पाण्डवाः
पाण्डवाः महाभारतस्य प्रधानभागाः । पञ्चपण्डवाः इत्येव प्रसिद्धाः। तेषु युधिष्ठिरः ज्येष्ठः, भीमसेनः मध्यमः, अर्जुनः तृतीयः, नकुलः सहदेवः च यमलौ ।
पण्डवपितरौ
[सम्पादयतु]पाण्डवानां पिता पाण्डुः अतः एतेषां तत् नाम अस्ति । पाण्डुः महाप्रतापी चन्द्रान्वयस्य राजा । अस्य द्वे भार्ये आस्ताम् । एका कुन्ती अपरा माद्री इति । युधिष्ठिरः, भीमसेनः, अर्जुनः च कुन्तीपुत्राः । नकुलसहदेवयोः माता माद्री
पण्डवजन्मकथा
[सम्पादयतु]कदाचित् पाण्डुः मृगयाविनोदार्थं पत्नीभ्यां कुन्तीमाद्रीभ्यां सह अरण्यम् अगच्छत् । तत्र मृगयोः मैथुनम् अपश्यत् । पण्डुः तत्क्षणे एव तयोः बाणप्रहारम् अकरोत् । इहलोकं त्यजतः मृगः पाण्डुराजम् अशपत् । राजन् त्वत्समानः क्रूरपुरुषः अस्मिल्लोके कुत्रापि न स्यात् । त्वं मे मैथुनकाले बाणं प्रयुक्तवान् । अतः त्वं यदा मैथुने मग्नः भवति तदा एव ते मरणं भवेत् इति । अनेन शापेन पाण्डुराजः अतीव खिन्नः भूत्वा स्वपत्न्यौ उक्तवान् । हे देवी अहमिदानी मम सर्वकामान् त्यक्त्वा अस्मिन् कानेने वसामि । भवत्यौ हस्तिनापुरं गच्छताम् । अस्य वचनं श्रुत्वा रज्ञ्यौ अवदताम् । नाथ भवता विना वयं क्षणमपि न जीवावः । भवता सह वने एव वस्तुम् अनुमतिः दीयताम् इति । पाण्डुः तयोः प्रार्थनाम् अङ्गीकृतवान् । कदाचित् अमावास्यायां पाण्डुः ब्रह्मणः दर्शनार्थं गच्छतः ऋषिगम् अपश्यत् । तैः सह स्वां नेतुम् अयाचत । ते अवदन् हे राजन् कोऽपि निस्सन्तानः पुरुषः ब्रह्मलोकगमनस्य अधिकारी न भवति । अतः वयं त्वां तत्र नेतुं नैव शक्नुमः इति अवदन् । तेषां वचनं श्रुत्वा पाण्डुः पत्नीं कुन्तीम् उक्तवान् । हे कुन्ति मम मानुषजन्म एव व्यर्थं सम्भवत् अस्ति यतः सन्तानहीनः ऋणत्रयेन मुक्तः कथं भवति ? किं भवती पुत्रप्राप्तये सहाया भवति ? इति । कुन्ती अवदत् हे आर्यपुत्र दूर्वासमुनिः मे तादृशमन्त्रस्य उपदेशं कृतवान् येन यां कामपि देवताम् आहूय मनोवाञ्छितं वस्तु प्राप्तुं शक्नोमि । यदि भवान् आज्ञापयति तर्हि अहं कमपि देवम् आह्वयामि । तदा पाण्डुः यमधर्मराजम् अह्वातुम् सूचितवान् । यमधर्मः कुन्त्यै पुत्रप्रदानम् अकरोत् यस्य नाम युधिष्ठिरः अभवत् । कालान्तरेण पाण्डुः वायुदेवम् इन्द्रदेवं च आह्वातुं कुन्तीम् आदिष्टवान् । वयुदेवस्य अनुग्रहेण भीमः इति पुत्रं इन्द्रस्य वरेण अर्जुनः इति पुत्रं च कुन्ती प्राप्तवती । तत्पश्चात् कुन्ती पण्डोः आदेशनुसारं माद्रीदेव्यै मन्त्रस्य दीक्षां दत्तवती । माद्री अश्विनिकुमारयोः अनुग्रहेण नकुलः सहदेवः चेति पुत्रौ प्राप्तवती । एव कदाचित् पण्डुः माद्रीदेव्या सह वने नदीतटे विहरन् आसीत् । रमणीये वातावरणे मन्दसुगन्धितशीतलसमीरे माद्र्याः वस्त्रम् उड्डीयगतम् । अनेन पाण्डोः मनः विचलितम् अभवत् । माद्रिदेव्या सह रतिम् आरब्धवान् । तस्मिन् क्षणे एव शापवशात् पाण्डोः मृत्युः अभवत् । माद्री तेन सह सतिप्रथाम् अगच्छत् । कुन्ती पुत्राणां पालनार्थं हस्तिनापुरम् अगच्छत् ।