विशाखपट्टणमण्डलम्
| विशाखपट्टणम्
(విశాఖపట్నం) |
|||||||||
| — नगरम् — | |||||||||
|
|
|||||||||
|
|
|||||||||
| निर्देशाङ्काः | |||||||||
| Former name | Waltair | ||||||||
| देशः | भारतम् | ||||||||
| राज्यम् | आन्ध्रप्रदेशः | ||||||||
| मण्डलानि | विशाखपट्टणम् | ||||||||
| महापौरः | पि । जनार्दन राव् | ||||||||
| जनसङ्ख्या |
४ (17th) (2011[update]) • ३,२४० /km2 ( /sq mi) |
||||||||
| समयवलयः | IST (UTC+05:30) | ||||||||
| विस्तीर्णम् |
५४३ square kilometres ( sq mi) • ५ metres ( ft) |
||||||||
|
सङ्केताः
|
|||||||||
विशाखपट्टणम् आन्ध्रप्रदेशस्य एकं मण्डलं विद्यते ।
अन्तर्विषयाः |
[सम्पादयतु] इतिहासः
विश्वविख्यातसिंहाचलपुण्यक्षेत्रं विद्यते अस्मिन् मण्डले विशाखपट्टणे । एतत् यावद्भारतदेशे बृहन्मण्डलम् आसीत् स्वातन्त्र्यात् पूर्वम् । मौर्याः, शातवाहनाः, विष्णुकुण्डिनः, चालक्याः गजपतयः विजयनगराधीशाः, गोल्कोण्डसाम्राज्याधीशाः इत्यादीनां परिपालनानन्तरं ब्रिटिषाधिपत्यं गतम् । १८७९ काले वीरय्यदोराध्वर्यवे रम्पाविप्लवम्, १९२२ वर्षे गिरिजनैः सवरविप्लवं समजनि। ब्रिटिष्परिपालन- विरोधिनः अल्लूरिसीतारामराजादीनां नायकत्वे नर्सीपट्टनम्, रम्पचोडवरप्रान्तेषु वनवासिनः उद्यमं कृतवन्तः । किन्तु ब्रिटिषसर्वकारः तान् उद्यमनायकान् पाशविकरीत्या मारितवान् । स्वातन्त्र्यानन्तरम् एतस्य मण्डलस्य द्विवारं विभजनं जातम् । ततः केचन प्रान्ताः श्रीकाकुले, केचन प्रान्ताः विजयनगरे च सम्मिलिताः । भौगोलिकम् अस्य सीमायां प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमदिशि ओडिष्षाराज्यम्, उत्तरदिशि विजयनगर- मण्डलम्, दक्षिणदिशि प्राग्गोदावरीमण्डलं च वर्तन्ते ।अस्य मण्डलस्य भूभागे ४२% अरण्यं वर्तते । ५ सङ्ख्याख्यः राजमार्गः अस्मिन् मण्डले १६९ कि.मी. मिते दूरे विस्तृतः ।
[सम्पादयतु] कृषिः वाणिज्यं च
पाञ्चालिकानां निर्माणे सुप्रसिध्दः एटिकोप्पाकग्रामः वर्तते । मण्डलेऽस्मिन् बाक्सैट् वेर्मिक्युलेट् च उपलभ्येते । वातावरणे आर्द्रता अधिका । झञ्झवातस्य आधिक्येन पीड्यते इदं मण्डलम् । ३०% कृषिः क्रियते विद्यमानभूमौ । ४०% भूमिं प्रति जलयोगः अस्ति । १९३३ वर्षे नौकाकेन्द्रं निर्मितम् । विशाखपट्टणे केन्द्रराज्य- सर्वकारयोः संस्यानि स्थापितानि । साहजिकं नौकाकेन्द्रम् आ भारते अत्रैव विराजते । नौका-विमान-रक्षण- यन्त्रादिपरिकराणां निर्माणे, तेलस्वच्छता इत्यादिविभागेषु उपाधिः अधिकतया कल्प्यतेऽस्मिन् मण्डले ।
[सम्पादयतु] वीक्षणीयस्थलानि
पर्याटकानाम् आकर्षकस्थानानि अनन्तगिरिः, चिन्तपल्लि, सीलेरु, अरकु, भीमिलि इत्यादीनि ।
[सम्पादयतु] तालुकाः
१. चिन्तपल्लि, २. कोय्यूरु, ३. गूडें कोत्तवीधि, ४. पाडेरु, ५. गङ्गराजु माडुगुल, ६. मुञ्चिङ्गिपट्टु, ७. पेदबायलु, ८. हुकुम्पेट, ९. अरकुलोय, १०. अनन्तगिरिः, ११. दुम्ब्रीगूड, १२. चोडवरम्, १३. राविकमतम्, १४. बुच्चयपेट, १५. चीडिकाड्, १६. माडुगुल, १७. नर्सीपटनम्, १८. कोरकोण्ड, १९. रोलगुण्ट, २०. कोटवूरट्ल, २१. माकवारिपलेम्, २२. नातवरम्, २३. नक्कपल्लि, २४. पायकरावुपेट, २५. यलमञ्चिलि, २६. यस्. रायवरम्, २७. अच्युतापुरम्, २८. राम्बिल्लि, २९. अनकापल्लि, ३०. मुनगपाक, ३१. कशिङ्कोट, ३२. के.कोटपाडु, ३३. देवरपल्लि, ३४. सब्बिवरम्, ३५. परवाड, ३६. विशाखपट्टणम्, ३७. पेन्दुर्ति, ३८. गाजुवाक्, ३९. पेदगण्टयाड्, ४०. भीमुनिपटनम्, ४१. पद्मनाभम्, ४२. आनन्दपुरम् ।