भगत सिंहः
| भगतसिंहः | |
|---|---|
![]() |
|
| जननम् | 28 September 1907 |
| मरणम् | 23 March 1931 लाहोर्, पञ्जाब्, |
| वासित | Anarchism, Communism, Socialism |
| राजनैतिक आन्दोलनम् | Indian Independence movement |
कश्चन सायं समयः । त्रिवर्षिय: कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् । ताभ्यां सह कश्चन वृद्धः अपि आसीत् । भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः । तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म । भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्टं प्राप्तवन्त: | स्वपार्श्वे बालकस्य आगमनशब्दः न श्रूयते इति बालकस्य पिता परिवृत्य दृष्टवान् । बालकः क्षेत्रे उपविश्य किमपि खनति स्म । "किं करोति वत्स?" इति पिता पृष्टवान् ।" पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि ।" इति बालकः उक्तवान् । तस्य बालस्य नयनद्वयं द्योतते स्म । क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म । तेन स्वरेण तौ ज्येष्ठौ आश्चर्यचकितौ अभवताम् । सः बालकः एव भगतसिंहः । अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः ।
अन्तर्विषयाः |
[सम्पादयतु] जननम्
पञ्जाबप्रान्ते लाहोरजनपदे बङ्गा इति ग्रामः । सरदारकिषनसिंहः इत्येत्यस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म । तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कर्तुं युद्धं कृतवन्तः । तस्य त्रीन् सोदरान् आङ्ग्लसर्वकारः कारागारे अस्थापयत् । तादृशान् योधान् क्रान्तिकारिणः इति कथयन्ति स्म । किषनसिंहः अपि क्रान्तिकारी । तस्य पत्नी विद्यावती । तस्य अनुजौ अजितसिंह-स्वरणसिंहौ आङ्ग्लान् प्रतिप्रेषयितुं कृतेषु आन्दोलनेषु विरोचितं सङ्घर्षं कृतवन्तौ । तेषु दिनेषु एतादृशानि आन्दोलनानि देशे सर्वत्र व्याप्तानि आसन् । देशस्य स्वतन्त्रतायै क्रियमाणे समरे विजयार्थं जना: दृढनिश्चयेन भागं वहन्तः आसन् । तादृशे समये ईशवीये १९०७ तमे वर्षे सप्ट्म्बरमासे २८ दिनाङ्के विद्यावतीकिषन्सिंहयोः तृतीयपुत्रः भगतसिंहः सञ्जातः । तदा एव अजितसिंह-स्वरणसिंहौ कारागारतः विमुक्तौ । स्वकुटुम्बे सन्तोषम् आनीतवान् इति किषनसिंह: पुत्रस्य ‘भगतसिंहः’ इति नामकरणं कृतवान् । सर्वे तं ‘भागोवाला’ (भाग्यवान्) इति आह्वयन्ति स्म ।
[सम्पादयतु] बाल्यावस्था
बालके भगतसिंहे सर्वे स्निह्यन्ति स्म । अग्रे कदाचित् दिने एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म । तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम् । क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म । अतः कदाचित् स्वपतिः कारावासी भविष्यतीति विद्यावती सर्वदा भीतिम् अनुभवन्ती आसीत् । स्वातन्त्र्ययोधानां कुटुम्बः इति कारणतः तस्य गृहे सर्वदा यः कोऽपि कारागारबन्धनं प्राप्नोति स्म एव । कुटुम्बस्य सर्वस्य निर्वहणभारं विद्यावती एव वहति स्म । तादृशक्लिष्टसमये सा बालकानां पालनेन सान्त्वनां प्राप्नोति स्म । बालकाः सर्वेऽपि अत्यन्तम् उत्साहेन वर्धन्ते स्म । अतः विद्यावती सर्वाणि कष्टानि विनायासं विस्मृतवती । भगतसिंहे तस्या: विशेषप्रीति: आसीत्। भगतः प्राथमिकपाठशालां प्रविष्टवान् । बाल्यतः भगतः शिक्षणविषये कक्ष्यायां सर्वेभ्योऽपि अग्रे भवति स्म । तस्य लेखनम् अत्यन्तं सुन्दरम् आसीत् । अध्यापकेभ्यः सर्वेभ्यः प्रियतमः भगतः । सहच्छात्राः सर्वेऽपि भगतं स्वनायकं मन्यन्ते स्म । भगतात् अपि ज्येष्ठाः बालाः तं स्वस्कन्धेषु आरोप्य पाठशालां नयन्ति स्म । पुनः तथैव आनयन्ति स्म । बाल्ये सम्पन्नाः एताः घटनाः भाविजीवने सः उत्तमः क्रान्तिकारिनायकः भवेदिति विषयं सूचयन्ति स्म। भगतः सुलभतया सर्वैः सह मैत्रीं करोति स्म । साधारणतया सर्वेषां कृते सहच्छात्राः मित्राणि भवन्ति । ते एव न, प्रवहणचालकाः, कर्मकराः, मार्गसम्मार्जकाः अपि तस्य मित्राण्येव । एकवारं कश्चित् सौचिक: भगतस्य गृहम् आगतवान् । सीवितानि वस्त्राणि गृहे दत्त्वा गच्छन्नासीत् । "वस्त्राणि दत्त्वा यः गच्छति सः कः?" इति पृष्टवती माता विद्यावती । "सः मम मित्रम् ।" इति उक्तवान् भगतः। "सौचिक: अपि भवतः मित्रम् एव वा ?" पृष्टवती माता । " सत्यं मातः ! अस्मिन् ग्रामे सर्वे अपि मम मित्राणि एव " उक्तवान् भगतः। एवं बाल्ये सर्वेषां मनोहारकः चतुरः भगतः वर्धते स्म ।
[सम्पादयतु] सिंहनादः
भगतस्य कनिष्ठपितृव्यौ आस्ताम् । तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्त: । कारागारजीवनं दुर्भरम् आसीत् । अतः स्वरणसिंहः रोगग्रस्तः अभवत् । कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक् नाऽभवत् । कतिपयदिनेषु सः दिवङ्गतः । द्वितीयः कनिष्ठपितृव्यः अजितसिंहः कारागारात् विमोचनानन्तरं विदेशं गतवान् । भगतस्य पितृव्ये स्वभर्तृभ्यां देशस्वातन्त्र्यार्थं कृतं तपः स्मरन्त्यौ बाधामनुभवतः स्म । एतद् दृष्ट्वा भगतसिंहः ते वदति स्म । " पितृव्ये ! रोदनं मास्तु । अहं ज्येष्ठो भूत्वा आङ्ग्लेयान् अस्माकं देशतः पलायितान् कृत्वा पितृव्यम् आनयामि । आङ्ग्लेयानां कारणतः पितृव्यः रोगग्रस्तः भूत्वा मृतः खलु । तान् विरुध्द्य अहं प्रतीकारं साधयिष्यामि"इति। तस्य गम्भीरवचः श्रुत्वा पितृव्ये रोदनं त्यक्त्वा हसतः स्म । कञ्चित्कालं दुःखं विस्मरतः स्म । भगतः यदा चतुर्थकक्ष्यायां पठन् आसीत् तदा सहच्छात्रान् पृष्टवान् - "ज्येष्ठाः भूत्वा भवन्तः कीदृशा: भवितुम् इच्छन्ति ?" इति । एकैकः एकैकविधं समाधानं दत्तवान् । ‘अहं वैद्यः भविष्यामि’ इति कश्चित् , ‘अहं सर्वकारे उन्नतोद्योगी भविष्यामि’ इति अपर:, ‘अहं वाणिज्यं करिष्यामि’ इति कश्चित्, अन्यः ‘अहं ज्येष्ठो भूत्वा विवाहं करिष्यामि’ इति रूपेण उक्तवन्तः । तदा भगतः ‘विवाहः कोऽपि विशिष्टविषयो वा ? अहं तु ज्येष्ठो भूत्वा आङ्ग्लेयान् अस्माकं देशात् पलायितान् करोमि’ इति उक्तवान् । एवं बाल्यतः एव भगतस्य नाडीषु देशभक्तिभावः प्रवहन् आसीत् । माध्यमिकशिक्षणसमाप्तिसमये सः स्वकुटुम्बस्थानां क्रान्तिकारिणां सर्वमपि वृत्तान्तं सम्पादितवान् । गृहे एव तेषां वीरपुरुषाणां कथा: पठितवान् । तस्य फलस्वरूपं देशस्वातन्त्र्यार्थं सङ्घर्ष: करणीयः इति इच्छा तस्मिन् बलवती जाता । भगतः प्राथमिकशिक्षणं बङ्गाग्रामे समापितवान् । माध्यमिकशिक्षणार्थं लाहोर् गतवान् । पिता किषन्सिंहः पाश्चात्यपद्धत्या चाल्यमानासु पाठशालासु पुत्रं प्रवेशयितुं नैच्छत् । अत भगतः एकस्मिन् साधारणविद्यालये विद्याभ्यासं कृतवान् । भगतः ग्रामीणबालकः । अतः स्वपुत्रः विद्याभ्यासे मन्दः न भवेदिति पिता पुत्रं गृहे अध्यापयितुम् अध्यापकं नियुक्तवान् । किन्तु दिनद्वये एव सः अध्यापकः भगतसिंहस्य बुद्धिकुशलतां ज्ञातवान् । 'एतं बालकं अहं किं वा पाठयामि ? सः पूर्वमेव सर्वं पठितवान्' इति अध्यापकः किषनसिंहम् उक्त्वा गतवान् । भगतः सम्पूर्णोत्साहेन, श्रद्धया च पठितवान् । तस्य बुद्धिकुशलतां दृष्ट्वा अध्यापकाः अपि आश्चर्यमनुभवन्ति स्म । इतिहासः, भूगोलविज्ञानं, अङ्कगणितं इत्यादिषु सः उत्तमान् अङ्कान् प्राप्नोति स्म । आङ्ग्ले तु न्यूनान् एव अङ्कान् प्राप्त्नोति स्म । आङ्ग्लेयान् सर्वदा निन्दतीति कारणतः एवं सहजतया एवं भवति स्म । स्वपितामहं प्रति लिखिते पत्रे ‘आङ्ग्ले न्यूनाः आङ्काः आगताः’ इति लेखनं तस्मै अधिकं रोचते स्म । " परीक्षायाम् उत्तीर्णताप्राप्त्यर्थं पञ्चाशद् अङ्काः एव पर्याप्ताः । किन्तु मम पञ्चाशदुत्तर- एकशताङ्कानां कृते अष्टषष्ठि: अङ्काः आगताः । इत्युक्ते अधिकं पठितवानित्यर्थः " इति चातुवचनानि वदति स्म । १९१९तमे वत्सरे देशे एकं विषादकरी घटना प्रवृत्ता । सा आसीत् जलियनवालाबाग्-दुष्कृत्यम् । जलियन्वालाबागे समाविष्टे प्रजासमूहे आङ्ग्लसैनिकाः सूचनां विना गोलकास्त्राणि प्रयुक्तवन्तः । जनैः तस्मात् प्रदेशात् बहिर्गन्तुम् एकः एव मार्गः आसीत् । सैनिकानां गोलकैः बालकाः वृद्धाः इति भेदं विना अनेके अमराः जाताः । रक्तं प्रवाहरूपेण प्रावहत् । एतेन आन्दोलनेन देशजनानां हृदयेषु कोपः, उद्रेकः च हठात् उज्ज्वालितः । जलियन्वालाबाग्मध्ये सञ्जातः नरसंहारः सम्पूर्णविश्वस्य दृष्टिम् आकर्षयत् । तदा भगतस्य द्वादशवर्षाणि । ऐतया घटनया सः अघिकां मनोव्याकुलतां प्राप्तवान् । गृहम् अगत्य जलियनवालाबाग् दुष्क्रुत्यं यत्र अभवत् तत्स्थानं गतवान् । रक्षणार्थं स्थितानाम् आरक्षकाणां मध्यतः अन्तः प्रविष्टवान् । तत्र मृतानां रक्तेन सिक्तां मृत्तिकाम् एकस्यां कूप्यां स्वीकृत्य गृहं गतवान् । अनन्तरं तां कूपीम् एकत्र स्थापयित्वा पुष्पाणि समर्प्य पूजां कृतवान् । जलियन्वालाबागमध्ये समाविष्टाः सर्वे निरायुधाः आसन्। ततः निर्गन्तुम् अन्यः मार्गोऽपि नासीत् । शान्तियुतान् जनान् उद्दिश्य आङ्ग्लेयसैनिकाः गोलकानि प्रयुक्त्वन्तः । एवं भगतस्य मनसि चिन्तनतरङ्गाः उच्चलन्ति स्म । ज्योष्ठो भूत्वा मया आङ्ग्लेयाः देशतः पलायिताः करणीयाः एवेति भावना इतोऽपि दृढा जाता । तेषु दिनेषु भारतराष्ट्रियकाङ्ग्रेससंस्था देशस्वातन्त्र्यार्थं सङ्घर्षं कुर्वती आसीत् । तस्य सङ्घर्षस्य कारणतः देशजनेषु देशभक्तिः जागरिता । अतः देशे एकताभावना समुत्पन्ना आसीत् । नवमकक्षायां प्रवेशात् पूर्वमेव भगतसिंहः स्वमनसि एकं निर्णयं कृतवान् । देशस्वातन्त्र्यार्थं क्रियमाणे सङ्घर्षे मयाऽपि भागः स्वीकरणीय इति । तदा तस्य वयः केवलं त्रयोदशवर्षाणि । भगतसिंहः स्वाभिप्रायं पितरे निवेद्य तस्य अनुमतिं प्रार्थितवान् ।स्वयं क्रान्तिकारी किषनसिंहः सन्तोषेण सहमतिम् दर्शितवान् । भगतसिंहः विद्याभ्यासं त्यक्त्वा रष्ट्रियोद्यमं प्रविष्टवान् । तेषु दिनेषु विदेशीयवस्त्राणां परित्यागार्थं महद् आन्दोलनं जातम् ।विदेशीयवस्त्राणि क्रीणीमः चेत् विदेशस्य लाभः भवति । अतः स्वदेशीयवस्त्राण्येव धारणीयानि, विदेशीयवस्त्राणि ज्वालनीयानि इति च नायकाः जनेभ्य: पन्थाह्वानं कृतवन्त: । भगतसिंहः अस्मिन् आन्दोलने अत्यन्तोत्साहेन भागं स्वीकृतवान् । बाल्यतः अपि भगतः खादीवस्त्रमेव धरति स्म । अतः सहजतया सः अत्यतम् उत्साहं प्रदर्शितवान् । प्रतिसप्ताहं एकं दिनं विदेशीयवस्त्राणि स्ङ्गृह्य ज्वालयति स्म ।
[सम्पादयतु] देशकार्ये प्रथमचिन्हम्
ईशवीये १९२२तमे वर्षे गोरखपुरजनपदे चौरीचौराग्रामे काङ्ग्रेस्-संस्था एकां शोभायात्राम् आयोजितवती । तदा एव केचन क्रान्तिकारिणः आरक्षकान् एकस्मिन् गृहे बद्ध्वा दग्धवन्तः । ततः पूर्वं मुम्बयी, मद्रास् प्रान्तेष्वपि एतादृशा: हिंसात्मकघटना: प्रवृत्ता: । गान्धीमहोदयः एताभि: घटनाभि: चिन्ताग्रस्तः अभवत् । साहाय्यनिराकरणान्दोलनं स्थगयितुं जनान् आदिष्टवान् । आन्दोलनस्य स्थगनेन भगतसिंहस्य निराशा जाता । तदा तस्य वयः पञ्चदशवर्षाणि । "केवलं केषाञ्चन आरक्षकाणां मरणेन एतादृशं महदान्दोलनं त्यक्तव्यम् वा ? इतः पूर्वं केभ्यश्चन दिनेभ्यः पूवं क्रान्तिकारिणं करतारसिंहम् आङ्ग्लेयाः ,मरणदण्डनेन मारितवन्तः । तदा केऽपि अहिंसावादिनः तत् न खण्डितवन्तः । इदानीं हठात् अहिंसा एवं प्राधान्यं कथं प्राप्तवती?" इत्येतादृशाः विचाराः अहिंसाविषये, सहायनिराकरणान्दोलनविषये च भगतसिंहस्य निष्ठां नाशितवन्त: । देशेन स्वातन्त्र्यं प्राप्तव्यं चेत् सायुधसङ्घर्ष:एव समीचीन:मार्ग इति दृढं विश्वस्य अग्रे गतवान् सः । आइर्लण्ड्, इटली, रष्या देशीयानां क्रान्तिकारिणां जीवनानि तेन सम्यक् अधीतानि । तेषां विषये यथा यथा ज्ञातवान् तथा स्वातन्त्र्यसमुपार्जनाय सायुधसङ्घर्ष: एव शरणम् इति भावना तस्य मनसि दृढा जाता । देशे नवयुवकान् क्रान्तिमार्गं प्रति आकर्षयितुं योग्या प्रेरणा दातव्या इति भगत: चिन्तितवान् । अतः युवकानां सङ्घटनाय प्रयत्नम् आरब्धवान् । स्वप्रयत्नानां साकारीकरणाय भगतसिंहः राष्ट्रियमहाविद्यालयं प्रविष्टावान् । लालालजपतरायसदृशाः देशभक्ताः तं महाविद्यालयं प्रतिष्ठापितवन्तः आसन् । कानिचन वर्षाणि यावत् विद्याभ्यासं त्यक्तवतः तस्य सामाजिक-राजनैतिकपरिणामानां विषये विद्यमानाम् अवगाहनां दृष्ट्वा निर्वाहकाः आश्चर्यचकिताः भूत्वा अनुक्षणं तस्य प्रवेशम् अङ्गीकृतवन्तः । भगतः कक्ष्यायाम् उपविश्य अध्यापकैः बोधितं सर्वं श्रद्धया श्रृणोति स्म । सायं युवकान् एकत्रीकृत्य आगामिकार्यक्रमाणां विषये चर्चां करोति स्म । एषा तस्य दिनचर्या अभवत् । कलाशालायां भगतसिंहः अनेकेषु नाटकेषु भागं गृहीतवान् । राणाप्रतापः,सम्राट् चन्द्रगुप्तः, भारतदुर्दशा इत्यादिनाटकेषु प्रधानपात्रं सः स्वीकृतवान् । तेषां पात्राणां पोषणे भगतस्य अभिनयं दृष्ट्वा कश्चन अध्यापकः "एषः अवश्यम् महापुरुषो भविष्यति" इति व्याख्यातवान् ।
[सम्पादयतु] भगत्सिंहस्य ब्रह्मचर्यम्
भगतसिंहः केवलं पुस्तकाध्ययनं यावत् आत्मानं सीमितं न कृतवान् । क्रान्तिकारिणां विषये पठनेनक्रान्तिकरान्दोलनेषु भागः स्वीकरणीयः इति उत्साहः तस्मिन् वर्धते स्म । तेषु दिनेषु वङ्गभूमिः क्रान्तिकारिणां प्रधानकेन्द्रम् आसीत् । भगतसिंहः क्रान्तिकारिणां दृष्टिम् आकर्षितवान् । वङ्गप्रान्तीयैः क्रान्तिकारिभिः सह सः सम्बन्धम् उपस्थापितवान् । तदानीन्तन- क्रान्तिकारिणां नायकः शचीन्द्रनाथसन्यालः "विप्लवोद्यमे भागग्रहीतारः युवकाः गृहं त्यक्त्वा आगच्छेयुः" इति नियमं कृतवान् । भगतसिंहः तं नियमम् अङ्गीकृतवान् । गृहे तस्य पितामही तं विवाहविषये पीडयन्ती आसीत् । तस्य निमित्तं तया काचित् वधू: अपि दृष्टा आसीत् । निश्चयकार्यक्रमार्थं सा एकां तिथिमपि निश्चितवती । तद् दिनं समीपे एवसीत् । तस्मिन् दिने एव विप्लवसंस्थायाः अध्यक्षः भगतम् आहूतवान् । भगतसिंहः लाहोर् गतवान् । सः कुत्र गतवानिति केऽपि न जानन्ति स्म । गृहत्यागसमये सः एकं पत्रं लिखित्वा स्थपितवान् । "मम जीवनलक्ष्यं भारतदेशस्वातन्त्र्यार्थं सङ्घर्ष: करणीयः इति । संसारसुखेषु मम इच्छा नास्ति | मम उपनयनसन्दर्भे मया काचित् प्रतिज्ञा कृता आसीत् । 'अहं देशार्थम् आत्मार्पणं करोमि' इति । तदनुगुणम् अहं स्वसुखानि परित्यज्य देशसेवार्थं गृहं त्यक्त्वा गच्छन्नस्मि " इति । ततः कानपुरं प्राप्तवान् । आरम्भे कानिचन दिनानि वार्तापत्रिकाः विक्रीय यापितवान् । अनन्तरं गणेश-शङ्कर- विद्यार्थी इति नामकेन क्रान्तिकारिणा सह तस्य परिचयः अभवत् । तेन चाल्यमाने ‘प्रताप’ दिनपत्रिकाकार्यालये तस्य आवासव्यवस्था अभवत् । क्रान्तिकारिणां योग्यं प्रशिक्षणं ततः एव आरब्धम् । क्रान्तिकारिणः स्वनामानि परिवर्तयन्ति स्म । भगतसिंहः बलवन्तसिंहः अभवत् । गृहे भगतस्य पितरौ दुःखसागरे मग्नौ । स्वपुत्रस्य विषये चिन्ता जाता । भगतस्य पितामही अस्वस्था जाता । सा पौत्रं द्रष्टुमिच्छति स्म । अतः एकस्मिन् दिने सर्वे मिलित्वा भगतसिंहं गृहमानीतवन्तः । गृहे स्थित्वाऽपि भगतः तूष्णीं न आसीत् । तदा एव अकालीदलेन काचित् शोभायात्रा करणीया इति निश्चितम् । किन्तु जनपदाधिकारी (कलक्टर्) नाङ्गीकृतवान् । सः भगतस्य निकटबन्धुरेव । तथापि सर्वकारीयाधिकारी इत्यतः क्रान्तिकारिणः तस्मै न रोचन्ते स्म । अत: स: अकालीदलसदस्यानां कृते भोजनं न दातव्यमिति आदिष्टवान् । भगतसिंहः स्वग्रामम् आगच्छताम् अकालीदलसदस्यानां साहाय्यं करणीयमिति चिन्तितवान् । ग्रामीणान् सर्वान् मेलयित्वा रात्रौ रहसि अकालीदलसदस्येभ्यः भोजनं प्रापयितुं व्यवस्थां कृतवान् । एवम् एकसप्ताह: अभवत् । अकालीदलकार्यक्रमः निरातङ्कं प्रचलन्नासीत् । सफलोऽपि अभवत् । दिवा ग्रामे देशस्वातन्त्र्यविषये चर्चा भवति स्म । एतस्मिन् विषये जनानां कर्तव्यं बोध्यते स्म । भगतसिंहः अपि भाषणं करोति स्म । जनपदाधिकारी स्वादेशं विरुध्य जनाः अकालीदलं समर्थितवन्तः , तस्य कारणं भगतसिंहः इति च ज्ञात्वा तं बन्धुम् आदिष्टावान् । तदा भगतस्य सप्तदशवर्षणि । सः बालः इति ज्ञात्वा तस्य बन्धनाज्ञा निरस्ता अभवत् । अतः जनपदाधिकारी क्रोधेन तप्त:।
[सम्पादयतु] बन्धनम्, विमुक्तिश्च
भगतसिंहे उत्साहः उच्चलति स्म । स्वकार्यं साधयितुं स्वग्रामः लघुः अस्ति इति भावना तस्मिन् आगता ।अत: स: लाहोर् गतवान् । तत्र ‘नवजवान् भारत् सभा’ इति क्रान्तिकारिणां संस्था काचित् आसीत् । भगतसिं हः तस्याः संस्थायाः कार्यदर्शी अभवत् । वङ्गदेशीयक्रान्तिकारिसंस्था इव एषा संस्था अपि पञ्जाबजनेभ्यः क्रान्तिपाठान् बोधयन्ती आसीत् । 'शक्तिमन्तः युवका: निर्मातव्याः' ,' भारतीयसंस्कृतेः प्रचारः करणीयः' इत्यादीनि तस्याः संस्थायाः लक्ष्यानि । प्रधानलक्ष्यं तु देशस्वातन्त्र्यार्थं क्रान्तिकारककार्याणां निर्वहणम् आसीत् । अत्यल्पकाले एव एतस्याः संस्थयाः शाखाः अन्यप्रान्तेष्वपि विस्तृताः । महापुरुषाणां क्रान्तिकारिणां जन्मदिनाचरणं एतस्याः संस्थायाः कार्यकलापेषु प्रमुखमासीत् । सभायाः सदस्या: महापुरुषाणां चित्रपटान् सुन्दरम् अलङ्कृत्य शोभायात्रां कुर्वन्ति स्म। स्वहस्तस्य अङ्गुष्ठं छित्त्वा तेन रक्तेन चित्रपटान् वीरतिलकेन अलङ्कुर्वन्ति स्म । तान् महापुरुषानुद्दिश्य भाषणं प्रचलति स्म । तेषु दिनेषु सार्वजनिकसभासु भाषणे भगतसिंहस्य सम्यक् अभ्यासः अभवत् । कलाशालाछात्रसङ्घैः तस्य सम्बन्धः आसीत् । अतः क्रान्तिसन्देशं सः चतसृषु दिक्षु श्रावयति स्म । क्रमशः आरक्षकाणां दृष्टौ अपि सः पतितः । भगतसिंहस्य कार्यकलापेषु गूढचारविभागः निशितपरिशीलनं करोति स्म । एकस्मिन् दिने अमृतसरे रेलनिस्थानतः बहिः यदा आगछन् आसीत् तदा गूढचारिणः तम् अनुसृतवन्तः । भगतसिंहः धावितवान् । तथापि सः यत्र भवति तत्र् ते प्रत्यक्षा:भवन्ति स्म । अन्ते कथञ्चित् कष्टेन एकस्य न्यायवादिनः गृहं प्रविश्य बन्धनात् च्युतः । अनन्तरं रहसि लाहोरं गतवान्। किन्तु लाहोरे रेलस्थानके एव आरक्षकाः तं बद्धवन्तः । लाहोरे (पोर्ट्) नौकाश्रयकारागारे तं स्थापितवन्त: । ‘किमर्थं बन्धनम् अभवयत्?’ इति सः न ज्ञातवान् । कतिपयदिनेभ्यः पूर्वं दशहरा-शोभायात्रासन्दर्भे कश्चन विस्फोटकं क्षिप्तवान् आसीत्। तेन केचन मृताः आसन्। अस्मिन् विषये क्रान्तिकारिणां हस्तक्षेप: अस्तीति आरक्षकाः सन्देहं प्राप्तवन्तः । अतः भागतसिंहं बद्ध: आसीत् । अन्यक्रान्तिकारिणां वृत्तान्तं प्राप्तुम् आरक्षकाः भगतसिंहम् अनेकधा पीडितवन्तः । कशाभिः मारणं, भल्लैः गूहनं इत्यादिकम्... । किन्तु भगतसिंहः मुखं न उद्घाटितवान् । तस्मात् आरक्षकाः कामपि गूढवार्तां प्राप्तुं नाशक्नुवन् । अन्ते ‘दशसहस्ररुप्यकाणि दण्डरूपेण यदि ददाति तर्हि विमोचनं कुर्वन्तु’ इति न्यायाधिकारी उक्तवान् । किन्तु एवं दातुं के अग्रे आगच्छन्ति ? भगतसिंहे अकुण्ठितानुरागकारणतः द्वौ धनिकौ एतदर्थं सिद्धौ अभवताम् । तौ दुनीचन्द- दौलतरामौ । तयोः रक्षकत्वे भगतः विमुक्तः । तस्मिन् समये भगतः तूष्णीं स्थातुमैच्छत् । तदा भगतस्य पिता काश्चन गावः क्रीत्वा तासां पालनदयित्वं भगते समर्पितवान् । गोशालाकार्ये आदिनं निमग्नो भवति स्म भगतः । सर्वाणि कार्याणि यथाक्रमं करोति स्म सः । किन्तु रात्रौ तस्मिन् क्रान्तिकार्याणाम् विचार: विजृम्भन्ते स्म । तेषु दिनेष्वेव ‘कीर्तिः’ ‘अकाली’ इति समाचारपत्रिकाद्वयेन सह तेन सम्बन्ध: स्थापित:। तयोः निमित्तं लेखान् लिखन्नासीत् सः ।तयो: एका पत्रिका देशार्थम् आत्मसमर्पणं कृतवताम् अमरवीराणां स्मृतौ गौरवसूचिकाम् एकां विशेषसञ्चिकां मुद्रितवती । तत्र भगतः केषाञ्चन क्रान्तिकारिणां विषये लेखनं लिखितवान् । दशहरा शोभायात्रायां विस्फोटकक्षेपणम् अधिकृत्य कृतः अभियोगः न्यायालये परिशीलनार्थम् आगतः । तत्र भगतः निर्दोषी इति विमोचनं प्राप्तवान् । धनिकयोः रक्षणतः अपि सह विमुक्तः । पुनः क्रान्तिकार्येषु निमग्नः अभवत् । देहल्यां १९२८ तमे वर्षे जाते क्रान्तिकारिणां समावेशे भागं गृहीतवान् । ततः पुनः गृहं नागतवान् । देहल्यां नवयुवकस्य क्रान्तिकारि-चन्द्रशेखर-आजादस्य परिचयः अभवत् । अग्नेः वायुसाहाय्यमिव तयोः मैत्री जाता । क्रान्तिकारिणां कार्यकलापाः इतोऽपि अवर्धन्त। तेषु एका नूतना शक्तिः आगता । आरक्षकाः यथा न जानीयुः तथा भगतसिंहः स्वस्य श्मश्रु अपाकृत्य शिरसि केशान् न्यूनीकृतवान् । एतावत्पर्यन्तं सः सिक्खवीरः इव दृश्यते स्म । इदानीं देशस्य वीरपुरुषः । तेषु दिनेषु ‘हिन्दुस्थान-प्रजातन्त्रसङ्घम्’ इति एका क्रान्तिकारिसंस्था आसीत् । तस्य नाम’हिन्दुस्थान-समाजवादि-प्रजातन्त्र- सङ्घम्’ इति रूपेण परिवर्तितम् । सायुधसङ्ग्रामेण भारते प्रजातन्त्रस्थापनं तस्य लक्ष्यम् । कुत्रापि विस्फोटकं स्फुटति चेत् समीपस्थं सर्वं वस्तु नश्यति । आङ्ग्लजनान् पलायितान् कर्तुं क्रान्तिकारिणां कृते अनेकानि विस्फोटकानि आवश्यकानि । किन्तु तावन्ति कुत्र लभ्यन्ते ? विस्फोटाकनिर्माणार्थं भगतसिंहः कोलकत्तानगरं गतवान् । आवश्यकतानुसारं विस्फोटकानि क्रीतवान् । प्रसिद्धक्रान्तिकारिणः जतीन्द्रनाथदासात् विस्फोटकनिर्माणं ज्ञातवान् । १९२८ तमे वर्षे फेब्रवरिमासे आङ्ग्लदेशतः सैमन् कमीषन् इति नामक: कश्चन आयोगः आगतः ।‘भारतीयानां कृते कियता प्रमाणेन स्वातन्त्र्यं दातुं शक्यते ? कदा अधिकार: दातुं शक्य: ?’ इति निर्णयं कर्तुं स: आयोगः विरचितः आसीत् । किन्तु भारतीयाः केऽपि तत्र सदस्या: नासन् । अतः सहजतया देशजनाः आयोगस्य विरोधं प्रकटितवन्तः । आयोगेन कार्यं न करणीयम् । सः आयोगः पुनः आङ्ग्लदेशं प्रतिगच्छेत्, तदर्थम् एकम् आन्दोलनं करणीयम् इति चिन्तितवन्तः । अक्टोबरमासे यदा सैमन्-आयोगः लाहोरं प्रति आगत: तदा तत्र सहस्रशः जनाः भागं गृहीतवन्तः । एतस्य समूहस्य नायकः उत्तमदेशभक्तः लालालजपतरायः । रेलनिस्थानकतः एव आयोगेन विरोधः अनुभूतः । अग्रे गमनाय सैमन्-आयोगाय अवसर: न प्रदत्त:। आरक्षकाः आयोगसदस्यान् रक्षितुं नाशक्नुवन् । तदा स्काट् इति आङ्ग्लेयः आरक्षकाधिकारी दण्डप्रहाराय आदेशं दत्तवान् । आरक्षकाः दण्डैः जनान् ताडयितुम् आरब्धवन्तः । तथापि लजपतरायः तस्य अनुयायिनश्च ततः न निर्गताः । तदा साण्डर्स् नामकः आरक्षकाधिकारी वेगेन आगत्य लजपतरायस्य वक्षःस्थले दण्डैः ताडितवान् । वृद्धः अस्वस्थः लजपतरायः तैः घातैः शय्यां प्राप्य एकमासाभ्यन्तरे दिवङ्गतः । तस्य मरणं क्रान्तिकारिणां कृते महन्तम् आघातम् अजनयत् । तस्य मरणस्य प्रतिक्रिया करणीया इति ते निश्चितवन्तः । तस्मिन् दिने दण्डप्रहाराय आदेशं दत्तवन्तं स्काट् इत्यमुं मारयितुं निश्चितवन्तः। तदर्थम् एकां प्रणालीं रचितवन्तः । स्काट् इत्यस्य चलनवलनं परिशीलयितुं जयगोपाल इति क्रान्तिकारिणं नियुक्तवन्तः । भगतसिंहं, राजगुरुञ्च स्काटं मारयितुं नियुक्तवन्तः । अन्ये सर्वेऽपि एतयोः कार्ये सहकुर्युः इति निश्चितवन्तः । चन्द्रशेखर् आजादस्य नेतृत्वे एषा प्रणाली रचिता आसीत् । किन्तु आरम्भे एव एकः दोषः जातः । जयगोपालः साण्डर्स् इत्यमुमेव स्काट् इति चिन्तयित्वा तस्य चलनवलनं परिशीलयन् आसीत् । पूर्वचिन्तितं दिनं सन्निहितम् एव । तस्मिन् दिने सायंसमये साण्डर्स् आरक्षकस्थानकतः बहिरागतवान् । यन्त्रद्विचक्रिकाम् आरुढवान् । भगतसिंह:, राजगुरु: च मार्गे प्रतिक्षमाणौ आस्ताम् । यानं यदा समीपमागतं तदा राजगुरुः स्वभुशुण्डिना गोलकास्त्राणि प्रयुक्तवान् । लजपतरायस्य वक्षः स्थले दण्डेन य: ताडितवान् आसीत् स:साण्डर्स् वक्षः स्थले गोलकं लग्नमिति कारणेन तत्रैव मृतः । भगतसिंह- राजगुरू धावितवन्तौ । आरक्षकाः अनुधावितवन्तः । समीपस्थं कञ्चित्न् उपाहारमन्दिरम् उभौ प्रविष्टौ । ततः निःशब्दं बहिः निर्गतौ । साण्डर्स् मृत इति वार्ता नगरे सर्वत्र प्रसृता । आरक्षकाः घातिनौ ग्रहीतुम् अन्वेषणम् आरब्धवन्तः । अनन्तरदिने भित्तिषु कानिचन भित्तिपत्राणि दृष्टानि सर्वैः । तेषु "लालालजपतरायस्य मरणस्य प्रतिशोध: कृत: " इति लिखितम् आसीत् । अधः ‘हिन्दुस्थान-समाजवादि-प्रजातन्त्रसेना’ इति आसीत् । साण्डर्स् कैः मारितः इति सर्वैः ज्ञातम् । क्रान्तिकारिषु जनानां गौरवभावः अवर्धत । एतेन हननेन आङ्ग्लसर्वकारः कम्पितः । भगतसिंहः,राजगुरुः,चन्द्रशेखर-अजादश्च् लाहोरं त्यक्तवन्तः । भगतसिंहः कस्यचित् विदेशीययुवकस्य वेषं धृत्वा शिरसि टोपिकां धॄतवान् । भगवतीचरण-नामकस्य क्रान्तिकारिणः धर्मपत्नी दुर्गादेवी भगतसिंहस्य पत्नीरुपेण, तस्याः पुत्रः भगतसिंहस्य पुत्ररूपेण च अभिनयन्तौ रेलयानम् आरुढवन्तौ । ते प्रथमश्रेण्यां प्रयाणं कृतवन्तः । राजगुरुः साधारणोद्योगिरुपेण लाहोरं त्यक्तवान् । चन्द्रशेखर-अजादः पण्डितस्य वेषं धृत्वा रेलयाने उपविष्टवान् । रेलस्थानकं सर्वं यद्यपि आरक्षकैः पूर्णम् आसीत् तथापि ते त्रयः आरक्षकाणां नयनेषु धूलिं क्षिप्त्वा सुरक्षितं बहिः निर्गतवन्तः । आरक्षकाणाम् अन्वेषणं प्रचलदेवासीत् । फलं तु शून्यमेव । एवं मासत्रयमतीतम् । १९२९ तमे वर्षे केन्द्रशासनसभायाः समावेशः देहल्याम् आयोजित: । समावेशे आङ्ग्लसर्वकारः प्रधानं प्रस्तावद्वयं पारयितुम् एच्छत् । तदुभयमपि अस्माकं देशस्य हानिकारकम् । शासनसभा यदि तौ तिरस्करोति, तथापि स्वीयविशेषाधिकारम् उपयुज्य सर्वकारः तत् प्रस्तावद्वयं पारयितुम् इच्छति स्म । हिन्दुस्थान-समाजवादि-प्रजातन्त्रदलेन एतौ द्वावपि विरोद्धुं निर्णय: स्वीकृत: । साण्डर्सवधानन्तरं लाहोरे आरक्षकाः जनान् अधिकं पीडयन्ति स्म । एतं विरुध्य क्रान्तिकारिणः स्वच्छन्दं बद्धा भवेयुः इति समाजवादि-प्रजातन्त्रदलेन निश्चितम् । किन्तु जनैः स्वसन्देशः अपि प्रापणीय: खलु ?।देहल्यां भविष्यमाणे समावेशे विस्फोट्क: क्षेप्तव्य: । स्वच्छन्दं बद्धाः भवेयुः इति च निश्चितम् । तदर्थं भगतसिंहः बटुकेश्वरश्च देहलीं प्रेषणीयौ इति च दलेन निश्चितम् । तदर्थं प्राणहानिं कर्तुम् असमर्थं विस्फोटकद्वयं निर्मितम् । १९२९ तमे एप्रिल् मासे अष्टमदिनाङ्के द्वौ विस्फोकद्वयं गृहीत्वा केन्द्रशसनसभां प्रविष्टवन्तौ । सन्दर्शकाणाम् उपवेशनस्थाने उपविष्टवन्तौ च । शासनसभासमावेशः आरब्धः । पूर्वचिन्तनानुसारं सर्वकारेण प्रस्तावद्वयं प्रस्तुतम् । सदस्या: नाङ्गीकृतवन्तः । अन्तिमसमये कश्चित् सर्वकारप्रतिनिधिः उत्थाय ' सर्वकारः स्वीयविशेषाधिकारमुपयुज्य प्रस्तावद्वयं पारितम् अकरोत् ' इति प्रकटितवान् । तदा एव उपरिष्टात् विस्फोटकस्य स्फोटनम् अभवत् । अपरक्षणे एव अन्यविस्फोटकस्य स्फोट: जात: । शासनसभाङ्गणं धूमेन आच्छादितम् । सर्वे इतस्ततः धावन्ति स्म । सन्दर्शकाणाम् उपवेशनस्थानात् रक्तवर्णीयानि करपत्राणि विकीर्णानि । सर्वकारं निन्दन् प्रजातन्त्रसेनाम् अधिकृत्य तत्र लिखितम् आसीत् "क्रान्ति वर्धताम्" इति। घोषै: शासनसभाङ्गणं प्रतिध्वनितम् । यत्र एतत् सर्वं जातं तत्र आरक्षकाः धावितवन्तः । तत्र भगतसिंह-बटुकेश्वरदत्तौ एव आस्ताम् । द्वयोः हस्तयोः भुशुण्डिद्वयम् आसीत् । भीत्या आरक्षकाः परिवृत्ताः । किन्तु तौ आयुधानि समर्प्य हस्तयोः निगडान् अङ्गीकृतवन्तौ । शासनसभाङ्गणे स्फुटितेन विस्फोट्कद्वयेन केऽपि न मृताः । पञ्चषाणां लघुआघाताः अभवन् । कस्यापि हननं क्रान्तिकारिणां लक्ष्यं नासीत् । एषा सङ्घटना विश्वम् आकर्षयत् । क्रान्तिकारिणां ख्यातिः सर्वत्र प्रसृता । सर्वकारः पुनः कम्पितः अभवत्। एतस्या: घटनाया: अनन्तरं लाहोरे विस्फोटकनिर्माणस्थानं सर्वकारेण गूढचाराणां द्वारा ज्ञातम् । प्रायः सप्तसहस्रविस्फोटकानां निर्माणाय आवश्यकं रसायनं तत्र आरक्ष्कैः प्राप्तम् । शहरानपुरे अन्यत् विस्फोटकनिर्माणकेन्द्रम् अस्ति इति ज्ञातम् । कतिपयदिनानामनन्तरं केषाञ्चन दलाधिकारिणां बन्धनम् अभवत् । सर्वकारेण तानुद्दिश्य अनेके अभियोगाः आरचिताः। भगतसिंहः तस्य अनुयायिनश्च लाहोरकारागारे बद्धाः ।
[सम्पादयतु] भगतसिंहस्य अन्तिमदिनानि
दोषिणां विषये न्यायालये वादप्रतिवादमारब्धम् । तेषु दिनेषु राजकीयकारणैः बध्दानां विषये अधिकारिणः सम्यक् न व्यवहरन्ति स्म । तेषां भोजनं सम्यक् न भवति स्म । तान् अनेकधा पीडयन्ति स्म । भगतसिंहः, तस्य अनुचराश्च तादृशलज्जास्पदानां कार्याणां विषये सङ्घर्षं कर्तुं निश्चितवन्तः । भगतसिंहः स्वस्य हानिः भवति चेदपि सहचारिणाम् उपयोगः भवेदिति चिन्तितवान् । कारावासिनः सर्वेऽपि एकं दिनं यावत् उपवासम् आचरितवन्त: । तेषाम् अपेक्षा: परिशील्यन्ते इति सर्वकारेण प्रतिज्ञातम् । केचन उपवासदीक्षातः विरताः । किन्तु जतीनदासनामकः क्रान्तिकारी दीक्षातः न विरतवान् । सः कस्यापि वचनं न श्रुतवान् । चतुषष्ठिदिनेभ्य: अनन्तरं सः मृतः । तस्य मरणानन्तरं भगतसिंहः द्वात्रिंशद्दिनानि यावत् उपवासम् आचरितवान् । भगतसिंहस्य, तस्य अनुचराणां च विषये न्यायविचारणम् आरब्धम् । तत् समग्रम् विश्वम् आकर्षयत् । न्यायालयं परितः आरक्षकाणां समूहाः आसन् । न्यायालये कस्याऽपि प्रवेशः नासीत् । निगडैः बध्दा: कारावासिनः आनीयन्ते स्म । ते तु ’क्रान्ति: अमरा भवेत्’ इति घोषणं कुर्वन्ति स्म । अनन्तरमेव न्यायालयं प्रविशन्ति स्म । भगतसिंहस्य बटुकेश्वरदत्तस्य च विवरणम् एवम् आसीत् -" बधिरेण श्रोतव्यं चेत् उच्चैः वक्तव्यम् भवति । कमपि हन्तुं वयं विस्फोतटकं न क्षिप्तवन्तः । अस्माकं प्रतिक्रिया आङ्ग्लसर्वकारमुद्दिश्य । आङ्ग्लेयाः भारतं त्यक्त्वा गच्छेयुः । अस्माकं देशः स्वतन्त्रः भवेत् ।" इति। भगतसिंहः स्वसंस्थायाः उद्देश्यमपि विवृतवान् । तां संस्थामधिकृत्य विश्वे सर्वत्र वार्तापत्रिकाभिः ज्ञातम् । अन्ते न्यायालयेन निर्णयः श्रावितः । भगतसिंह- सुखदेव- राजगुरुणां कण्ठपाशदण्डः विहितः । अन्येषु केषाञ्चन आजीवनकारावासदण्डः , केषाञ्चन पञ्चवर्षीयाणां दण्डः, केषाञ्चन सप्तवर्षाणां दण्डश्च विहितः । भगतसिंहस्य कण्ठपाशदण्डः विहितः इति देशे सर्वत्र ज्ञातम् । जना क्रोधाविष्टाः जाताः । भगतसिंहाय कण्ठपाशदण्डः न देयः इति सर्वकारं प्रति अनेकाः विज्ञप्तयः आगताः । अनेने प्रमुखनायकाः अपि एतानि विज्ञापनानि समर्थितवन्तः । किन्तु सर्वे प्रयत्नाः विफलाः जाताः । १९३१ तमे वर्षे मार्चमासे २४ दिनाङ्के तेषां त्रयाणां कण्ठपाशदण्डः अनुष्ठेय: इति निर्णयः अभवत् । तैः सह मेलनार्थं तेषां कुटुम्बसदस्यानां कृतेऽपि अनुमतिः न दत्ता । तान् त्रीन् वीरान् भगतसिंह- राजगुरु- सुखदेवान् पूर्वनिर्णीतदिनाङ्कात् पूर्वेद्यु: एव तन्नाम मार्च २३ दिनाङ्के सर्वकारः कण्ठपाशेन मारितवान् । कण्ठपाशदण्डानुष्ठानसमयेऽपि ते त्रयः क्रान्तिकारिणः निर्भयम् आसन् । प्रसन्नमनस्काः आसन् । ‘दण्डः प्रथमं ममैव भवेत्’ इति स्पर्घां कृतवन्तश्च । प्रथमं सुखदेवस्य, अनन्तरं भगतसिंह्स्य, अन्ते राजगुरोश्च दण्डः दातव्यः इति आधिकारिभिः निश्चितम् । ते दण्डस्थानम् आरुढवन्तः पाशान् चुम्बितवन्तः । स्वयं रज्जूः कण्ठेषु योजितवन्तः । ‘भारतमातुः जयोऽस्तु’ इति घोषयन्त: ते त्रयः अमराः जाताः । तस्मिन् दिने कारावासे कोऽपि भोजनं न कृतवान् । सर्वेषां नयनेषु अश्रूणि प्रसृतानि । एकदिनपूर्वमेव मारिताः इति विषयम् अजानन्त: क्रान्तिकारिणां कुटुम्बसदस्या: अनन्तरदिने तै: मेलितुम् आगतवन्तः । किन्तु ते अमरवीराः कुत्र...? सर्वकार: तेषां पार्थिवशरीराणां सट्लेज्नद्याः तटे रहसि अन्त्यक्रियाः अपि कारितवान् । एतं विषयं ज्ञात्वा सहस्रशः जनाः तत् स्थानं प्राप्तवन्तः । तदा तत्र त्रयाणां वीराणां अस्थिन: केवलम् अवशिष्टाः आसन् । तानेव स्वीकृत्य सर्वे शोकतप्ताः रुदितवन्त: । स्वातन्त्र्यसमरे वीरोचितं युध्द्यन्तः स्वजीवितानि अर्पितवतां तेषां वीराणां कृते समग्रे देशे श्रध्दाञ्जलि: समर्पिता । भगतसिंहस्य आत्मार्पणविषये बहवः गीतानि विरच्य गीतवन्तः । इदानीमपि भगतसिंहस्य आत्मा एतस्य देशस्य युवकानां हृदयेषु त्यागः, आत्मार्पणं इत्यादिभावना: प्रदीप्ताः करोत्येव । इदानीमपि तस्य साहसं, असामान्येकार्याचरणे निष्ठा, अकुण्ठितदेशभक्तिश्च सर्वान् प्रेरयन्त्येव । जय हिन्दुभूमे !
