पूर्वगोदावरीमण्डलम्
| తూర్పు గోదావరి జిల్లా पूर्वगोदावरी |
|||||||
| "पूर्वगोदावरी" | |||||||
| — मण्डलम् — | |||||||
|
|
|||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | आन्ध्रप्रदेशः | ||||||
| मण्डलानि | पूर्वगोदावरी | ||||||
| Collector & District Magistrate | |||||||
| जनसङ्ख्या |
५१,५१,५४९ (2011[update]) • ४७७ /km2 ( /sq mi) |
||||||
| व्यावहारिकभाषा(ः) | तेलिगु | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् | १०,८०७ square kilometres ( sq mi) | ||||||
| वायुमण्डलम् • तलस्पर्षी |
Aw (कॊप्पेन्) • १,२०० mm ( in) |
||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | eastgodavari.nic.in | ||||||
पूर्व गोदावरि मण्डलम् आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं काकिनाड नगरम् ।
अन्तर्विषयाः |
[सम्पादयतु] इतिहासः
आन्ध्रप्रदेशराज्ये महत्या कृषिभूम्या गवां सम्पदा च विराजमानम् अत्यन्तं सुरम्यं मण्डलं प्राग्गोदावरी । इदं १९०४ तमे वर्षे आविष्कृतम् । ततः पूर्वं मौर्य-शातवाहन-चालक्य-तुरुष्क-काकतीयादिराट्भिः पालितम् । अस्य मण्डलस्य आधिपत्यनिमित्तं फ्रेञ्च, तथा निजां नवाबयोः मध्ये महत् युध्दं संवृत्तं चन्दुर्तिप्रान्ते । १७६६ पश्चात् अयं प्रान्तः ब्रिटिष-ईस्टिंडियाकम्पन्याः आधीनतां गतः । आन्ध्रमहाभारतरचयितुः नन्नयकवेः जन्मस्थानमिदम् । सङ्गीत-साहित्य-कला-विज्ञानक्षेत्रेषु इदम् अन्यतमं मण्डलम् । कन्दुकूरि-वीरेशलिङ्ग- महोदयेन हितकारी समाजः निर्मितः ।
[सम्पादयतु] भौगोलिकम्
भौगोलिकरीत्या अत्यन्तं विस्तृतम् इदं मण्डलम् । इतः १९०४, १९६० कालयोः कांश्चन प्रान्तान् विभज्य अन्य मण्डलेषु संयोजितवन्तः । मण्डले ३०% अरण्येन विस्तृतम् । ग्राफैट्, बाक्सैट्, जिर्कान्, मोनोजैट् इत्यादिखनिजानि उपलभ्यन्ते । राजमहेन्द्रवरे अत्यन्तं दीर्घः रेल् तथा रोड्मार्गः अस्याः गोदावर्याः उपरि निर्मितः । प्राक्चालक्यराजेन प्रथमभीमराजेन भीमवरम्, द्राक्षारामं च निर्मितम् ।
[सम्पादयतु] कृषिः वाणिज्यं च
काकिनाड-नौकायान-केन्द्रद्वारा तिलाः, चायपत्रम्, जूटवस्तूनि, ग्राफैट् इत्यादीनां प्रेषणं भवति स्म । राजोलु-कोत्तपेटप्रदेशौ नारिकेलानां मूलस्रोतसी इति प्रसिद्धौ । काकिनाडप्रान्ते गोदावरीसस्यवर्धकानां कर्मागारः, नागार्जुनसस्य-संवर्धक-कर्मागारः च स्थापितः । राजमहेन्द्रवरे आन्ध्रपत्र- निर्माणसंस्था विज्जेश्वरप्रान्ते अनिलाधारित-विद्युदुत्पादककेन्द्रम्, राजमहेन्द्रवरे अङ्गारकविद्युत्केन्द्रम् इत्यादीनि बहूनि कर्मागाराणि मण्डले प्रचाल्यन्ते । गोदावरी नदी रम्पचोडवरम् इत्यस्मिन् स्थाने मण्डलं प्रविश्य धवलेश्वरप्रान्ते पथद्वये वशिष्ट-गौतमी, इति नामभ्यां प्रवहति । वशिष्टः पश्चिमायां दिशि प्रवहन् वैनतेयम् इति उपनाम्ना राजोलुसमीपे सागरं प्रविशति । धवलेश्वरे प्रप्रथमतया सर्. आर्थर् काटन् सेतुनिर्माणम् अस्याः नद्याः उपरि अकारयत् । ततः तस्मिन् स्थाने बारेज् निर्माणं समभूत् ।माङ्गनीस्, क्लिङ्कर, मूलगन्धकम् इत्यादीनाम् अवतरणमपि भवति । मण्डले धान्यम्, इक्षुः, कदली, आम्रम्, नारिकेलम् इत्यादीनां कृषिः भवति । कृषकाणां दुकूलं, गोपोषणं, शाखादिकानां सस्यवर्धने अतीव श्रध्दा वर्तते ।