अनन्तपुरमण्डलम्
अनन्तपुरम् |
|
| — मण्डलम् — | |
|
|
|
| निर्देशाङ्काः | |
| देशः | भारतम् |
| राज्यम् | आन्ध्रप्रदेशः |
| मण्डलानि | अनन्तपुरम् |
| जनसङ्ख्या |
३६,४०,४७८ (2001[update]) • १९० /km2 ( /sq mi) |
| समयवलयः | IST (UTC+05:30) |
| विस्तीर्णम् | १९,१३० square kilometres ( sq mi) |
अनन्तपुर मण्डलम् आंध्रप्रदेशराज्ये स्थितम् एकं मण्डलम् ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
मौर्यैः, बाणैः, राष्ट्रकूटिभिः, चोलैः, चालक्यैः, होयसल-विजयनगरराजैः, असप्जाहीवंशजैः, आग्लेयैश्च परिपालितम् अनन्तपुरमण्डलम् । १८८१तमे वर्षे आविर्भूतमिदं मण्डलम् । अनन्तसागराख्यं किञ्चन सरः वर्तते इत्यतः अनन्तपुरम् इति नामाभिहितम् । आन्ध्रप्रदेशराज्यस्य प्रथममुख्यमन्त्री श्रीमान् नीलं सञ्जीवरेड्डिः, मर्कसिस्ट्-दलनायकः नीलं राजशेखररेड्डिः च अस्य मण्डलस्य वासिनौ ।
भौगोलिकम् [सम्पादयतु]
मण्डलस्य प्राच्यां कडपमण्डलम्, पश्चिमदक्षिणयोः कर्णाटकराज्यम्, उत्तरे कर्नूलु- मण्डलं च सीमायां विराजन्ते । मैसूरुपीठभूमेः उत्तर सीमायां समुद्रोपरितलात् ६७० कि.मी उन्नतमस्ति इदं मण्डलम् । १०.२% भूभागः अरण्यएन विस्तृतः । वज्रकरुरप्रान्ते वज्रनिधिः पेन्ना, कुमदवल्ली, भैरवमनितिप्पा, तुङ्गभद्रा इत्यादिभ्यः जलं लभ्यते । मल्बरीवनानि, क्षुमानीडानि इत्यादयः जलजातीनाम् – उपाधिमार्गाः ।
कृषिः वाणिज्यं च [सम्पादयतु]
कलायः आढकी, कार्पाशः, पलाण्डुः, फलानां च सस्यं विस्तृतं वर्तते । श्रीकृष्णदेवराय-विश्वविद्यालयः, सत्यसायीविश्वविद्यालयः च वर्तेतेऽत्र ।
वीक्षणीयस्थलानि [सम्पादयतु]
लेपाक्षीस्थित-नन्दीश्वरालयः, ताडिपत्रिस्थः चिन्तलरामस्वामिदेवालयः, कदिरिश्रीलक्ष्मीनरसिंहस्वामिदेवालयः, पुट्टपर्ति-सत्यशायिसन्निधिः पेनुगोण्ड गगनमहलदुर्गम्, इत्यादीनि प्रमुखपर्याटककेन्द्राणि सन्ति ।