भारतस्य राष्ट्रपतयः
दिखावट
(भारतस्य राष्ट्रपति: इत्यस्मात् पुनर्निर्दिष्टम्)
- पीतवर्णीयपृष्ठभूम्या (background), (*) चिह्नेन च येषां नामानि उल्लिखितानि सन्ति, ते भारतगणराज्यस्य कार्यवाहकराष्ट्रपतयः आसन् ।
# | नाम | चित्रम् | कार्यकालारम्भः | कार्यकालसमाप्तिः | उपराष्ट्रपतिः | विशेषम् |
---|---|---|---|---|---|---|
१ | डॉ. राजेन्द्र प्रसाद (१८८४-१९६३) |
६/१/१९५० | १२/५/१९६२ | डॉ. सर्वपल्ले राधाकृष्णन् | भारतगणराज्यस्य प्रप्रथमराष्ट्रपतिः । केवलम् अनेन एव वारद्वयं राष्ट्रपतित्वेन दायित्वम् ऊढम् । | |
२ | डॉ. सर्वपल्ले राधाकृष्णन् (१८८८-१९७५) |
१३/५/१९६२ | १३/५/१९६७ | डॉ. जाकिर हुसैन | एतस्य राष्ट्रपतेः जन्मदिने आभारते शिक्षकदिनस्य उत्सवः भवति । | |
३ | डॉ. जाकिर हुसैन (१८९७-१९६९) |
१३/५/१९६७ | ३/५/१९६९ | वराहगिरि वेङ्कट गिरि | भारतगणराज्यस्य प्रप्रथमः मुस्लिमराष्ट्रपतिः । | |
वराहगिरि वेङ्कट गिरि * (१८९४-१९८०) |
३/५/१९६९ | २०/७/१९६९ | तृतीयस्य राष्ट्रपतेः आकस्मिकनिधने सति एषः कार्यकारिराष्ट्रपतिः अभवत् । | |||
मुहम्मद हिदायतुल्लाह * (१९०५-१९९२) |
२०/७/१९६९ | २४/८/१९६९ | राष्ट्रपतिनिर्वाचनार्थं वराहगिरि वेङ्कट गिरि इत्यनेन पदत्यागं कृतम् । अतः कार्यकारिराष्ट्रपतित्वेन एषः दायित्वम् अवहत् । | |||
४ | वराहगिरि वेङ्कट गिरि (१८९४-१९८०) |
२४/८/१९६९ | २४/८/१९७४ | गोपाल स्वरूप पाठक | भारतगणराज्यस्य उत्थानार्थम् अनेन बहवः निर्णयाः स्वीकृताः । | |
५ | फकरुद्दीन अली अहमद (१९०५-१९७७) |
२४/८/१९७४ | ११/२१९७७ | बसप्प दानप्प जत्ति | एतस्य कार्यकाले एव भारते आन्तरिकापत्कालस्य घोषणा अभवत् । केचन वदन्ति इन्दिरा गान्धी स्वयं राष्ट्रपतिभवनम् अगच्छत् हस्ताक्षरं कारयितुम् इति । केचन वदन्ति, “पञ्चविंशतितमे दिनाङ्के रात्रौ सञ्जय गान्धी स्वमित्रैः सह राष्ट्रपतिभवनम् अगच्छत् । बलेन आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरम् अकारयत् सः” इति । | |
बसप्प दानप्प जत्ति * (१९१२-२००२) |
११/२/१९७७ | २५/७/१९७७ | फकरुद्दीन अली अहमद इत्यस्य हृदयाघातेन आकस्मिकमृत्युः अभवत् । अतः अनेन राष्ट्रपतित्वेन दायित्वम् ऊढम् । | |||
६ | नीलं सञ्जीव रेड्डि (१९१३-१९९६) |
२५/७/१९७७ | २५/७/१९८२ | मुहम्मद हिदायतुल्लाह | स्वस्य कर्मनिष्ठा-कुशलता-निर्णयशक्तिभिः श्रीसञ्जीवः भारतस्य राजनैतिकस्थितिं समीकर्तुं सफलः अभवत् । | |
७ | ज्ञानी जैलसिंह (१९१६-१९९४) |
२५/७/१९८२ | २५/७/१९८७ | रामस्वामी वेङ्कटरामन् | अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैलसिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । | |
८ | रामस्वामी वेङ्कटरामन् (१९१०-२००९) |
२५/७/१९८७ | २५/७/१९९२ | शङ्कर दयाल शर्मा | राष्ट्रपतित्वेन प्रप्रथमभाषणं कुर्वन् श्रीवेङ्कटः अवदत्, “पञ्चत्रिंशत्वर्षं पुरा भारतस्य सर्वप्रथमः राष्ट्रपतिः श्रीराजेन्द्र प्रसाद यदा अस्मिन् सभाखण्डे राष्ट्रपतित्वेन शपथम् अकरोत्, तदा मम कल्पना अपि नासीत् यत्, अहमपि राष्ट्रपतित्वेन सम्मानं प्राप्स्यामि इति । अद्य देशजनाः यं सम्मानं मह्यम् अयच्छन्, तत्सम्मानाय अनुगृहीतोऽस्म्यहम् । अहमेतत्पदं न केवलं गौरव-प्रतिष्ठयोः प्रतीकत्वेन पश्यामि, अपि तु मम कृते साहसपूर्णदायित्वेन एतत् कार्यम् अस्ति” इति । | |
९ | शङ्कर दयाल शर्मा (१९१८-१९९९) |
२५/७/१९९२ | २५/७/१९९७ | कोचेरिल् रामन् नारायणन् | राष्ट्रपतित्वेन श्रीशङ्करस्य कार्यकालः बहु अस्तव्यस्तः आसीत् । तस्य कार्यकालस्य प्रथमे वर्षे एव अयोध्यायां स्थितं बाबरी मस्जिद इति मुस्लिमजनानां प्रार्थनास्थलं ध्वस्तम् अभूत् । | |
१० | कोचेरिल् रामन् नारायणन् (१९२०-२००५) |
२५/७/१९९७ | २५/७/२००२ | किशन कान्त | राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल इत्यस्य नेतृत्वस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के अटल बिहारी वाजपेयी इत्यस्य नेतृत्वस्य सर्वकारस्य पतनम् अभवत् । | |
११ | डॉ. ए पी जे अब्दुल कलाम (जन्म १९३१) |
२५/७/२००२ | २५/७/२००७ | भैरोंसिंह शेखावत | भारतस्य महान् वैज्ञानिकः एषः प्रख्यातराष्ट्रपतिः । | |
१२ | प्रतिभा पाटील (जन्म १९३४) |
२५/७/२००७ | २५/७/२०१२ | मोहम्मद हमीद अन्सारी | भारतगणराज्यस्य प्रप्रथममहिलाराष्ट्रपतिः । | |
१३ | प्रणब मुखर्जि (जन्म १९३५) |
२५/७/२०१२ | २५/७/२०१७ | मोहम्मद हमीद अन्सारी | - | |
१४ | रामनाथः कोविन्दः (जन्म १९४५) |
२५/७/२०१७ | Incumbent | प्रणब मुखर्जि | ||
१५ | द्रौपदी मुर्मू (जन्म:20 जून 1958) | 25 जुलाई 2022 | पदस्था | जगदीप धनखड | द्रौपदी मुर्मू मई 2015 वर्षे झारखण्डस्य नवम-राज्यपालत्वेन पदम् आसीना। द्रौपदी मुर्मू-महोदया 1997 वर्षे राइरंगपुर-नगरस्य पंचायत-पार्षदस्य निर्वाचने विजयोत्तरं स्वराजनीतिकजीवनस्य आरम्भम् अकरोत्। ओडिशा-राज्यस्य मयूरभंजमण्डलस्य रायरंगपुर-स्थानात् 2000 एवञ्च 2009 वर्षे भाजपा-पक्षस्य प्रतिनिधौ द्वितीयवारं विजित्य विधायकत्वं प्राप्तवती। 2000 एवञ्च 2004 मध्ये वाणिज्ये, परिवहने ततः मत्स्य-पशु-संसाधन-विभागे मंत्रित्वं प्राप्तती।[१] |
बाह्यानुबन्धाः
[सम्पादयतु]- The President of India (Official site)
- Former Presidents of India (Official site)
- A Time-line view of Indian Presidents
- ↑ "5,77,777 वोट पाकर जीत गईं द्रौपदी मुर्मू, देश को दूसरी महिला राष्ट्रपति मिलना तय". आह्रियत 21 जुलाई 2022.