सञ्जयः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सञ्जय: महाराजस्य धृतराष्ट्रस्य मन्त्री आसीत् । जात्या एष: सूत: आसीत् । एष: कश्चन श्रेष्ठ: स्वामिभक्त:, बुद्धिमान् , नीतिज्ञ:, धर्मज्ञ: च आसीत् । सत्यवादी एष: निर्भीत: अपि आसीत् । एष: धृतराष्ट्राय उत्तमा: सूचना: ददाति स्म । तस्य हितदृष्ट्या यदाकदापि कठिणानि वाक्यानि अपि वदति स्म । अन्तपर्यन्तमपि एष: धृतराष्ट्रेण सह आसीत् । महर्षे: वेदव्यासस्य कृपापात्र: एष: अर्जुनश्रीकृष्णयो: च प्रेमी अपि आसीत् ।

सञ्जय: दुर्योधनस्य अत्याचारस्य बहुविरोधं करोति स्म । यदि धृतराष्ट्र: तान् समर्थयति तर्हि तम् अपि सम्यक् तर्जयति स्म । यदा पाण्डवा: द्वितीयवारं द्यूतक्रीडायां पराजिता: भूत्वा वनवासे आसन् तदा एष: धृतराष्ट्रेन सह दुर्योधनस्य अनुचितं व्यवहारं तीव्रतरं चिन्तयन् वदति यत् – ‘महाराज: ! भवत: कुलस्य सर्वनाश: भवति । शान्तिप्रिया: प्रजा: अपि न अवशिष्यन्ति । भीष्मस्य, द्रोणाचार्यस्य, विदुरस्य च वचनानि अश्रुत्वा भवत: निर्लज्ज: पुत्र: पाण्डवानां प्रियपत्नीं द्रौपदीं सभाम् आनीय अवमाननम् अकरोत् । अयोनिजा, पतिपरायणा, अग्निवेदिकात: उत्पन्नाया: सुन्दर्या: द्रौपद्या: पूर्णसभायाम् अवमाननं कारयित्वा भवत: पुत्र: भयानकाय युद्धाय आह्वानं दत्तवान् अस्ति । विनाशस्य काल: यदा समीपे आगच्छति तदा बुद्धि: मलिना भवति । अन्याय: अपि न्याय: इव दृश्यते । अन्यथा एतादृशं निन्दनीयं कार्यं दुर्योधनेन विना अन्य: क: वा करोति ? इति उक्तवान् । क: मन्त्री राज्ञ: पुरत: एवं निर्भयतया युवराजस्य विषये अप्रियं सत्यं वक्तुं शक्नोति ? धृतराष्ट्र: सञ्जयस्य वचनस्य अनुमोदनं कुर्वन् स्वस्य दौर्बल्यम् अङ्गीकरोति । किन्तु दुर्योधनस्य अत्याचारान् अवरोद्धुं न शक्तवान् ।

सञ्जय: सामनीतौ विश्वासं करोति स्म । एष: युद्धं निवारयितुं बहुयत्नम् अकरोत् । परस्परस्य कलहस्य, युद्धस्य च दुष्परिणामान् एष: उभयपक्षेभ्य: अपि विवृतवान् । पाण्डवा: तु एतस्य वचनम् अङ्गीकृतवन्त: । किन्तु दुर्योधन: एतस्य सन्धिप्रस्तावमेव तिरस्कृतवान् । अत: युद्धः अनिवार्य: अभवत् । दैवस्य नियम: अपि तथा एव स्यात् । कौरवाणां पक्षे भीष्म:, द्रोण:, विदुर:, सञ्जयाणां च अभिप्राय: सामान्यत: समानं भवति स्म । यत: एते चत्वारा: अपि धर्मस्य पक्षपातिन:, अत: पाण्डवेशु सहानुभूति: आसीदेव । तदर्थ्ं राज्ञः धृतराष्ट्रस्य पुत्राणां विषये विनाक्लेषम् एते सत्यं वक्तुं भयं न अनुभूतवन्त: ।

धृतराष्ट्र: स्वस्य परतया संवादं कर्तुं उपप्लव्याय सञ्जयं प्रेषितवान् आसीत् । सञ्जय: आगत्य पाण्डवानां प्रशंसां कुर्वन् युद्धत: मुक्ता: भवितुम् अनुमोदनं कृतवान् । “युद्धेन धर्म: वा अर्थः वा किञ्चिदपि न सिध्यते । सन्धिः एव शान्ते: सर्वोत्तम: उपाय:, धृतराष्ट्र: अपि शान्तिमेव इच्छति, न तु युद्धम्” इति उक्तवान् । श्रीकृष्णस्य अर्जुनस्य च विशेषकृपापात्र: आसीत् । स्वस्य वचनं तु कदापि एतौ न तिरस्कुरुत: इति विश्वास: सञ्जयस्य आसीत् । अर्जुनसम्बन्धे एष: एतावत् उक्तवान् – ‘अहं याचयामि चेत् अर्जुनः स्वस्य प्राणान् अपि ददाति’ इति । एतेन ज्ञायते यत् – सञ्जय: अर्जुनकृष्णयो: कियान् समीपवर्ति: आसीत् इति। युधिष्ठिर: बहुप्रेम्णा एतस्य समर्थनम् अकरोत् । किन्तु सन्धिः चेत् इन्द्रप्रस्थराज्यं प्रत्यर्पणीयम् इति नियमं स्थापितवान् । श्रीकृष्ण: अपि धर्मराजस्य समर्थनम् अकरोत् । सञ्जय: युधिष्ठिरस्य सन्देशं स्वीकृत्य हस्तिनापुरम् आगत्य प्रथमं एकान्ते धृतराष्ट्रं दृष्ट्वा सम्यक् तं तर्जयित्वा अनन्तरं सर्वेषां पुरत: पाण्डवानां धर्मयुक्तं सन्देशं विज्ञाप्य तेषां युद्धसिद्धतां, तत्रत्यानां वीराणां बलानपि विशदतया वर्णितवान् । सञ्जय: भगवत: प्रेमी आसीत् । भगवत: स्वरूपस्य पूर्णं ज्ञानमपि आसीत् एतस्य । अग्रे एषः महर्षिवेदव्यासस्य, गान्धार्याः, महात्मनः विदुरस्य राज्ञः धृतराष्ट्रस्य पुरतः च श्रीकृष्णस्य महिमां सूचयित्वा स: एव पूर्णजगत: प्रभु: इत्यपि उक्तवान् । तदा धृतराष्ट्र: पृच्छति यद् – ‘श्रीकृष्ण: साक्षात् ईश्वर: इति भवान् कथं ज्ञातवान् ? एष: विचारः: मया किमर्थं न ज्ञात: ? इति । तदा विदुर: वदति यत् – अहं तं ज्ञानदृष्ट्या एव ज्ञातवान् अस्मि । ज्ञानेन विना तस्य वास्तविकं स्वरूपं ज्ञातुं कोऽपि न शक्नोति’ । सञ्जय: एवमपि उक्तवान् – ‘अहं कदापि कपटं न आश्रयामि । कदापि मिथ्याधर्ममपि न अअचरामि ।ध्यानयोगेन मम अन्त:करणं शुद्धं जातम् अस्ति । अत: मह्यं श्रीकृष्णस्य स्वरूपस्य ज्ञानम् अस्ति ’ इति । तदा स्वयं वेदव्यास: एव सञ्जयस्य प्रशंसां कुर्वन् धृतराष्ट्राय वदति – ‘पुराणपुरुषस्य श्रीकृष्णस्य स्वरूपस्य पूर्णज्ञानम् एतस्य अस्ति । अत: भवान् एतस्य वचनं शृणोति चेत् एष: जननमरणस्य महाभयात् भवते मुक्तिं दापयति ’ इति । सञ्जय: ज्ञानी इति वक्तुम् इतोऽपि प्रमाणम् आवश्यकं किम् ? अनन्तरं धृतराष्ट्र: ‘अहमपि श्रीकृष्णं ज्ञातुम् इच्छामि । परमपदं प्राप्तुं मार्गं मह्यमपि दर्शयतु’ इति याचयति । सञ्जय: वदति ‘इन्द्रियाणाम् उपरि विजयेन विना केऽपि श्रीकृष्णं न प्राप्नुवन्ति । भोगानां त्यागेन एव इन्द्रियविजय: प्राप्यते । प्रमाद:, हिंसा, भोग: एतेषां त्रयाणां त्याग: एव ज्ञानस्य साधनमस्ति । तेन त्यागेन परमपदस्य प्राप्ति: शक्येत’ इति । अन्ते सञ्जय: श्रीकृष्णपरमात्मनः कतिचन सुन्दरनामावले: व्याख्यानमपि अकरोत् । एतेन तस्य शास्त्रज्ञानस्य परिचय: अपि भवति ।

युद्धस्य सज्जतां समाप्य उभयपक्षस्य सैन्यमपि कुरुक्षेत्रस्य अङ्गणे यदा स्थितं तदा महर्षि: वेदव्यास: सञ्जयाय दिव्यदृष्टेः वरदानं कृत्वा धृतराष्ट्रं वदति – ‘महाराज ! भवते सञ्जय: युद्धस्य वृत्तान्तं वदति । पूर्णकुरुक्षेत्रे एतस्य दृष्टेः अगोचर: विचार: कोपि न भवति । एष: दिव्यदृष्ट्या सम्पन्न: सर्वज्ञ: भवति । प्रत्यक्षे, परोक्षे, दिने, रात्रौ, मनसि चिन्त्यमाना: विचारा: अपि एतेन ज्ञायन्ते । शस्त्राणि एतं न कर्तयन्ति । परिश्रमस्य श्रान्ति: एतं न बाधते । युद्धत: एष: सुरक्षिततया बहि: आगच्छति ।

अनुक्षणं भगवतः वेदव्यासस्य कृपया सञ्जयस्य दिव्यदृष्टि: आगता । स: तत्रैव उपविश्य युद्धस्य सर्वान् विषयान् प्रत्यक्षदर्शी इव दृष्ट्वा दोषेन विना यथावत् महाराजाय धृतराष्ट्राय वदति स्म । बहुविस्तारे कुरुक्षेत्रस्य अङ्गणे अष्टादश-अक्षोहिणीमितासेना परस्परं युद्धं करोति स्म । कः वीर: कुत्र, कदा, केन सह घर्षणं कुर्वन् अस्ति ? क: कस्य उपरि कतिवारं कस्य आयुधस्य प्रयोगं करोति ? कः कौशल्येन शत्रो: आक्रमणत: आत्मानं रक्षति ? तस्य रूपं कथम् अस्ति ? वाहनं किम् ? सर्वं दिव्यदृष्ट्या दृष्ट्वा जानाति स्म । भगवद्गीताया: उपदेशमपि यथा श्रीकृष्ण: अर्जुनाय दत्तवान् तथा एव सञ्जय: स्वकर्णै: श्रुतवान् । [गीता १८/७४-७५] केवलं न श्रुतवान् । तदा श्रीकृष्णस्य मुखमुद्रां, भावं, रूपं च प्रत्यक्षमिव दृष्टवान् ।

एतावदेव न, भगवान् अर्जुनाय स्वस्य विश्वरूपं दर्शितवान् । तम् अर्जुनात् पूर्वं केऽपि न दृष्ठवन्त: आसन् । तत्सम्बन्धे स्वयं भगवान् अर्जुनं वदति यद् – वेदयज्ञानां च अध्ययनेन, दानेन, क्रियाभि:, उग्रतपसा अपि अन्ये केऽपि एतस्य रूपस्य दर्शनं न कुर्वन्ति [गीता ११/४८]। किन्तु तस्मिन् समये यथा अर्जुन: विश्वरूपं दृष्टवान् तथैव सञ्जय: अपि दृष्टवान् । अनन्तरं भगवान् तं रूपं समाप्य अर्जुनाय स्वस्य चतुर्भुजस्य रूपेण दर्शनं दत्तवान् । स: रूप: देवानामपि दुर्लभ:, तपसा, दानेन, यज्ञेनापि तस्य रूपस्य दर्शनं न भवति इति भगवान् स्वयम् उक्तवान् [गीता ११/५३]। तत् दिव्यं दृश्यं महाभाग्यवान् सञ्जय: हस्तिनापुरे उपविश्य एव दृष्टवान् । तस्मिन् अवसरे केवलम् अनन्यया भक्त्या मम रूपं द्रष्टुं शक्यते इति भगवान् अर्जुनं वदति [गीता ११/५४]

एतेन सञ्जयस्य अनन्यभगवद्भक्त्या: परिचय: अपि भवति । तेन कारणेन तस्मै तस्य दिव्यस्वरूपस्य दर्शनम् अभवत् । गीताया: श्रवणानन्तरं तस्य दृश्यस्य स्मरणेन सञ्जय: कञ्चित् अलौकिकम् आनन्दं प्राप्तवान् । स: स्वयं स्वस्य उल्लासस्य स्थिते: वर्णनं कुर्वन् धृतराष्ट्रं वदति यत् – ‘राजन् ! केशवार्जुनयो: पुण्यमयम् अद्भुतं संवादं, रूपं च श्रुत्वा दृष्ट्वा विस्मयेन पुन: पुन: अहम् आनन्दम् अनुभवन् अस्मि’ इति [गीता १८/३६,३७] । । अत: स: युद्धात्त् पूर्वमेव तयो: विजयस्य घोषणां कुर्वन् एवम् उक्तवान् आसीत् यत् – ‘यत्र योगेश्वर: कृष्ण: यत्र धनुर्धर: पार्थः तत्र विजय: निश्चित:’ इति [गीता १८/३८] ।

युद्धस्य समाप्ते: अनन्तरं सञ्जय: राज्ञ: युधिष्ठिरस्य समीपे कतिचन दिनानि स्थितवान् । यदा धृतराष्ट्र: पत्न्या सह वानप्रस्थानं प्रति प्रस्थितवान् तदा एष: अपि तै: सह वनं गतवान् । तत्रापि तेषां सेवां कृतवान् । यदा देवीं गान्धारीं कुन्तीं च दावाग्नि: दहति स्म तदा एष: तयो: आज्ञानुसारं अन्येभ्य: मुनिभ्यः तयो: शरीरत्यागस्य विषयं वक्तुं तत: गतवान् । स: तत: हिमालयस्य दिशि प्रस्थितवान् । एवं सञ्जयस्य महत्जीवनेन ज्ञायते यद् – मानवस्य कस्यापि वर्ण: वा जाति: वा भवतु, भगवत: कृपया तस्य श्रेष्ठत्वं लभ्यते इति।

"http://sa.wikipedia.org/w/index.php?title=सञ्जयः&oldid=253635" इत्यस्माद् पुनः प्राप्तिः