चलच्चित्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविनोदक्षेत्रेऽपि विज्ञानस्य प्रभावोऽविस्मरणीयः। चलचित्रं रूपकस्य एवं आधुनिकस्वरूपं विद्यते। रूपयतीति रूपकम्। तद्वपारोपातु रूपकम्।
तद्रूपकमभेदो यः उपमा-उपमेययो:
उपमानोपमेययोः साम्यप्रदर्शनाय काल्पनिकोऽभेदारोपः रूपकम्।।
रूपकं संस्कृत-साहित्यस्य एकं गौरवपूर्णं अंगमस्ति। नाटकान्तं कवित्वम्। काव्येषु नाटकं रम्यम्'। इत्यनेन सिद्धयति यत्–नाट्याख्यः पञ्चमो वेदः। अवस्थानुकृतिर्नाट्यम् आधुनिकयुगे ये खलु नवीनाः नवीनाः आविष्कारा भवन्ति तेषु आविष्कारेषु 'सिनेमे"ति नाम्ना प्रसिद्धस्य चलचित्रस्य महत्त्वपूर्ण स्थानं विद्यते। अनेन आविष्कारेण जगति जनजीवने च महती क्रान्तिः समुपस्थिता। इदं चलचित्रम् अस्मिन् युगे जनजीवनस्य अभिन्नांग जातम् अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकोन सर्वश्रेष्ठत्वं भजते। ये जनाः विवेकिनः सन्ति, श्रमार्ते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति। ईदृशानां तेषां जनानाम् आवश्यकतां पूत्र्यर्थ वैज्ञानिकैः अनेके आविष्काराः कृता वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एकः उत्कृष्टः आविष्कारोऽस्ति। अनेन आविष्कारेण जना: विश्रान्तिकाले मनोरञ्जनं कुवंति। इदानी चलचित्रस्य प्रभावः आबालवृद्धनरनारीसमेतानां समस्तानाम् मानवानामुपरि विराजते। चलचित्रपटे परस्परं सम्भाषणं कुर्वन्त:, नृत्यन्तः, कृद्रन्तः, गायन्तः, युध्यन्तः, नायकाः, नायिका:, शरणागतान् रक्षन्तः शूराः, प्रवहन्त्यो, नद्यः, कल्लोलवन्तः सागराः, द्योतमाना विद्युतः, वर्षन्तः गर्जन्तश्च मेघाः, विकसितानि उद्यानानि, नगराणां भग्नावशेषाः, काननानां कर्तनम् किं किं वर्णयाम: यद्-यद् मानवः विचारयति तत्सर्वं चित्रपटे द्रष्टुं शक्यते। एवं च ऐतिहासिकविषयाः भौगोलिकी चर्चा च, यथा कुत्र के के आविष्काराः कृता वैज्ञानिकैः कथं तेषामारम्भः, इत्यादिकं समस्तं वस्तुजातं द्रष्टुं दूरस्था अपि प्रभवन्ति चलचित्रपटसहकारेण ।

इतिहासः[सम्पादयतु]

संस्कृतसाहित्ये गद्यपद्ययोरनन्तरं रूपकस्य प्रमुख स्थानइति कथ्यते। भारतीयपरम्परानुसारं रूपकस्योत्पत्तिः त्रेतायुगे संजाता। रूपकस्रष्टा ब्रह्मास्ति। भरतस्यानुसारं देवानां प्रार्थनया ब्रह्मदेवः ऋग्वेदात् पाठ्यम्, यजुर्वेदाभिनयम्, सामवेदात् गीतम्, अथर्ववेदाद्रसं स्वीकृत्य रूपकं रचितवानिति ज्ञायते। रूपकस्य प्रवर्त्तकः भरतमुनिः रूपक 'सार्ववार्णिकपञ्चमवेद' इति वर्णितम्। यथा-
जग्राह पाठ्यं ऋग्वेदात् सामभ्यो गीतमेव च।

यजुर्वेदादभिनयान् रसानाथर्वणादपि॥ (नाट्यशास्त्रम्)

इन्द्रध्वज-महोत्सवं पुरस्कृत्य इदं प्रथमतया भारतभूभागे अभिनयो जातम्। अत: इदं वेदतुल्यमेव। रूपकं तु दृश्यकाव्येष्वन्तर्भवति। श्रव्यकाव्य-शिक्षणे श्रवणेन्द्रियमेव कार्यं करोति। दृश्यकाव्यशिक्षणसमये श्रवणेन्द्रियं चक्षुरिन्द्रियं उभे अपि कार्यं कुरुतः। अतः श्रव्यकाव्यापेक्षया दृश्यकाव्यस्यैव अत्यधिकं प्रामुख्यम् अस्ति। नाटकस्य संस्कृते विशिष्टं स्थानं वर्त्तते। छात्राः अपि रूपकाध्ययने अहमहमिकतां प्रदर्शयन्त्येव।

नाटकम् शब्दोऽयं ‘नट्'धातोः निष्पन्नो वर्तते यस्यार्थास्सन्ति-नृत्यम्, अभिनयः, अनुकरणञ्च। लोके विद्यमानानां इतिवृत्तानां घटनानां वा चित्रणमेव नाटकम्। कालिदासेन उक्तम्‘‘नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्। चलचित्रे चतुर्विधः अभिनयो भवति,

  • 1.सात्विकः,
  • 2.आङ्गिकः,
  • 3.वाचिकः,
  • 4.आहार्यश्चेति। आचार्यभरतः मानवानां मनोरंजनार्थं श्रवणसुखदस्झ नयनाभिरामस्य चलचित्रस्य उपदेशः प्रदत्तः। यथा नाट्यशास्त्रे भरतेन लिखितम्–

दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम्।
विश्रामजननं लोके नाटयमेतद् भविष्यति। (नाटयशास्त्रम्) ।

आधुनिकं चलच्चित्रम्[सम्पादयतु]

एकं १६ मिमि स्प्रिङ्ग्-औण्ड् बोलेक्स् एच् १६ रिफ्लेक्स् कामेरा ।

प्रारम्भिकं समये नाट्यस्य अस्य अभिनेयैः जनैः अनेकैः मञ्चैः क्रियते स्म समाजे, किन्तु अस्मिन् वैज्ञानिकयुगे अस्य खलु नाटकस्य अभिनयः चलचित्रमाध्यमेन क्रियते। मनोरञ्जनकरं च वर्तते। -

यदि वयं चलचित्रस्य आविष्कारविषये दृष्टिनिपेक्षं कुर्मः, तर्हि ज्ञायते यत् सर्वप्रथमं 1889 ईस्वीये वर्षे श्रीमता एडसिस-महाभागेन अमेरिकादेशे मूकचलचित्रस्य आविष्कारः कृतः आसीत्। भारतेऽपि 1912 ईस्वीये वर्षे मूकचलचित्रस्य सफलतया निर्माणं सञ्जातम्। तदानीं चित्रेषु वाण्यभावो दृश्यते स्म, केवलं सङ्केतेनैव सर्वाणि पात्राणि स्व-अभिप्रायं प्रकटयन्ति स्म। तदनन्तरं अनेकेषां वैज्ञानिकानां प्रयासेन मूकचलचित्रे ध्वनिरपि संयोजिता । भारतवर्षे एतत् 1923 ईस्वीये वर्षे विनिर्मितम् आसीत् ।

चलच्चित्रस्य प्रयोजनानि[सम्पादयतु]

रूपकशास्त्रे भरतमुनिना रूपकस्य त्रिणी प्रयोजनानि उक्तानि-

  1. हितोपदेशजनकम् - चलचित्र मनोरञ्जनपूर्वक महदुपकारकम् उपदेशम् अपि
  2. विश्रान्तिजनकम् - दुःखार्तानां श्रमात्तानां, शोकार्तानां, तपस्विनां कृते विश्रान्तिकल्पनम्।
  3. विनोदजनकम् - जनानां मनोरंजकम् । दैनन्दिन-श्रमिक-कार्मिक-कर्षक-जीवने श्रान्ताः जनाः मानसिक आनन्दं प्राप्नुवन्ति। मनोरंजनस्य साधनेषु नाटकं लोकप्रियम् अस्ति। छात्राणां शिक्षणाय -जनानां उपदेशाय च रूपकस्य प्रयोगो भवति। महाकविकालिदासेन । मालविकाग्निमित्रे कथितम्–प्रयोगप्रधानं हि नाट्यशास्त्र-रूपक-प्रयोगप्रधाना कला भवति ।

चलचित्रदर्शने गुणाः[सम्पादयतु]

सर्वधर्मान् परित्यज्य सर्वकर्माणि विहाय च चलचित्रपटस्य विलोकनाय सर्वे जनाः गच्छन्त्यहर्निशम्। चलचित्र नाट्याभिनययुक्तं लघुद्रव्यव्ययसाध्यं सर्वप्रथमं मनोरञ्जनस्य साधनम् अस्ति। प्रायः सर्वेषु नगरेषु ग्रामेषु च चलचित्रगृहाणां स्थितिः प्रतीयते। तत्र बहवः नागरिकाः चलचित्रं प्रतिदिनं पश्यन्ति। एकस्मिन् दिवसे प्रायः चलचित्रगृहे चतुः वारं चलचित्रं चाल्यते। अनेन प्रकारेण अतीव लोकप्रियम् एतत् सञ्जातम् मनोरंजनसाधनम्। तत्र मानन्दस्य यां परां कोटिं प्राप्नोति मानवः सा तु अन्यत्र दुर्लभा। अस्य कारणमिदं यत् चलचित्रेषु सर्वेषु नृत्य-गीत-वाद्य-हास्य-अभिनय-संग्रामादयः सर्वेऽपि क्रियाकलापाः यथार्थरूपेण प्रदर्श्यन्ते। अनेनैव अद्यत्वे एतत् मनोरञ्जनसाधनेषु महत्त्वपूर्णं सञ्जातम्।

यदि चलचित्रस्य प्रयोगः शिक्षाविस्तारप्रसारणे प्रशिक्षणे च क्रियेत तर्हि महान् लाभः भवितुं शक्नोति। अधुना सर्वकारेण अनेन माध्यमेन शिक्षायाः प्रसारः क्रियते। एवमेव सूचनाविभागेषु सूचनायाः प्रसारणार्थम् अपि अस्य साधनस्य उपयोगो भवति। स्वास्थ्यविभागोऽपि अस्मिन् विषये विशेष-प्रयत्नवान् दृश्यते। एतदतिरिक्तं बालानां कृते तु अस्य चलच्चित्रस्य उपयोगिता महती वर्तते। यतोहि ते अपरिपक्वबुद्धयः भवन्ति। अतः , अनेन माध्यमेन अध्ययनविषये तेषां रुचिं अधिकां उत्पादने समर्थाः भवितुं शक्नुमः वयम्। अधुना अस्माकं समाजे प्रौढशिक्षायाः प्रचारः अधिकः क्रियते। अतः अल्पज्ञाः ग्रामवासिनः अनेन माध्यमेन सहजतया शिक्षां अपेक्षितां ग्रहीतुं सक्षमाः सन्ति। अनेन प्रकारेण चलचित्रेण खलु सर्वेर्षा जनानां महान् लाभो भवति। ।

चलचित्रदर्शने दोषाः[सम्पादयतु]

यत्र बहवो गुणाः सन्ति तत्रैव तेषां मध्ये दुर्गुणाः अपि तिष्ठन्ति। यथेदं चित्रपटदर्शनं अश्लीलात्मकवर्णनकथानकदृश्यैः बालान् युवकांश्च वासनावासितान्त:करणान् करोति। तत्र गत्वा युवक-युवतयश्च विशेषतः दुर्गुणमेव गृह्णन्ति। कोचित् जनाः अधिकं धनार्जनं करणाय चलचित्रगृहेषु अश्लीलचित्राणां प्रदर्शनं कुर्वन्ति। तेषु चित्रेषु बहूनि तु नग्नानि एव भवति। ईदृशानि लज्जाकराणि चित्राणि अवलोक्य अस्माकं देशस्य निर्मातारः युवकाः कुमार्गगामिनः भवन्ति। ईदृशान् दृश्यान् विलोक्य अल्पमतिबालका: चरित्रभ्रष्टा: जायन्ते ।

प्रभावाः[सम्पादयतु]

श्रवणापेक्षया प्रत्यक्षदर्शनेन मानवानां हृत्पटले अधिकः प्रभावः भवति। अनेन प्रकारेण दर्शं दर्श चलचित्रपटमल्पज्ञाः ग्रामीणा अपि विशेषज्ञा भवितुं शक्नुवन्ति। बालानां शिक्षणेऽपि अस्य महानुपयोगः। तान् शिक्षासबन्धीनि दृश्यानि दर्शयित्वा पठनविषये तेषां रुचिमधिकां कर्तुं शक्यते। विज्ञापनानि तेषामेव माध्यमेन सफलानि भवन्ति। पत्र-पत्रिकादयोऽपि चलचित्रसन्देशं चित्रपटं च समाश्रित्य स्वकीयमाकर्षणं च वर्धयन्ति। चलचित्रभवनान संख्या तीव्रवेगेन वर्धते। भारते सहस्रसंख्यकानि चलचित्राणि निर्मितानि सन्ति। चलचित्रैः जनाः प्रसन्नतां ज्ञानञ्चाप्नुवन्ति। इदं सर्वं सदपि चलचित्रे महन्ति दूषणानि अपि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=चलच्चित्रम्&oldid=356863" इत्यस्माद् प्रतिप्राप्तम्