वत्सराजः
वत्सराजः | |
---|---|
जननम् | मध्यकालः |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | किरार्तार्जुनीयव्यायोगः, कपूरचरितभाणः, हास्यचूडामणिः, समुद्रमथनसमवकारः |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
वत्सराजस्य किरातार्जुनीयं व्यायोगः, कपूरचरितं भाणो, रुक्मिणीहरणमीहामृगस्त्रिपुरदाहं डिमो, हास्यचूणामणिः प्रहसनं, समुद्रमथनं समवकारश्चेति कृतयो विलसन्ति। कालजराधीशेन परमर्दिदेवेन तत्पुत्रेण त्रैलोक्यमल्लेन च सभाजितोऽयं कविराजः तयोरमात्यो बभूव । परमर्दिदेवः ११६५ ख्रीष्टाब्दतः १२०२ पर्यन्तं कालजरं वीरभूमिं शशास, ततश्च १२०५ ख्रीष्टाब्दतः १२४१ पर्यन्तं त्रैलोक्यमल्लः प्रजापालकोऽभवत्।
नवमीं शताब्दीमारभ्य आ त्रयोदश्याः कालञ्जरा मध्यदेशे वीरप्रसूतयोऽप्रतिमानां काव्यप्रतिभानां भूमयश्चासत्। अत्रत्यानां चन्देलराजानां प्रथमस्तावज्जयशक्ती राजाभूद् यस्य नाम्नायं प्रदेशो जेजाकभुक्तिरित्यगीयत । द्वितीयो महान् विजेता यशोवर्मा दशम्यां शताब्द्यां बहून् भारतभागान् विजित्य खजूराभोगे विष्णुमन्दिरं निरमापयत्, तत्रैव जलाशयमप कारितवान् । तस्यात्मजो धङ्गः पितुरपि भूयान् प्रतापेन ६८६ ई० मध्ये राज्यसंघसमवेतः ‘सुबुक्तगीन' इत्येतेन सह रणलीलां चकार, खजूराभोगे देवालयांश्चापि निर्मापयामास । तदात्मजो गण्डः प्रतिहारनरपतिः राज्यपालं दण्डयितुं १०१८ अब्दे स्वपुत्रं विद्याधरं ससैन्यं प्रस्थापयति स्म । विद्याधरे च १०१९ वर्षे राज्यासीने तच्छासनावधौ ‘महमूदगजनवी' इत्यनेन द्विः कालिञ्जरा आक्रान्ताः । पश्चादेतद्वश्यः कीर्तिवर्मा प्रसिद्धिमगाद्, यदाश्रयेण प्रबोधचन्द्रोदयस्य प्रथमोऽभिनयः सम्पन्नः ।
१२२६ ख्रीष्टाब्दमभितोऽस्य वंशस्य प्रदीपो मदनवर्मा गीतविजयश्लोको ‘महोबा' पुरे मदनसागरं नाम बृहत् सरोवरं खानयामास । एतेषां राज्ञां परम्परामनुपालयन् ११६५ वर्षे परमददेवो राज्यधुरं स्वीकृतवान् । बहुशः स पृथ्वीराजचाहमानेनायुध्यत । १२०२ वर्षे ऐबकः कुतुबुद्दीनः कालजरानाक्रम्य जितवान्। १२०५ वर्षे पुण्यश्लोकप्रतापो विजयश्रीवृतस्त्रैलोक्य वर्मा कालजरान् स्वाधीनांश्चकार। उक्तेन विवरणेन भारतभुवस्तत्समये युद्धजर्जरतानुमीयते इतिहासकैरैः। राजामात्यः कविः परस्परं विजिगीषून् भारतभूमेः : शासकानवलोकयन् - औदार्य-वीर्य-रसिकाः सुखयन्तु भूपाः ।[१] न्यायोपाय-प्रवृत्ती अवनिमवनिपाः पालयन्तः प्रसक्ताः । किरा० भरतवाक्यम इति सन्दिशति । क्षत्रियाणां कृते धर्मरक्षामुपदिशन्नसौ तपःपूतत्वमायुधव्रतं च पुरस्करोति -
एकः करः कलयति स्फटिकाक्षमालां घोरं धनुस्तदितरश्च बिर्भात हस्तः।
धर्मः कराल-कलिकाल-कदर्थ्यमानः सत्क्षत्रियस्य शरणं किमिवानुयातः।।[२]
मध्यकाले कविरमात्य इति विलक्षणोऽयं मणिकाञ्चन-योगो वत्सराजमुत्कर्षभाजं विदधाति । काव्यकौतूहलो ह्यसौ समसामयिकस्य कान्यकुब्जाश्रितस्य महाविदुषः श्रीहर्षस्य सनाभितां वहति, सान्धिविग्रहिकश्च भवंश्चाणक्यं स्मारयति।
किरातार्जुनीय-व्यायोगः
[सम्पादयतु]महाभारतीयां कथामाश्रित्य भारविणा कृतं किरातार्जुनीयं नाममहाकाव्यं वत्सराजस्योत्प्रेरकं लक्ष्यते। श्रव्यस्य प्रबन्धस्य दृश्यतां कवयन्नसौ यथापेक्षं परिवर्तयति, नवं कल्पयति, युगानुरूपं चादधाति स्वादुत्वम् । अस्त्येव कश्चिद् वाग्विशेषो येन रसिकानां मनसि प्रत्यग्रैव कापि रसस्फूर्तिरुज्जागर्ति सर्वाङ्गीणं परिष्वजमाना। अहो अस्य प्रसादगुणाग्रहः -
अपार्थः पार्थोऽहं धनुरधिगुणं निगुणमिदं विसारा एतेऽपि प्रसरणपराः सम्प्रति शराः।
न यावन्नो राजा समरभुवि कौरव्य-बलवत्कबन्धानां नृत्यैरनुभवति नेत्रोत्सवसुखम्॥
अस्त्येव किंचित् कविकर्मलाघवं यद् विरोधाभासेऽपि अविरोधि भवति रससिद्धेः । अपि च वराहवर्णने -
कुद्दालीयति सान्द्रकन्दपटले, बाढं कुठारीयति
स्कन्धाग्रेषु, परश्वधीयत शिखाशाखास सम्पातिनी।
दंष्ट्रेय विकटाकिटेः प्रतिपदं मार्गदुमद्रोणिषु
कुरक्रूरपराक्रमप्रणयिनी किं किं न सम्पद्यते।।
इति नामधातूनां प्राचुर्येऽपि प्रासादिकता नैव हीयते । अपार्थाधीनामेव कामावाप्तिमुद्दिशन् वत्सराज इमं व्यायोगं विरचितवान् । अत एवायं वीररसमेव प्रधानीकृत्य प्रस्तावयति -
येनोत्तम्भित-दुर्मदान्धकतनुच्छत्रस्य दण्डायितं
यत् प्राप्यायुधमङ्गनापि दनुजध्वंसं चकाराम्बिका।
यद् दृष्ट्वैव विडौजसो लिखितवद् दम्भोलिरासीत् करे
चन्द्रार्धाभरणस्य तद् भगवतः शूलं शिवायोस्तु वः।।
कपूरचरितभाणः
[सम्पादयतु]कपूरचरिताख्यो भाणो वत्सराजस्यापरा कृतिर्नीलकण्ठयात्रामहोत्सवे समवेतानां विदग्धरसिकानामभिलाषं पूरयितुमभ्यनीयत प्रातःकाले। अत्र विदेशादागतस्य कर्पूरकस्य नाम धूर्तस्य चन्दनकेन धूर्तेन सहालाप आकाशभाषितरीत्यावजितः। छद्मव्यापारेणैव महान्ति कार्याणि काम-राम-विष्णुप्रमुखाः देवाः अपि साधयांचक्रुः इति धूर्त मायामहिमानं स्तुवन्नेकाकी द्यूतशालामभिव्रजन् कर्पूरकश्चन्दनकेनाभिमुखायातेन तदाहूतेन द्यूतागारेऽनुपस्थितस्य ते मुखमपि न द्रष्टुमीहे, किमिव त्वमासप्ताष्टदिवसमनुपस्थितो द्यूतं छलयसीयुक्तो दारिद्र्योपहतत्वान्नागन्तुमुदसहे' इति प्रत्युवाच । विलासवत्या समर्पित-स्वसुमनोमाल्यस्य किं ते हीयते ? इति चन्दनकेन प्रेरितः कर्पूरकः क्रोडगतां वीणां दर्शयन्नवोचत् - अनया वादितया मे प्रिया गायति -
रतिरमणप्रियसुहृदा शशाङ्कसुभगेन निर्वृतिकरेण।
कर्पूरकेण वियोगो भगवति रुद्राणि मा भवतु॥[३]
अथ च पौनःपुन्येन द्यूते दत्तपराजयां विलासवतीं समाश्लेषणमजैषमिति, इयं विलासवती चन्द्रमसो व्याजेन मामुपालभत इति च सौभाग्यं स्वमुख-कन्दरेण बहिर्गमय्यासो भूयिष्ठं स्वाचरितपूर्वं धूर्ताचारं वर्णयितुमारेभे। कविकर्मकौशलमलङ्कारनैपुणीमनुरुणद्धि। सा च वत्सराजमुनुरुन्धती चकास्ति । यथा -
इहास्ति नूनं तुहिनांशु-बिम्बे कलङ्कधूमानुमितो हुताशः।
अस्यांशुपूरः कथमन्यथासौ ज्वालावली-डम्बरमातनोति॥[४]
अनेन भाणेन कविः धूर्तवञ्चनाजालादात्मानं रक्षितुमुपदिशति लोकम् -
उत्सङ्गे सिन्धुभर्तुर्वसति मधुरिपुगढमाश्लिष्य लक्ष्मीम्
अध्यास्ते वित्तनाथो निधिनिवहमुपादाय कैलासशैलम्।
शुक्रः कल्पद्रुमादीन् कनकशिखरिणोऽधित्यकासु न्यधासीद्
धूर्तेभ्यस्त्रासमित्थं दधति दिविषदो मानवाः के वराकाः।।
रुक्मिणीहरणेहामृगः
[सम्पादयतु]वत्सराजस्य कृतिरेषा रुक्मिणीहरणाख्य ईहामृगो वर्तते । विरला एवेहामृगा लभ्यन्ते। भासस्य प्रतिज्ञायौगन्धरायणमहामृगो निगद्यते कैश्चिन्न सर्वसम्मतिं दधाति । शास्त्रेषुदाहृतास्ते न प्राकाश्यमायान्तीति वत्सराजस्येयं कृतिर्महत्त्वं भजते ।
हरिवंशपुराणे भागवतादौ च कथानकमिदमीहामृगोपयुक्तमेव वर्तत इति तत एवादाय वत्सराज ईहामिमां रूपयति। मूलकथायां सुबुद्धि-संवत्सला-गरुडादीनि पात्राणि चित्रप्रकरणं च विनियोज्य स्वयंवर-गन्तुकामानां राज्ञां यात्रावर्णनं च प्रकल्प्य नवतामभिनयोत्कर्षं च सम्पादयति कविः।
एकोक्तयो, निरर्थकघटनागुम्फनेन अर्थोपक्षेपकैश्च रूपकमिदं बृहदीकृतम् । काव्य-योजनालोभोऽपि वत्सराजं विस्ताराय प्रयोजयति । यदि काव्यसौष्ठवमुन्मीलयितुमेवाग्रहः तर्हि साफल्यं भजत्येव कवेः। यथा गरुडः शक्तिं विकत्थते -
पक्षानिलैः प्रसभमम्बु निधिं धुनोमि त्वं चेदधोभुवनजिष्णुतयोत्सकोऽसि।
उत्कण्ठितोऽसि यदि तेषु तदानयामि तानिन्दुशेखर-विरञ्चि-पुरन्दरादीन्॥[५]
त्रिपुरदाहं डिमः
[सम्पादयतु]वत्सराजस्य चतुरङ्कोऽयं डिमस्त्रिपुरदाहं रचितपूर्वस्य कस्यापि डिमस्यानुपलब्धेरैतिहासिकदृष्ट्या महत्त्वं भजते । पौराणिकं कथावस्तु दृश्यरूपेण प्रणयन् देवानां संघबद्धं प्रयासं निबध्नन् नारदादीनि कपटपात्राणि कपटत्रिपुरीं च प्रथयन् कविः तात्कालिकीं रुचिं राजनीतिकीश्च स्थितीरनुवदति । दशम्यां शताब्द्यां राजसंघं निर्माय धङ्गेन यथा सुबुक्तगीनः पराभूतस्तथा देवा अपि संघशक्त्या त्रिपुरं विजेतुं प्राभवन्निति।
नाट्यशिल्पमधिकृत्य केचन विशेषाः परिलक्ष्यन्ते । यथा त्रिपुरदाहस्य प्रथमयोरङ्कयोः अधमपात्रद्वयकृतोऽर्थोपक्षेपको विष्कम्भकनाम्ना दशितः । शास्त्रदृशा तेन प्रवेशकेन भाव्यम् । रङ्गमवतरिष्यतः पात्रस्य पूर्वसूचना केनापि व्याजेन ददत् कविः पूर्वनाट्यकारानतिशेते। अत्र चूलिकाभिर्भाविभूतघटनानां सूचनापि भूयसी कृता। कपटपात्राणां कुटनारद-ब्रह्मादीनां प्रयोगः किमपि औत्सुक्यं वर्धयन्तीमभिख्यां तनोति। तृतीयेऽङ्के सर्वतापो दानव आग्नेयास्त्रं प्रयुक्ते । तन्निबर्हणाय कुमारेण बाणवर्षा तन्यत इति रंगे युद्धाभिनयो सविशेष एव । किं च स्वप्नशकुनादयः पूर्वसूचनायै प्रयुक्ता नव्यं तत्त्वमेव । छायात्रिपुर्याः कुटत्रिपुर्याः वा समायोगेन छायानाट्यत्वं स्पष्टमेव शोभते। हिमालयोऽपि मानवरूपो भाषते । यथा -
अहह किमिह कुर्मो नायकस्यामराणां
कुलिश-दलित-पक्षाः पङ्गवो यत् कृताः स्मः।
असम-चय-भराढ्याः स्वैरमुड्डीयमानाः
किमुत दनुजसार्थं खेचरं चूणयामः॥[६]
समेषां राज्ञां संघ एव विजातीयेषु जयिनीं श्रियमधिकरोति, नैकः कोऽपि प्रभुरिति सामयिकं सन्देशं दधाति कविः -
वैकुण्ठः पद्मजन्मा त्रिदशपरिवृढः पावकः प्रेतनाथो
रक्षो वारामधीशः पवनधनपती सूर्यचन्द्रौ कुमारः।
धर्मः शेषाद् विराजावहमपि तरलः षोडशः कौतुकार्थी
मामेवैक किमित्थं त्रिपुरदधविधौ श्लाघसे नारद त्वम्॥[७]
हास्यचूडामणिप्रहसनम्
[सम्पादयतु]हास्यचूडामणिप्रहसनम् अङ्कद्वयात्मकं वत्सराजस्य अनुत्तमा कृतिर्भगवदज्जुकीयादनन्तरं प्रशस्तिमर्हति। नीलकण्ठयात्रोत्सवे प्रभातवेलायामस्याभिनयः परमददेवेन कारितः ।
समुद्रमथन-समवकारः
[सम्पादयतु]समुद्रमंथननामा वत्सराजस्याङ्कत्रयग्रथितं समवकारकोटिकं प्रथमं रूपकम् । परिमर्दिदेवस्य परितोषायैष प्रत्यूषेऽभ्यनीयत । कथानकं तु पुराणप्रसिद्धमादाय कविना रूपकायितम्।
कथावस्तु
[सम्पादयतु]देवाः, असुराश्च समुद्रमथनेन भूयिष्ठां रत्नोपलब्धिं सम्भाव्य ब्रह्म-हरिहरैः सम्मन्त्र्य मन्दरेण मन्थनीकृतेन प्राक्रामन्त यथाविनियोगम् । विष्णुपदी समुद्रपत्नी लक्ष्म्याश्चित्रं विष्णुं तस्य च तां दर्शयित्वा परस्परेण स्पृहणीयतां निनाय। जलकुञ्जरमारूढा लक्ष्मी रुद्राणीं पूजयितुं लज्जाधृतिभ्यां समुद्रादुज्जगाम । अर्चन्ती च सा गाथां पपाठ -
तह अच्चिदा सि पव्वदि लच्छीए विविहकुसुममालाहिं ।
अच्चेदु तुअ पसाआ जह कण्हं णअणकमलेहि।।[८]
इत्यनन्तरं परिचरेणार्पिते चित्रे सा कृष्णमपूजयत् । ततो वात्याचक्रेणान्धीकृतदशदिशा वृक्षानुत्पाट्य नभो नयता भीषिता लक्ष्मीः सागरोत्संगं गता।
अथ वृत्ते मन्थने लक्ष्मीः विष्णुमभि, अमृतमसुरानभि, विषं च शिवमभि कृतम्। नाम्ना मोहिनिका कपटकामिनीरूपो हरिरसुरान् प्रवञ्च्य सुधां ग्रहीतुं गरुडेन निपुणिकानाम्ना सख्यानुयातो ययौ। तत्र च बलिः कुजम्भेन परिचरेण सद्वितीयः प्राप्तः । कामिनीं तां प्रेक्ष्योत्कमना स निपुणिकया सूचितः - लक्ष्म्या इयं स्वसेति । पुनश्च तां स्वप्नदृष्टं युवानं प्रत्यासक्तामवोचत् -
अग्धादि करुणअं का झंपवि का मलअगंधवहं।
का जीविदे सतण्हा कलअंठ-कुहू-झुणिं सुणइ॥ [९]
किञ्च, त्वामेव ननु सा स्वप्ने ददति च निशम्य बले रागोऽवर्धत। अत्रान्तरे सुधाप्राशनायाहूतो बलिः । तत्र शुक्राचार्यो बलेर्मुखात् प्रणयवृत्तं श्रुत्वा तं सम्यक् प्रोत्साहितवान् । नेपथ्ये तावदेव श्रुयते स्म - युद्धे दानवाः सर्वे पराजिता देवैः दिशो नीताः, समुद्राच्च लब्धं रत्नजातमाच्छिद्य स्वायत्तीकृतमिति । आकर्ण्य च बलिः सुधाकुम्भं मोहिनिकायां निक्षिप्य देवान् विजिगीषुः स्वसैन्यान् | सर्वाश्च सहायानामन्त्रयांबभूव । सा मोहनिकां सप्रणयमुवाच -
पीयूषमेतद् दयिते गृहाण त्वमेव पीयूषमिदं वृथा मे।
सम्पूर्णकामा कतिचिन्मुहूर्तैः भव प्रिये, यामि रणोत्सवाय।।[१०]
इति कलशमादाय सा द्वित्राणि मुहूर्तानि त्वां प्रतीक्ष्यानागते त्वयि निरुपायमिदं शरीरमग्निसात् करिष्यामीति तं सान्त्वयांबभूव । गते बलौ विलम्बिते च तत्प्रत्यागमने मौहनिकाग्निमाहूय कृततत्प्रवेशनिश्चया बभूव शुक्राचार्येण प्रत्यागमिष्यन्तं बलिं प्रतीक्षितुमुक्तापि मैवं वदाचार्य, इति ब्रुवती प्रवेशं च नाटयन्ती प्रविलुप्ता । शुक्रोऽशोचत् -
धिग् धिक् सुधां वार्धि-विलोडनोत्थां धिग धिक् च तद् दुर्लभ-वस्तु-जातम्।
किं नाम नाप्तं दनुज-प्रवीरैः वैकुण्ठ यत् त्वं महिलाकृतोऽसि॥ [११]
ततः शुकः शिवरूपमात्मनो विधाय विष्णुं प्रति प्रावोचत् -
कृष्ण कृष्ण विलीयन्ते ममाङ्गानि विषोष्मणा।
देहि देहि तदेतन्मे पीयूषं किं विलम्बसे।।[१२]
इति शृण्वन् भगवति शिवे कः कालकूटस्य प्रभाव इति विमृशन् ध्यानेन शुक्रं कपटशिवरूपं जानन् निर्भर्त्स्यापसारयामास हरिः।
अथ समुद्रः शिवेनानुज्ञातो विष्णवे लक्ष्मीः कौस्तुभं च, वरुणाय वारुणीं, सर्पेभ्यो विषमग्नये च पीयूषं विभज्य ददौ।