आग्रादुर्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आग्रादुर्गम्
विश्वपरम्परास्थानानि

आग्रादुर्गस्य प्रवेशद्वारम्
आग्रादुर्गस्य प्रवेशद्वारम्
राष्ट्रम् भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः iii
अनुबन्धाः 251
क्षेत्रम् South Asia
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1983  (7th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

अद्वितीयं वास्तुकौशलम्[सम्पादयतु]

आग्रादुर्गं मोगलवंशीयानां शासकानां वैभवस्य प्रतीकम् अस्ति । इदम् उत्तरप्रदेशे विद्यते । तेषां शासनस्य उत्तुङ्गस्थितौ चक्रवर्ती शाहजहानः १६३८-१६४८ वर्षयोः मध्ये दुर्गम् एतत् निर्मितवान् । दुर्गं परितः रक्षणदृष्ट्या महाप्राकारद्वयं श्वेतशिलया निर्मितम् अस्ति। बाह्यप्राकारः ७० पादमितः, अपरः च ३० पादमितः । तयोः मध्ये खाते मकराः भवन्ति, खातप्राकारयोः मध्ये विद्यमाने स्थले व्याघ्राः भवन्ति स्म । 'दीवान्-इ-आम्'नामके सभागृहे चक्रवर्ती जनसन्दर्शनं करोति स्म । कृष्णशिलया निर्मिते सिंहासने सः उपविशति स्म । विशिष्टानां जनानां मेलनाय 'दीवान्-ई-खास'नामकं सभागारम् आसीत्, यत्र श्वेतशिलासनं भवति स्म । मल्लिकासौधे आधिक्येन शाहजहानस्य प्रिया पत्नी मुमताज वसति स्म, या च चतुर्दशपुत्रान् प्रसूय दिवङ्गता । तदनन्तरवर्षेषु शाहजहानः अत्रैव बन्दीकृतः । स्वस्य अन्तिमेषु दिनेषु ततः एव यमुनातीरस्थं ताजभवनं पश्यन् सः कालं यापितवान् ।

"https://sa.wikipedia.org/w/index.php?title=आग्रादुर्गः&oldid=436904" इत्यस्माद् प्रतिप्राप्तम्