरस्य अद्भुतकौशलविस्मयः[सम्पादयतु]

कलबुर्गी अथवा गुल्बर्गानगरे षड्शतवर्षेभ्यः पूर्वं निर्मितं किञ्चन दुर्गम् इदानीमपि सुस्थितौ सत् विस्मयमावहति । वर्षा, उष्णता, शैत्यं, वायुकोपः इत्यादिभिः आघातं प्राप्य अपि स्वस्य अस्तित्वं रक्षत् सत् आश्चर्यं जनयति । देशे बहुभ्यः प्रदेशेभ्यः जनाः अत्र आगच्छन्ति । बन्दे नवाज् उरुस् अत्र विशेषोत्सवः । भारते एतादृशविशिष्टशैल्या निर्मितम् मसीदि (प्रार्थनास्थलम्) एकमेव अस्ति । एतत् तन्त्रवास्तुशिल्पिनां कृते पन्थाह्वानं कुर्वत् अस्ति । गुल्बर्गानगरम् क्रिस्ताब्दे १३४७ तः १४२४ पर्यन्तं बहमनीसाम्राज्यस्य राजधानी आसीत् । एतेषां समये एव कल्बुर्गी इत्याख्यम् एतत् नगरं गुल्बर्गा इति नाम प्राप्नोत् । तत्कालीनं राजगृहं, मसीदी, दर्गाः( प्रार्थनामन्दिरम्), इत्यादयः निर्मिताः आसन् । विंशति-एकरविशालप्रदेशे जुम्मामसीदी भवनं निर्मितम् । इस्लां शैल्या रचितमेतत् ।

बहमनीराज्यस्थापकस्य हसन् गङ्गूमिनस्य पुत्रः महम्मदः-१ एतेषां सर्वेषां भवनानां निर्माणकर्ता आसीत् । एषः मूरिशनामकस्य शिल्पिनः साहाय्येन एतत् विशिष्टं भवनशिल्पं निर्मितवान् । स्पेन् देशे स्थितं कार्डोवामसीदीसदृशं भवनं एतत् भारतदेशे एव प्रसिद्धम् अस्ति ।

अस्य विस्तारः पूर्वपश्चिमे २१६ पादमितं, दक्षिणोत्तरे १७० पादमितम् । अस्य शिल्पस्य १४० स्तम्भाः आधाररूपेण सन्ति । २५० सुन्दरवक्रतोरणानि सन्ति । पञ्च अर्धगोलाच्छादकाः सन्ति । एतेषां व्यासः ६३ मीटर् अस्ति । अन्तर्भागः लताभिः अलङ्कृतः। ध्वनिसंवहनदृष्ट्या अपि अत्र विशेषपरिणतिः प्रदर्शिता अस्ति प्रार्थनाध्वनिः कुत्रापि न प्रतिध्वनति । ३०० पादपरिमिते दूरे उपविष्टवन्तः अपि स्पष्टतया श्रोतुं शक्नुवन्ति ।

केचन ’एतत् भवनं बैजाण्टियन् शैल्या निर्मितानां तुर्क् देशीय-प्रार्थनामन्दिराणां विन्यासाः इव सन्ति’ इति कथयन्ति । अन्ये इण्डो-पर्शियन् , इण्डो-इस्लामिक् शैलिमिश्रितम् इति वदन्ति ।

शिक्षा[सम्पादयतु]

नगरे द्वौ चिकित्सामहाविद्यालयौ स्तः। महादेवाप्पा-रामपुर-चिकित्सामहाविद्यालयः(एम्.आर्.एम्.सि) एवञ्च के.बि.एन्. चिकित्सामहाविद्यालयः। अत्र नगरेऽस्मिन् दन्तचिकित्सामहाविद्यालयत्रयं हेच्.के.ई.समाजेन तथा आलबदर् ट्रास्ट, ई.एस्.आई चिकित्साकेन्द्रद्वारा परिचालिताः सन्ति।

नगरेऽस्मिन् षठ् तान्त्रिकमहाविद्यालयाः(Engineering college) विविधप्रतिष्ठानैः परिचालिताः सन्ति। परवर्तीप्रजन्मयन्त्रविद्या(Next Generation Robotics) एवञ्च वि.एल्.एस्.आई प्रारूपप्रशिक्षणं तथा उत्कर्षकेन्द्रमपि अत्र प्रारब्धम् अस्ति भासयान्त्रिकविद्या इति नाम्ना(पि.डि.ए तान्त्रिकमहाविद्यालयस्य समीपे)।

पुनः गुल्बर्गाविश्वविद्यालयः इति एकः विश्वविद्यालयोऽपि अस्यां नगर्याम् अशीत्युत्तर-उनविंशतिशतक्रीस्तवर्षे (१९८०) संस्थापितः । विचारव्यवस्थायाः दॄष्ट्या गुल्बर्गानगरस्य षट् उपमण्डलानि यथा- गुल्वर्गा, यादगिरिः, बीदरमण्डलम्, रायचूरुमण्डलम्, बळ्ळारीमण्डलम् एवं कोप्पळपर्यन्तं विस्तृतमस्ति। पूराकाले सप्तत्युत्तरउनविंशतिशतक्रीस्तवर्षतः(१९७०) तावत् अयं विश्वविद्यालयः कर्णाटकविश्वविद्यालयस्य(धारवाडमण्डलस्य) स्नातकोत्तरविभागकेन्द्रमासीत्। गुल्बर्गानगरस्य पूर्वप्रान्ततः षट्- कि.मी दूरे अस्य गुल्बर्गाविश्वविद्यालयस्य मूलप्रांगणम् अवस्थितमस्ति। अस्य व्याप्तिः ८६० एकर्-परिमिता । सप्तत्रिंशत् (३७)स्नातकोत्तरविभागाः एवञ्च चत्वारि स्नातकोत्तरकेन्द्राणि यथाक्रमं- कृष्णदेवरायानगरे,बळ्ळारीमण्डले, रायचूरुमण्डले तथा बीदरे चावस्थितानि। अन्यस्नातकोत्तरकेन्द्रं बसवकल्याणे उद्घाटनयोग्यं च वर्तते। विश्वविद्यालये प्रतिवर्षं पञ्चशत्युत्तरत्रिसहस्रं छात्राः नामांकनं कुर्वन्ति विविधविषये स्नातकोत्तर- एम्.फिल्.-पि हेच्.डि प्रवेशनिमित्तम्। अत्र प्रायः द्विशताधिकाः अध्यापकाः सप्तशताधिकाः प्रयुक्तिविदाः तत्सहायकश्च वर्तन्ते। त्रिंशत्यधिकद्विशतं महाविद्यालयाः अनेन अनुमोदिताः सन्ति। तत्र च स्नातक-डिप्लोमा-कक्षायां कला-सङ्गीत-समाजविद्या-विज्ञानम् एवं प्रयुक्तिविषये छात्राः पठितुं नामाङ्कनं कुर्वन्ति। बहवः शिक्षाप्रतिष्ठानानि वर्तन्ते यानि अनुवैद्यशिक्षणं (Nursing) विशिष्टस्थानं भजन्ते यथा विजयकुमारः अनुवैद्यशिक्षणमहाविद्यालयः। हेच्.के. ई समाजं सि.ओ.एन् (ए. प्रथमम्)करीम् (ए.प्रथमम्) कामार् इत्यादि।

कर्णाटककेन्द्रीयविश्वविद्यालयोऽपि अस्यां नगर्याम् अस्ति। वस्तुतस्तु गुल्बर्गानगरं शिक्षानगरमित्युपाधिना परिचितास्ति। यतो हि व्यक्तिगतशिक्षाप्रतिष्ठानैः सह सर्वकारस्य शिक्षाविभागाः संयुक्ताश्च वर्तन्ते।

मार्गः[सम्पादयतु]

वाहनमार्गः[सम्पादयतु]

बिजापुरतः १५९ कि.मी
बीदरतः १०४ कि.मी ।
ळ्बेङ्गळूरुतः ६१६ कि.मी.।

धूमशकटमार्गः[सम्पादयतु]

मुम्बयी-हैदराबाद्मार्गे गुल्बर्गा निस्थानमस्ति । वसतिकृते नगरे व्यवस्था अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गुल्बर्गा&oldid=279983" इत्यस्माद् पुनः प्राप्तिः