शकुन्तला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शकुन्तला दुश्यन्तः च राजारविवर्मणः कलाकृतिः

महाभारते आदिपर्वणि शकुन्‍तलादुष्यन्तयोः कथा लभते । [१]

जीवनकथा[सम्पादयतु]

शकुन्तला ब्रह्मर्षेः विश्वामित्रस्य स्वर्गस्य अप्सरायाः, मेनकायाः च पुत्री । मातापितृभ्यां परित्यक्ता एषा महर्षेः कण्वस्य आश्रमे संवर्धिता । कदाचित् राजा दुष्यन्तः मृगयात्रावसरे सहचरैः भ्रष्टः वने अटन् शकुन्तलाम् अपश्यत् । तस्याम् अनुरक्तः तया मोहितः च तां गान्धर्वविधिना परिणीतवान् । राजधानी गत्वा शकुन्तलाम् आह्वाययिष्यामि इति वचनं दत्त्वा गतवान् । किन्तु पुनः कदापि तां दृष्टुं नेतुं वा अनागतः । कालक्रमेण पूर्णगर्भाशकुन्तला दुष्यन्तस्य राजसभाम् आगच्छत् । किन्तु राजा दुष्यन्तः तां नाङ्गीचकार । दूर्वासस्य शापवशात् सर्वं विस्मरणम् अभवत् । निराशा शकुन्तला राजभवनात् बहिः आगता । तस्याः स्थितिं दृष्ट्वा माता मेनका ताम् उन्नीय ऋषेः कश्यपस्य आश्रमे आश्रयम् दापितवती । तत्र शकुन्तला पुत्रमेकम् असूत । कदिपयदिनानन्तरं कश्चित् धीवरः मत्स्योदरात् प्राप्तम् अङ्गुलीयकं राज्ञे दुष्यन्ताय दत्तवान् । तत् अङ्गुलीयकं दृष्ट्वा शापपरियारविधिना शकुन्तलयाः स्मरणम् आगतम् । पश्चात् शकुन्तलाम् अन्विष्यन् दुष्यन्तः कश्यपाश्रमम् अगत्या पुत्रवतीं तां राजभनम् आनीय महाराज्ञीम् अकरोत् । कालक्रमेण एतयोः पुत्रः भरतः विख्यातः राजाभवत् यस्य नाम्ना एव अस्य देशस्य भारतम् इति नाम प्राप्तम् । अस्य वंशे एव अग्रे पण्डवकौरवाः अपि समागताः ।[२]

उल्लेखाः[सम्पादयतु]

  1. "महाभारत आदिपर्व" (पिएचपी). अगुडप्लेसफॉरऑल.कॉम. आह्रियत ९ जुलै २००८. 
  2. "शकुन्तला" (पीएचपी). भारतीयसाहित्यसङ्ग्रहः. Archived from the original on 2010-06-21. आह्रियत 9 जुलै २००८. 

"https://sa.wikipedia.org/w/index.php?title=शकुन्तला&oldid=481002" इत्यस्माद् प्रतिप्राप्तम्