विशाखपट्टणमण्डलम्
| विशाखपट्टणम्
(విశాఖపట్నం) |
|||||||||
| — नगरम् — | |||||||||
|
|
|||||||||
|
|
|||||||||
| निर्देशाङ्काः | |||||||||
| Former name | Waltair | ||||||||
| देशः | भारतम् | ||||||||
| राज्यम् | आन्ध्रप्रदेशः | ||||||||
| मण्डलानि | विशाखपट्टणम् | ||||||||
| महापौरः | पि । जनार्दन राव् | ||||||||
| जनसङ्ख्या |
४ (17th) (2011[update]) • ३,२४० /km2 ( /sq mi) |
||||||||
| समयवलयः | IST (UTC+05:30) | ||||||||
| विस्तीर्णम् |
५४३ square kilometres ( sq mi) • ५ metres ( ft) |
||||||||
|
सङ्केताः
|
|||||||||
विशाखपट्टणम् आन्ध्रप्रदेशस्य किञ्चन मण्डलं विद्यते ।
अस्य नगरस्य नाम कार्तिकेयात् आगतमस्ति । सुन्दरं सागरतीरं नौकानिस्थानं नौकानिर्माणकेन्द्रं च अत्र सन्ति । रामकृष्ण्सागरतीरम् अतीव सुन्दरम् अस्ति । दीपगृहम् (लैट् हौस्) इतः ६४ कि.मी पर्यन्तं प्रकाशं प्रसरति । समीपे सिंहाचलप्रदेशे पर्वते श्री लक्ष्मीनरसिंहदेवालयः अस्ति । गन्तुं ५०० सोपानानि सन्ति । ११ शतकीयः देवालयः एषः शिल्पकलायुक्तः अस्ति । ओरिस्साशैल्या भागवतः लीलाविनोदप्रसङ्गाः भित्तिषु चित्रिताः सन्ति । नौकानिर्माणकेन्द्रं परितः सुन्दरम् उद्यानम् अस्ति । विशाखपट्टणनगरे उत्तमवसति- भोजनव्यवास्था अस्ति ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
विश्वविख्यातसिंहाचलपुण्यक्षेत्रं विद्यते अस्मिन् मण्डले विशाखपट्टणे । एतत् यावद्भारतदेशे बृहन्मण्डलम् आसीत् स्वातन्त्र्यात् पूर्वम् । मौर्याः, शातवाहनाः, विष्णुकुण्डिनः, चालुक्याः गजपतयः विजयनगराधीशाः, गोल्कोण्डसाम्राज्याधीशाः इत्यादीनां परिपालनानन्तरं ब्रिटिषाधिपत्यं गतम् । १८७९ काले वीरय्यदोराध्वर्यवे रम्पाविप्लवम्, १९२२ वर्षे गिरिजनैः सवरविप्लवं समजनि। ब्रिटिष्परिपालन- विरोधिनः अल्लूरिसीतारामराजादीनां नायकत्वे नर्सीपट्टनम्, रम्पचोडवरप्रान्तेषु वनवासिनः उद्यमं कृतवन्तः । किन्तु ब्रिटिषसर्वकारः तान् उद्यमनायकान् पाशविकरीत्या मारितवान् । स्वातन्त्र्यानन्तरम् एतस्य मण्डलस्य द्विवारं विभजनं जातम् । ततः केचन प्रान्ताः श्रीकाकुले, केचन प्रान्ताः विजयनगरे च सम्मिलिताः । भौगोलिकम् अस्य सीमायां प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमदिशि ओरिस्साराज्यम्, उत्तरदिशि विजयनगरमण्डलं, दक्षिणदिशि पूर्वगोदावरीमण्डलं च वर्तन्ते । अस्य मण्डलस्य भूभागे ४२% अरण्यं वर्तते । ५ सङ्ख्याख्यः राजमार्गः अस्मिन् मण्डले १६९ कि.मी. मिते दूरे विस्तृतः ।
कृषिः वाणिज्यं च [सम्पादयतु]
पाञ्चालिकानां निर्माणे सुप्रसिध्दः एटिकोप्पाकग्रामः वर्तते । मण्डलेऽस्मिन् बाक्सैट् वेर्मिक्युलेट् च उपलभ्येते । वातावरणे आर्द्रता अधिका । झञ्झवातस्य आधिक्येन पीड्यते इदं मण्डलम् । ३०% कृषिः क्रियते विद्यमानभूमौ । ४०% भूमिं प्रति जलयोगः अस्ति । १९३३ वर्षे नौकाकेन्द्रं निर्मितम् । विशाखपट्टणे केन्द्रराज्य- सर्वकारयोः संस्यानि स्थापितानि । साहजिकं नौकाकेन्द्रम् आ भारते अत्रैव विराजते । नौका-विमान-रक्षण- यन्त्रादिपरिकराणां निर्माणे, तेलस्वच्छता इत्यादिविभागेषु उपाधिः अधिकतया कल्प्यतेऽस्मिन् मण्डले ।
वीक्षणीयस्थलानि [सम्पादयतु]
पर्याटकानाम् आकर्षकस्थानानि अनन्तगिरिः, चिन्तपल्लि, सीलेरु, अरकु, भीमिलि इत्यादीनि ।
उपमण्डलानि [सम्पादयतु]
मार्गः [सम्पादयतु]
धूमशकटमार्गः [सम्पादयतु]
चेन्नै- हौरामार्गे विशाखपट्टणनिस्थानम् अस्ति ।
वाहनमार्गः [सम्पादयतु]
आन्ध्रप्रदेशस्य महानगरेभ्यः सम्पर्कः अस्ति ।