लोट् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लोट्लकारः इत्यस्मात् पुनर्निर्दिष्टम्)

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लोट् लकारः विधिं (आज्ञां प्रार्थनां च) बोधयति ।

पठ् धातोः लोट् लकारे रूपाणि
लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठतु/पठतात् पठताम् पठन्तु
मध्यमपुरुषः पठ पठतम् पठत
उत्तमपुरुषः पठानि पठाव पठाम
लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लोट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तु/तात् ताम् अन्तु
मध्यमपुरुषः - तम्
उत्तमपुरुषः आनि आव आम
सेव् धातोः लोट् लकारे रूपाणि
लोट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेवताम् सेवेताम् सेवन्ताम्
मध्यमपुरुषः सेवस्व सेवेथाम् सेवध्वम्
उत्तमपुरुषः सेवै सेवावहै सेवामहै
लोट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लोट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ताम् इताम् अन्ताम्
मध्यमपुरुषः स्व इथाम् ध्वम्
उत्तमपुरुषः आवहै आमहै


इमे अपि पश्यन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लोट्_लकारः&oldid=395804" इत्यस्माद् प्रतिप्राप्तम्