कुसुमकन्दरराष्ट्रियोद्यानम्
कुसुमकन्दरस्य राष्ट्रियोद्यानम् | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम् , |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | |
अनुबन्धाः | ३३५ |
क्षेत्रम् | एषियापेसिफिक् |
निर्देशाङ्कः | vii, x |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.१९८८ (द्वादशं सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
कुसुमकन्दरराष्ट्रियोद्यानं (Valley of Flowers National Park) भारतस्य उत्तराखण्डराज्यस्य राष्ट्रियोद्यानम् । हिमालयस्य पश्चिमभागस्य उन्नतप्रदेशे विद्यमानम् एतत् उद्यानं प्राकृतिकसौन्दर्यस्य स्थानम् । अत्र शताधिकजातीयानां कुसुमानां सहजोद्यानम् अस्ति । जीववैविध्यस्य आवासस्थाने कुसुमकन्दरोद्याने कृष्णभल्लूकाः, हिमचित्रकाः, पिङ्गलभल्लूकाः, निलमेषाः इत्यादयः निवसन्ति । उद्यानस्य उन्नतभूप्रदेशः निबिडं दरियुक्तं नास्ति । अस्य राष्ट्रियोद्यानस्य विस्तीर्णं ८७.५० च.की.मी. अस्ति । कुसुमकन्दरराष्ट्रियोद्यानं पश्चिमहिमालयस्य जीवसङ्कुलस्य प्रतिनिधिः अन्ताराष्ट्रियस्तरे महत्वपूर्णम् अस्ति । अत्र विद्यमानेषु जीवसङ्कुलेषु बहवः विनाशपथे सन्ति । अत्र विद्यमानाः काश्चन जातयः उत्तराखाण्डराज्यस्य अन्यस्थानेषु नन्दादेवीराष्ट्रियोद्याने वा न दृश्यन्ते । हिमालयस्य अन्यप्रदेशेषु लभ्यमानानाम् औषधमूलानाम् अपेक्षया अत्र अधिकानि लभ्यन्ते । सप्तजातीनां पक्षयः अत्र व्याप्ताः । कुसुमकन्दरोद्यानं क्रि.श. १९८२तमे वर्षे राष्ट्रियोद्यानम् इति उद्घुष्टम् । उत्तराखण्डराज्यस्य गडवालप्रदेशेस्य उन्नतस्थाने विद्यमानम् एतत् उद्यानं वर्षे सर्वदा गन्तुं न शक्यते । अस्य उद्यानस्य अत्युन्नतं स्थानं नाम ६७१९मी. उन्नतः गौरी पर्वतः । कुसुमकन्दरोद्याने न कापि जनवसतिः विद्यते । पालितपशूनां चारणं तत्र निषिद्धम् । जून्मासतः अक्टोबर्मासपर्यन्तम् अयं प्रदेशः हिमेन आवृतः भवति ।
पर्वतारोहणम्
[सम्पादयतु]कुसुमकन्दरोद्यानं प्राप्तुं सामान्यतः १७ कि.मी. दूरं पद्भ्यां चलनीयम् । समीपस्थं बृहत्पत्तनं नाम जोषिमठः । हरिद्वारतः देहरादून्तः च जोषिमठपर्यन्तं सुगममार्गः अस्ति । जोशिमठतः बदरीनाथगमनमार्गे गोविन्दघट्टः इति ग्रामः प्राप्यते । ततः कुसुमकन्दरोद्यानं यावत् पादचलनेन गन्तव्यम् । गोविन्दघट्टतः १४कि.मी. पद्भ्यां गत्वा पश्चात् घङ्घारिया इति लघुग्रामं प्राप्य ततः ३कि.मी.अग्रे चलति चेत् उद्यानं दृश्यते । अपरः मार्गः अनुस्रियते चेत् सिख्खमतीयानां पावनक्षेत्रं हेमकुण्डसाहीबः इति स्थानं प्राप्नोति ।
वीथिका
[सम्पादयतु]- कन्दरपुष्पाणि
-
जून्सेप्टम्बर्-मासयोः कुसुमितानि।
-
उद्यानस्य कुसुमम् ।
-
कीटाकर्षककुसुमम् ।
-
हिमालयघण्टापुष्पम् ।
-
कन्दरस्य सुन्दरदृश्यम् ।
वन्यप्राणिनः
[सम्पादयतु]कुसुमकन्दरराष्ट्रियोद्याने टाह्र, हिमचित्रकः, कस्तूरीमृगः, रक्तजम्बुकः, कपिः, भरल्, हिमालयस्य रक्तभल्लूकः, कृष्णभलूकः, पिकाल् इत्यादीनां प्राणिनां निवासः अस्ति । अनन्तजातीयाः पतङ्गाः सन्ति । अपि च हिमालयस्य गरुत्मान्, ग्रिफान्, गृध्रः, हिमकुक्कुटः, हिमकपोतः इत्यादयः पक्षिणः अपि अधिकसङ्ख्याकाः सन्ति ।
सस्यवैविध्यम्
[सम्पादयतु]कुसुमकन्दरोद्याने असङ्ख्यविधानि पुष्पाणि प्ररोहन्ति । अल्फैन् , आर्खिड् , प्रैम्यूला, मेरिगोल्ड्, डैसी इत्यादीनि जातीयानि पुष्पाणि विकसन्ति । अयं प्रदेशः अल्फैन्बिर्च, रोडोडेण्ड्रान् जातीयै वृक्षैः पूरितः अस्ति ।
बाह्यानुबन्धाः
[सम्पादयतु]- कन्दरकुसुमवाटिकायाः अधिकृतजालस्थानम् ।
- युनेस्को अधिकृतस्थानम् ।
- कुसुमकन्दरोद्यानस्य अधिकविषयः
- कुसुमकन्दरोद्यानस्य मार्गस्य सुन्दरदृश्यम् । Archived २००७-१२-१५ at the Wayback Machine
- गड्वालमण्डलस्य चारणस्य विषयः Archived २००७-०५-०६ at the Wayback Machine
- कुसुमकन्दरस्य राष्ट्रियोद्यानम्
- गुरुद्वारम्