सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/14

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

(इतः राज्ञः दुराराध्यतायाः वर्णनम् आरभते) [१]

करकटः अवदत् – भयङ्करैः सर्पैः, हिंस्रैः पशुभिश्च आकीर्णाः (व्याप्ताः) पर्वताः भवन्ति। तथा च तत्र नतोन्नतप्रेदशत्वात्, अत्यन्तकठोरजीवनत्वाच्च तस्य आराधनम् अर्थात् पर्वतारोहरणं, तत्र निवासश्च यथा अत्यन्तं दुष्करः भवति, तथैव व्यालैः, (निन्दकैः, खलैः, पिशुनैः, नटैः, विटैः) (व्यालः दुष्टगजे, सर्पे, शठे श्वापदसिंहयोः इति हैमः) गणिकाभिश्च सेवितानां राज्ञाम् आराधना (सेवा) अपि दुष्करा एव भवति।

तथा च – सुखभोगेषु लिप्ताः (सर्पपक्षे – स्थूलशरीरैः युक्ताः), कञ्चुकाः (सर्पपक्षे - कञ्चुकयुक्ताः) अर्थात् सुन्दरैः वस्त्रैः, कवचैः, आभूषणादिभिश्च सुसज्जिताः, कुटिलाः (कपटिनः) (सर्पपक्षे - वक्रगन्तारः), निर्दयिनः (सर्पपक्षे - क्रूराः) राज्ञः अपि सर्पवत् मन्त्रैः अर्थात् मन्त्रणाभिः, राजनैतिककूटनीतिभिः, मन्त्रतन्त्रैः च (सर्पपक्षे – मन्त्रतन्त्रकृतेन औषधेन) वशीभूताः भवन्ति। द्विजीह्वाः (कूटभाषिणः), क्रूरकर्माणः, अनिष्टाः, छिद्रानुसारिणः (अन्येषां दोषाणां द्रष्टारः) सर्पसदृशाः राज्ञः दूरादेव सर्वं पश्यन्ति। अर्थात् अन्येषां मनसः भावम् अवगच्छन्ति।[२] राज्ञः वल्लभाः अपि यदि किञ्चिदपि राज्ञः अपकारं कुर्वन्ति, तर्हि अग्नौ यथा पतङ्गाः दग्धाः भवन्ति, तथा ते पापकर्तारः अपि राजकोपाऽनले स्वयं भस्मीभूताः भवन्ति। सर्वेभ्यः पूजितं, महता कष्टेन प्राप्यं च राजपदं स्वल्पेन अपमानेन (विरुद्धाचरणेन) एव ब्राह्मण्यवत् (ब्रह्मतेजोवत्) ज्वलितं, कुपितं वा भवति। राजलक्ष्याः प्राप्तिः अत्यन्ता कठिना। यदि राजलक्ष्याः प्राप्तिः भवति, तर्हि तस्याः संरक्षणम् इतोऽपि कठिनम्। यथा जलाधारेषु (छिद्ररहितं पात्रं, तडागः, जलबन्धः इत्यादिषु) एव वर्षायाः जलं चिरकालं यावत् स्थिरं भवति, तथैव विवेकिनः राज्ञः आधिपत्ये एव राजलक्ष्मीः चिरकालं यावत् सुस्थिरा भवति।

(सेवया अन्येषु नियन्त्रणं कथम् इति वर्णयति) [३]

दमनकः आह – सत्यम् उक्तम्। राज्ञः सेवाकार्यं कठिनम् अस्ति, किन्तु – येषां पुरुषाणां यथा रुचिः, इच्छा, अभिप्रायः, चित्तवृत्तिः च भवति, तथा अनुकूलाचरणं कुर्वन् बुद्धिमान् मनुष्यः शीघ्रं हि तान् सर्वान् वशीकरोति। अर्थात् यः यथा प्रसन्नः भवति, तथा आचरणं कृत्वा तं प्रसन्नं कर्तुं शक्नुमः। [४] स्वामिनः मनोनुकूलं कार्यमेव सेवकानां 'सद्वृत्तम्' अर्थात् महान् गुणः अस्ति, स एव स्वामिनं वशीकर्तुम् उत्तमः उपायः अस्ति। अनुरूपाचरणनेन राक्षसाः अपि वशीभूताः भवन्ति, तर्हि मनुष्याणां तु किं वक्तव्यम्? राजनि क्रुद्धे जाते सति मृदुमधुरवाक्यप्रयोगः, राज्ञः प्रियजनं प्रति प्रीतप्रदर्शनं, राज्ञः शत्रूणां द्वेषः, राज्ञा दत्तानां पारितोषिकाणां पौनःपुन्येन शंसा च मन्त्रतन्त्रं विना राजानं वशीकर्तुम् सर्वोत्कृष्टाः उपायाः सन्ति।

करकट आह – यदि राज्ञः पिङ्गलकस्य पार्श्वे गन्तुं भवतः एषः अभिप्रायः अस्ति, तर्हि शिवास्ते पन्थानः सन्तु। यथा इच्छति, तथा प्राप्यताम्। परन्तु स्मरतु यत्, राज्ञः समाश्रयणे (सेवायां) सावधानेन भवतु, यतो हि अस्माकं कृते तु भवतः एव आश्रयः अस्ति इति।[५]

सः दमनकोऽपि तं प्रणम्य पिङ्गलकस्य राजद्वारं प्रविष्टवान्। आगच्छन्तं दमनकम् आलोक्य पिङ्गलकः द्वाःस्थम् (द्वारपालं) अवदत् – अपसार्यतां वेत्रलता। अयम् अस्माकं चिरन्तनः (पुरातनः) मन्त्रिपुत्रः दमनकः अस्ति। सः अव्याहतप्रवेशः, तस्य द्वितीयमण्डले (अनुयायिमण्डले) प्रवेशार्हता वर्तते। तत्प्रविश्यताम् (तत्रासनं देहि) इति। द्वारपालोऽपि विनम्रतया प्रत्युदतरत् यत्, यथा भवान् आदिष्टवान् तथा करोमि इति। ततः प्रविष्टः दमनकः पिङ्गलकं प्रणम्य, आसनग्रहणस्य आज्ञां प्राप्य च निर्दिष्टे आसने उपविष्टः।

सः पिङ्गलकः अपि नखरूपिणः कुलिशेन (वज्रेण) अलङ्कृतं दक्षिणहस्तं तस्य शिरसि निधाय मानपूर्वकम् अवदत् – भवान् कुशली खलु? बहुभ्यः दिनेभ्यः अनन्तरं दृष्टः? अत्र न आगमनस्य कारणं किम्? इति।

दमनकः आह – यद्यपि देवपादानाम् (श्रीमतः) भवतः अस्माभिस्सह प्रयोजनं नास्ति, अर्थात् भवान् अस्मान् न स्मरति, तथापि अहं देवपादेन सह काञ्चन प्रासङ्गिकचर्चां कर्तुम् उपस्थितः। यतो हि उत्तम-मध्यम-अधमैः जनैः सह राज्ञः किमपि प्रयोजनं न भवति, परन्तु तेषां त्रयाणाम् अपि राज्ञा सह तु प्रयोजनं भवत्येव। उक्तञ्च – दन्तेषु आसक्तम् उच्छिष्टं निष्कासनाय, कर्णस्य कण्डूयनार्थं च उपयोगि तृणम् अपि महाराजस्य (भवतः) कार्यं साधयति, तर्हि वाणी, हस्तौ, पादः इत्यादिभिः युक्तस्य पुरुषस्य तु आवश्यकता भवत्येव।[६]

(भृत्यस्य कार्यनियोजनं विचिन्त्य करणीयम् इति परामर्शयति।)[३]

तथा च – वयं तु देवपादानां (भवतः) अन्वयाऽऽगताः (वंशपरम्परया) भृत्याः आपत्सु अपि पृष्ठगामिनः स्मः। यद्यपि स्वस्य अधिकारं (वंशपरम्परायां प्राप्तं मन्त्रिपदम्) न लभामहे, तथापि भवतः कृते एतत् युक्तं न भवति। उक्तञ्च – भृत्यानाम्, आभूषणानां च यथास्थाने नियोजनं धारणं वा चिन्तनीयम्। "अहं यत्किमपि कर्तुं समर्थः" इति विचिन्त्य कोऽपि मनुष्यः चूडामणिं चरणे न धारयति। अर्थात् यस्य यत् स्थानं भवति, तत्र तस्य नियुक्तिः करणीया।[७] यतो हि – यः स्वामी भृत्यानां गुणानाम् औचित्यम् अदृष्ट्वा तेषां सम्माननं न करोति, तेन धनिना, कुलीना, कुलक्रमागतेन स्वामिना सह अपि भृत्याः सहयोगं न कुर्वन्ति, आपत्काले च सर्वे भृत्याः तं त्यक्त्वा गच्छन्ति। उक्तञ्च – यदि स्वस्य योग्यभृत्येन सह अयोग्यभृत्यसदृशं व्यवहारं करोति, समानगुणयुक्तेषु भृत्येषु तस्य गणनां न करोति, उपस्थितस्य भृत्यस्य योग्यतायां सत्याम् अपि तस्य उचिते कार्ये नियोजनं न करोति च, तर्हि तं स्वामिनं भृत्याः यथासमयं त्यजन्ति।[८]

यच्च – यः राजा स्वस्य विवेकहीनतायाः कारणेन उच्चपदेभ्यः योग्यानां सेवकानाम् अपि निम्नपदेषु नियुक्तं करोति, ते योग्याः सेवकाः तस्मिन् अयोग्ये पदे स्थित्वापि किञ्चित् स्वस्य दायित्वं वहन्ति उत दायित्वमुक्ताः भवन्ति। तत्र तेषां भृत्यानां दोषः न, अपि तु तस्य अविवेकिनः राज्ञः एव दोषः भवति। उक्तञ्च – सुवर्णस्य सुन्दरे आभूषणेषु (कण्ठाभरणं, नूपुरं, अङ्गूलीयकम् इत्यादिषु) सङ्ग्रहणीयान् बहुमूल्यान् मणीन् कश्चन अविवेकी पुरुषः त्रपुणिनि (Tin, राँगा, કલાઈ) संयोजयति चेत्, मणिः "माम् एतादृशे तुच्छे धातौ किमर्थं स्थापितः" इति न प्रतिरोधयति, तत्र तस्य मणेः अशोभा अपि न भवति। परन्तु अनेन कार्येण तस्य योजयितुः वचनीयता (निन्दा) भवत्येव।[९]

(इतः राजभृत्ययोः मध्ये सम्बन्धस्य विवेकजन्यं वृत्तम् आरभते।)[३]

भो स्वामिन् भवान् अवदत् यत्, " बहुभ्यः दिनेभ्यः अनन्तरं दृष्टः?" इति, तदपि श्रूयताम् – यत्र सव्यासव्ययोः (वामदक्षणिहस्तयोः - योग्यायोग्ययोः) कोऽपि भेदः न परिपाल्यते, तत्र (तस्य अविवेकिनः स्वामिनः सान्निध्ये) आश्रयान्तरान्वेणसक्षमः सज्जनः क्षणमात्रम् अपि किमर्थं तिष्ठेत्? [१०] तथा च – यः स्वामी काचखण्डे मणिं पश्यति, मणिं च काचत्वेन स्वीकरोति, तेन स्वामिना सह कोऽपि भृत्यः कार्यं न करोति। यस्मिन् देशे रत्नानां परीक्षणाय सुवर्णकाराः न सन्ति, तत्र समुद्राद्दुत्पन्नानां बहुमूल्यरत्नानां सम्माननं, योग्यमूल्याङ्कनं च न भवति। आहीरदेशे (सिन्ध-बलुचिस्तान-कच्छ-भुज-काठियावाड-आदिः प्रदेशः) आभीरैः (गोपाभिः) 'चद्रकान्त'-नामकस्य (Moonstone (gemstone)) बहुमूल्यरत्नस्य तिसृणां कपर्दिकानां (cowry - कौड़ी) कृते क्रयणं, विक्रयणं च भवति। यत्र लोहतमणौ (रक्तवणीयः काचः) (Sandstone), पद्मरागमणौ (मणिक-मणौ - ruby) च भेदः नावगम्यते, तत्र रत्नानां विक्रयणं कथं शक्यते।

यदा स्वामी योग्यायोग्ययोः विचारम् अकृत्वा सर्वेषु भृत्येषु समानतया व्यवहारं करोति, तदा उत्साही, कठिनतमपरिश्रमी, कुशली च भृत्यः निरुत्साही भवति। यतो हि "विशेषे कार्ये कृते सत्यपि अकर्मण्यैः भृत्यैः सह यथा व्यवहारः भवति, तथैव मया सह अपि भवति। अतः विशेषेण कार्ये न कोऽपि लाभः नास्ति" इति सः चिन्तयति।[११] न तु राजा भृत्यविहीनः स्थातुं शक्नोति, न च भृत्यः राज्ञा विना। अतः राजभृत्ययोः व्यवहारः अन्योन्याश्रितः वर्तते। यथा तेजस्वी सूर्यः अपि लोकोपकारकैः विस्तृतैः स्वकरिणैः विना न शोभते, तथैव तेजस्वी राजा योग्यैः, लोकहितचिन्तकैः भृत्यैः विना न शोभते। यथा रथस्य चक्रयोः मध्ये स्थितायाः गोलाकारधुर्याः छिद्रे चक्राणाम् अराः (spoke) सँल्लग्नाः भवन्ति, तान् अरान् परितः धुरी च संलग्ना भवति, तथैव राज्ञः, भृत्यस्य च अन्योन्याश्रयेण वृत्तिचक्रं (लोकव्यवहारः) प्रचलति। केशाः अपि ये सर्वदा शिरसि एव धार्यन्ते, ते अपि स्नेहेन (तैलेन) विना विकृतवर्णाः भवन्ति। तर्हि सेवकः स्वामिनः स्नेहम् अप्राप्य विरक्तः भवति चेत्, किं तत्र आश्चर्यम्? [१२]

राज्ञः तु प्रसन्नावस्थायां भृत्याय केवलं धनं दत्त्वा सीमितः भवति। परन्तु प्राप्तसम्मानाः भृत्याः तु राज्ञः, राज्यस्य च कृते स्वप्राणानाम् आहूतिम् अपि यच्छन्ति। उक्तानां चर्चानां विषये विचिन्त्य एव राज्ञैः बुद्धिमन्तः, कुलीनाः, शूराः, वीराः, कार्यकरणक्षमाः, स्वामिभक्ताः, कुलक्रमागताः च भृत्याः स्वसेवायां नियोजनीयाः।[१३]

(राज्ञः विश्वासुः भृत्यः कः इत्यस्य परीक्षणाय लक्षणानि आरभन्ते)[१४]

यः पुरुषः स्वस्य स्वामिनः हिताय कठिनतराणि कार्याणि कृत्वा अपि अत्यन्तं विनम्रः, लज्जायुक्तः भूत्वा स्वपराक्रमस्य गानम् अकृत्वा मौनेन एव तिष्ठति, स एव भृत्यः वास्तविकः सेवकः, सहायकश्च भवति।[१५] यस्मिन् पुरुषे राज्यस्य सर्वं दायित्वं त्यक्त्वा राजा निःशङ्कः भवितुम् अर्हति, सः भृत्यः तस्य अपरं कलत्रम् इव हितकारी भवति। अर्थात् यथा राजा स्वस्य गृहस्य सर्वं दायित्वं स्वस्य भार्यायै दत्त्वा निःशङ्कः भवति यत्, 'एषा मम गृहस्य अहितं न करिष्यति' इति, तथैव यस्मिन् भृत्ये राजा राज्यस्य भारं दत्त्वा निःशङ्कः भवति, स एव वास्तविकः सेवकः।[१६] यः पुरुषः राज्ञा अनाहूतः सन् सेवायाम् उपस्थितः भवति, पृष्टे सति सत्यं किन्तु परिमितं (स्वल्पं) वदति च, तादृशः भृत्यः एव राजभ्यः योग्यः भवति। यः पुरुषः राज्ञः कर्मणां हानिं दृष्ट्वा राज्ञः आज्ञाम् अप्राप्य अपि हानिकरकार्यं स्थगयति, तादृशः भृत्यः एव राजभ्यः योग्यः भवति।[१७] यः पुरुषः राज्ञः शारीरिकं दण्डं (ताडनादिकं), वाग्दण्डं (भर्त्सनादिकं), अर्थदण्डं (शास्तीत्यादिकं - penalty) च प्राप्य अपि राज्ञं प्रति अनिष्टचिन्तनं (evil) न करोति, तादृशः भृत्यः एव राजभ्यः योग्यः भवति।

यः पुरुषः राज्ञः सम्मानम् उत अपमाननं प्राप्य क्रमेण गर्वितः, दुःखितः वा अभुत्वा मनोभावान् किञ्चिदपि न प्रकटयति, तादृशः भृत्यः एव राजभ्यः योग्यः भवति।[१८] यः पुरुषः बुभुक्षा-निद्रा-शीत-आतपादिभ्यः पीडितः अभूत्वा अर्थात् तेभ्यः अप्रभावितः निःसङ्कोचेन प्रवृत्तः सन् कार्यं सम्पादयति, तादृशः भृत्यः एव राजभ्यः योग्यः भवति।[१९] यः पुरुषः समीपस्थे भविष्ये स्वामिना क्रियमाणस्य युद्धस्य चर्चां श्रुत्वा अपि प्रसन्नमुखः, उत्साहितः च भवति, तादृशः भृत्यः एव राजभ्यः योग्यः भवति। यस्य पुरुषस्य (मन्त्री, सेनापितः, अधिकारी इत्यादीनां) पदारूढे सति शुक्लपक्षस्य चन्द्रमोवत् स्वामिनः सीमावृद्धिः भवति, तादृशः भृत्यः एव राजभ्यः योग्यः भवति।[२०] यस्य पुरुषस्य (मन्त्री, सेनापितः, अधिकारी इत्यादीनां) पदारूढे सति वह्नौ आहूतस्य चर्मणः समानं सीमायाः सङ्कोचनं भवति, तादृशस्य भृत्यस्य राज्ञा तत्कालमेव पदनिवृत्तिः करणीया।[२१]

(इतः गुणिनां गुणैः स्वतः प्रसिद्धिः भवति इति बोधति)[२२]

यदि "एषः तु शृगालः अस्ति" इति विचिन्त्य भवान् मम तिरस्कारं कुर्वन् अस्ति, तर्हि तन्नोचितम्। यतो हि – कौशेयं कृमेः, उपलात् (पाषाणात्) सुवर्णं, गोरोमतः (गोः केशेभ्यः) दूर्वा, पङ्कात् (Mud) तामरसं (Chrysanthemum) (रक्तवर्णीयं कमलपुष्पं), समुद्रात् चन्द्रमा, गोमयात् इन्दीवरं (नीलकमलं - Nymphaea nouchali), काष्ठात् अग्निः, विषधारात् सर्पात् मणिः, गोः पित्तात् गोरोचना (अतीवमहत्त्वपूर्णः कश्चन पदार्थविशेषः। अस्य अपरं नाम रोचना, तस्य पीतवर्णः भवति।)[२३] चोत्पद्यन्ते। एतेषां सर्वेषां वस्तूनां च सर्वैः सत्पुरुषैः सत्कारपूर्वकं ग्राह्यता स्वीकृता। अतः गुणवतः ख्यातिः तस्य गुणानाम् उदयेन (विकासेन) भवति, न तु तस्य जन्मना सह कोऽपि सम्बन्धः वर्तते। अर्थात् शृगालयोनौ उत्पन्नोऽहं स्वगुणत्वात् सम्मानाधिकारी अस्मीति।[२४]

तथा च – स्वगृहे जन्म प्राप्तवतीं स्वस्य अपकारिणीं मूषिकाम् अपि जनाः गृहात् अपधावयन्ते (भगा देते हैं)। प्रत्युत मूषकादीनाम् उपद्रवात् संरक्षणदातारं माजारं गृहान्तारादपि आनीय दुग्धादिकं सुभक्ष्यं प्रदाय स्वगृहे रक्षन्ते। अर्थात् उपकारापकराभ्याम् एव अनुरागविरगौ, न सम्बन्धितया इति।[२५] यथा एरण्डस्य (Castor), भिण्डस्य (Okra), अर्कस्य (Calotropis gigantea (Crown flower)) च अनेकेषां नडानां (काण्डः काष्ठः वा) राशेः एकत्रीकरणे सत्यपि स्तरम्भस्य, कपाटादीनां च निर्माणं न शक्यते, तथैव गुणविहीनानां मूर्खाणां समुदायाद् अपि कोऽपि लाभः न भवति।[२६] यदि कश्चन स्वामिभक्तः अस्ति, परन्तु किमपि कार्यं कर्तुम् असमर्थः अस्ति उत कार्याय सर्वथा अयोग्यः अस्ति, तर्हि तेन को वा लाभः? तथा च यः सर्वं कार्यं साधयितुं सक्षमः अस्ति, परन्तु सः स्वामिभक्तः नास्ति चेत्, तेनापि कोऽपि लाभः न भवति।[२७] परन्तु हे स्वामिन्! अहं तु भवतः सर्वं कार्यं साधयितुं समर्थः अस्मि, अतः भवता मे तिरस्कारः अनुचितः एव।

तदा पिङ्गलकः आह - अस्तु, त्यजतु अन्यां वार्ताम्। भवान् समर्थः उत असमर्थः, परन्तु अस्माकं प्राचीनमन्त्रिणः पुत्रः अस्ति। अतः भवान् यत्किमपि वक्तुम् इच्छति, तत् निर्भयो भूत्वा कथयतु।

(मन्त्रणाकाले ध्यातव्यान् विषयान् कथयति)[२८]

ततः दमनकः आह – देव! अहं किमपि निवेदयितुम् इच्छामि। ततः "तर्हि यत् वक्तुम् इच्छति, तत् कथयतु" इति पङ्गलस्य प्रत्युत्तरोत्तरं दमनकः आह – बृहस्पतेः मतम् अस्ति यत्, राज्ञः महत्त्वरहितस्य कार्यस्यापि सभायाम् उल्लेखः न करणीयः इति। अतः अहं यत्किमपि वक्तुम् इच्छामि, तत् सर्वम् ऐकान्तिके भवान् शृणोति चेत्, उत्तमम्। यतो हि – मन्त्रः (मन्त्रणा, परामर्शः वा) यावता चतुर्षु कर्णेषु एव भवति अर्थात् उभयोः जनयोः मध्ये भवति, तावता स्थिरो (गुप्तः) भवति। परन्तु षड्षु कर्णेषु अर्थात् त्रिषु जनेषु गतः मन्त्रः तु अगुप्तः सर्वत्र प्रकटितः भवति। अतः बुद्धिमान् मनुष्यः स्वमन्त्रणां चतुष्कर्णेषु रक्षेत्।[२९]

तदनन्तरं पिङ्गलकस्य अभिप्रायं बुद्ध्वा व्याघ्र-द्वीपि(चित्रकः उत युयुक्खुरः)-वृकाः सर्वेऽपि तत्क्षणं प्रस्थिताः। केचन मौर्ख्यं प्रदर्श्यन्तः तत्र स्थिताः आसन्, तान् द्वारपालाः बहिः प्रेषितवन्तः। एवं यदा एकान्तः सम्प्राप्तः, तदा दमनकः उपस्थापयति यत् – हे महाराज! भवान् युमुनाजलस्य पीपासायां सत्यां यमुनातीरं सम्प्राप्तः, परन्तु जलपानम् अकृत्वैव निवृत्य अत्र अवस्थितः। एतस्य किं कारणम् अस्ति? तदा पिङ्गलकः स्वस्य मनोभावान् गोपयितुं प्रसन्नमखी सन् सलज्जः अवदत् – नैव किमपि नास्ति।

ततः दमनकः अवदत् - महाराज! यदि एषः विषयः मया सह चर्चायोग्यः नास्ति, तर्हि त्यजतु। न कापि बाधा। यतो हि उक्तञ्च – केचन विषयाः भवन्ति, ये स्वस्य दाराः, मित्राणि, बान्धवाः, पुत्राः इत्यादिभ्यः स्वजनेभ्यः गोपनीयाः भवन्ति। अतः यदि कश्चन आप्ततमः जनः गुप्तविषयं ज्ञातुम् अनुरोधम् अपि कुर्यात्, तर्हि अपि बुद्धिमान् पुरुषः उचितानुचितयोः विचारं कृत्वैव गुप्तविषयम् उपस्थापयेत्।[३०]

दमनकस्य एतद्वचनं श्रुत्वा पिङ्गलकः चिन्तनम् आरभते यत्, एषः तु चतुरः, योग्यः च प्रतीयते। अतः एतस्य सम्मुखं स्वमनोभावस्य प्रकटनेन काऽपि हानिः नास्ति इति। उक्तञ्च – अभिन्नहृदयं मित्रं, गुणवन्तं सेवकम्, अनुकूलं कलत्रं (स्त्रियं), सौहार्दं (प्रेमिणं), दयावन्तं स्वामिनं च मनसः दुःखम् उक्त्वा मनुष्यः सुखी भवति।[३१] एवं विचिन्त्य सः पिङ्गलकः दमनकस्य सम्मुखं क्रमेण स्वविचारान् उपस्थापयति। सः अवदत् यत्, हे दमनक! भवान् एनं शब्दं शृणोति? "महाराज! श्रुण्वन् अस्मि। किन्तु अनेन ध्वनिना भवतः कः सम्बन्धः?" इति दमनकः प्रत्युदतरतम्। तदा पिङ्गलकः अवदत् यत्, अहम् एतत् वनं त्यक्त्वा अन्यत्र गन्तुं नेच्छामि। "हे महाराज! भवान् एवं किमर्थं वदित?" इति दमनकः साश्चर्यम् अपृच्छत्। पिङ्गलकः अवदत् - यतो हि प्रतीयते यत्, अद्य अस्माकं वने कश्चन अपूर्वः भयङ्करः जीवः उत राक्षसः सम्प्राप्तः अस्ति। तस्य एव एषः भीषणः ध्वनिः वर्तते। यावान् भीषणः एतस्य ध्वनिः अस्ति, तावान् भयङ्करः सः जन्तुः अपि स्यात्। यावान् भयङ्करः सः जन्तुः स्यात्, तावान् बली, पराक्रमी च सः स्वयम् अपि स्यादेव इति।

(भयकाले कापुरुषस्य, वीरपुरुषस्य च व्यवहारः कीदृशः भवति इति उपस्थापयति) [३२]

ततः दमनकः अवदत् – भवान् केवलं शब्दं श्रुत्वैव भयभीतः अभवत् इत तु न युक्तम्। यतो हि उक्तमस्ति – जलप्रवाहस्य वेगात् सेतुः भिद्यते (भग्नः भवति), अरक्षणत्वात् मन्त्रः (गुप्तः विषयः) नष्टः भवति, पिशुनस्य जनस्य पैशुन्येन प्रेम नष्टं भवति, आतुरः पुरुषः (कापुरुषः) केवलं शब्दं श्रुत्वैव पलायते उत निग्रहीतुं शक्यते। अतः पूर्वपुरुषैः उपार्जितस्य, कुलक्रमागतस्य शासनस्य (वनस्य) भयवशात् उत सहसा त्यागः स्वामिनः कृते (भवतः कृते) कथमपि उचितः नास्ति। यतो हि – भेरी, वंशी, वीणा, मृदङ्गः, करतालः, पटहः, शङ्खः, काहलः इत्यादीनां वाद्यविशेषाणां भेदत्त्वात् विभिन्नप्रकारकाः शब्दाः उत्पद्यन्ते। अतः केवलं शब्दमात्रं श्रुत्वा भवता भयभीतेन न भवितव्यम्। उक्तं च – अत्यन्तं बलवन्तं, क्रूरं (दुष्टं, निर्दयिनं) च शत्रुं सम्मुखं दृष्ट्वा अपि यस्य राज्ञः धैर्यं, साहसं च नष्टं न भवति अर्थात् यः राजा भयभीतः सन् किङ्कर्तव्यविमूढः न भवति, प्रत्युत सोत्साहं शत्रोः अभिमुखः भवति, तस्य राज्ञः कदापि पराजयः न भवति। तथा च – साक्षात् विधात्रा (ब्रह्मणा - विधिना) अपि प्रदर्शितात् भयात् धीरः पुरुषः भीतः न भवति। पश्यतु ! तडागः, सरः इत्यादयः सर्वेऽपि जलाशयाः ग्रीष्मर्तौ शुष्काः भवन्ति, परन्तु समुद्रः तु तस्याम् ऋतौ इतोऽपि प्रचण्डं रूपं धरते।[३३] यतो हि सामान्यतः ग्रीष्मर्तौ एव समुद्रेषु झञ्झावाताः समुद्भवन्ति।[३४][३५] [३६] [३७]

तथा च – यः पुरुषः विपत्तौ विषादं, दुःखं च, सम्पतौ हर्षं, युद्धे भयं च न प्राप्नोति, तादृशं त्रिलोकभूषणं काचित् विरला माता एव जनयति। अर्थात् एतादृशाः जनाः न्यूनाः एव भवन्ति। तथा च – बलं, पौरषं, पराक्रमः इत्येतेषाम् अभावत्वात् अर्थात् शक्तिवैकल्यात् नम्रतां प्रदर्शयतः, अन्तःसारशून्यतायाः (अवसाद - Depressed) कारणेन लाघवम् अनुभवतः मानहीनस्य च मनुष्यस्य अवस्था तृणवत् भवति।[३८] अपि च – अन्येषां (शत्रूणां) प्रतापं (पराक्रमं, आत्मविश्वासं) दृष्ट्वा यः पुरुषः दृढः (सशक्तः, आत्मविश्वासुः) न भवति, प्रत्युत भयभीतः सन् लाघवम् अनुभवति, तस्य रूपवतः (पुरुषवत् धृतरूपस्य) पुरुषस्य स्वरूपं जतुना (लाक्षया) निर्मितस्य आकर्षकाभूषणस्य सदृशं निष्प्रयोजनम् एव भवति। एवं विचिन्त्य भवता धैर्यं धारयणीयम्। केवलं शब्दमेव श्रुत्वा भयं सर्वथा अनुचितम् अस्ति। काचित् उक्तिः वर्तते यत्, एषा भेरी मेदसा (मांसरुधिरादिना) पूर्णं स्यात् इति अहं चिन्तयन् आसं, परन्तु यदा अन्तः प्रविष्टः, तदा एतस्य रिक्तता अवगता। अर्थात् उपरिष्टात् चर्मणः आविष्टायाः तस्याः भेर्याः अन्तः तु केलवं यष्ट्यः सन्ति इति ज्ञातवान्। एतच्छ्रुत्वा पिङ्गलकः अपृच्छत् यत्, एतस्याः उक्त्याः पृष्ठे का कथा वर्तते? इति। ततः दमनकः गोमायुदुन्दुभिकथाम् आरभते।

गोमायुदन्दुभिकथा[सम्पादयतु]

कुत्रचित् गोमायु-नामकः शृगालः बुभुक्षया त्रस्तः वनेषु इतस्ततः भ्रमन् आसीत्। तदा सः किञ्चन युद्धस्थलम् अपश्यत्। तस्य युद्धस्थलस्य कस्यचित् वृक्षस्य शाखाः अधः स्थिते दुन्दुभौ आघातं कुर्वत्यः आसन्। तेन आघातेन उद्भूतं शब्दं श्रुत्वा शृगालः भयेन स्थानान्तरं गन्तुं चिन्तयति। परन्तु ततः सः चिन्तयति यत्, यः मनुष्यः भयस्य उत हर्षस्य स्थितौ कर्तव्याकर्तव्ययोः चिन्तनं करोति, सहसा च कामपि प्रतिक्रियां न करोति, सः कदापि सन्तापं (दुःखं) न प्राप्नोति। अर्थात् तस्मिन् काले विवेकेन यः कार्यं करोति, सः सर्वदा सुखं प्राप्नोति।[३९] अतः अहं गवेषयामि यत्, एषः शब्दः कस्य इति। चर्मणा अवगुष्ठितं दुन्दुभिं सः मांसेन परिपूर्णं परिकल्पयति। ततः महता परिश्रमेण सः चर्मच्छेदनं कृत्वा दुन्दुभौ प्रविशति। परन्तु किमपि भोजनम् अप्राप्तः दन्तभङ्गः सः निराशः भवति।

उक्तायाः कथायाः माध्यमेन दमनकः पिङ्गलकं परामर्शति यत्, केवलं शब्दमात्रं श्रुत्वा भयभीतेन न भवितव्यम् इति। एतच्छ्रुत्वा पिङ्गलकः कथयति यत्, भोः! पश्य! एषः मम परिग्रहः (अनुयायिवर्गः, मन्त्रिकर्मचार्यादयः) भयेन व्याकुलः जिगमिष्यमाणः अस्ति। एतादृश्यां स्थित्याम् अहं धैर्यावष्टम्भं (धैर्यधारणं) कथं करवाणि? दमनकः प्रत्युदतरत्, हे स्वामिन्! अत्र भवतः परिग्रहस्य दोषः न, अपि तु भवतः एव दोषः। परिग्रहः तु स्वामिवदेव भवति। भवान् भयभीतः अस्ति, अतः भवतः अनुयायिनः अपि भयातुराः सन्ति। भवान् यदि निर्भयः भवेत्, तर्हि तेऽपि भयं त्यक्ष्यन्ति। यतो हि उक्तम् अस्ति यत् – अश्वः, शस्त्रं (अस्यादीनि), शास्त्रं (राजनीत्यादीनि), वीणा, वाणी, नरः (भृत्यादयः), स्त्री इत्येते सर्वेऽपि यस्य पुरुषस्य पार्श्वे भवन्ति, तस्य पुरुषस्य अनुसारं तेऽपि योग्याः, अयोग्याः च भवन्ति। अर्थात् योग्यस्य स्वामिनः सान्निध्ये योग्यः, अयोग्यस्य सान्निध्ये च अयोग्यः।

(कठिनसरलकार्ययोः भृत्यस्य स्थितिं वर्णयति) [३२]

अतः त्वं पौरुषं धृत्वा स्वस्य बलस्य अवष्टम्भं (अवलम्बनं) कुरु। यावता अहम् एतस्य शब्दस्य कारणं ज्ञात्वा प्रत्यागच्छामि, तावता अत्रैव स्थित्वा प्रतिक्षस्व। ततः यद् ईष्टं मंस्यसे, तत् कुर्याः इत्युक्त्वा दमनकः विरमति। ततः पिङ्गलकः साश्चर्यं पृच्छति यत्, किं भवान् तत्र गन्तुम् उत्सहते (साहसं करिष्यति)? इति श्रुत्वा दमनकः अवदत् – हे स्वामिन्! स्वाम्याज्ञां प्राप्य सुभृत्यस्य कृते किमपि कार्यम् अकरणीयं भवति वा? अर्थात् आदिष्टं कठिनतमं कार्यम् अपि कर्तुं सुभृत्यः तत्परः भवति। उक्तञ्चास्ति – योग्यः भृत्यः किमपि कार्यं कर्तुं किञ्चिदपि भयं न करोति। किन्तु स्वस्य स्वामिनः आज्ञां पालनाय सः सर्पस्य मुखे अपि हस्तं स्थापयति, दुस्तरं समुद्रम् अपि लङ्घयति च। तथा च – यदि स्वामिनः आज्ञां प्राप्याऽपि यः भृत्यः "एतत् कार्यं तु सरलम्", "एतत् कार्यं तु कठिनं" चेति चिन्तयति, तर्हि सम्पत्तिविकासस्य इच्छुकः स्वामी तादृशं भृत्यं निवृत्तं कुर्यात्।

पिङ्गलकः अवदत् – हे भद्र! यदि एवम् अस्ति (त्वं तस्य शब्दस्य समीपं गन्तुकामाः), तर्हि गच्छ। शिवास्ते पन्थानः सन्तु इति। दमनकोऽपि तं प्रणम्य अज्ञातस्य शब्दस्य (सञ्जीवकस्य) अनुसरणं कुर्वन् ततः निर्गतः।

  1. पञ्चतन्त्रं, श्लो. ६८-७३
  2. द्वि-जिह्वाः क्रूर-कर्माणो निष्ठाश् छिद्रानुसारिणः। दूरतोऽपि हि पश्यंति राजानो भुजगा इव॥पञ्च_१.७०॥
  3. ३.० ३.१ ३.२ पञ्चतन्त्रं, श्लो. ८२-९३
  4. यस्य यस्य हि यो भावस्तेन तेन समाचरेत् ।
    अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥१.७४॥
  5. त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः
  6. दन्तस्य निष्कोषणकेन नित्यं, कर्णस्य कण्डूयनकेन वापि ।
    तृणेन कार्यं भवतीश्वराणां, किमाङ्ग वाग्घस्तवता नरेण ॥१.७७॥
  7. अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते ।
    धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥१.७९॥
  8. असमैः समीयमानः समैश्च, परिहीयमाणसत्कारः ।
    धुरि यो न युज्यमानस्त्रिभिर्, अर्थपतिं त्यजति भृत्यः ॥१.८०॥
  9. कनकभूषणसङ्ग्रहणोचितो, यदि मणिस्त्रपुणि प्रतिबध्यते ।
    न स विरौति न चापि स शोभते, भवति योजयितुर्वचनीयता ॥१.८१॥
  10. सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
    कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्भवेत् ॥१.८२॥
  11. निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
    तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥१.८६॥
  12. शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
    केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥१.९०॥
  13. पञ्चतन्त्रम्, मित्रभेदः, श्लो. ८२-९२
  14. पञ्चतन्त्रम्, मित्रभेदः, श्लो. ९३-१०२
  15. यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् ।
    लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥१.९३॥
  16. यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा ।
    आस्यते सेवकः स स्यात्कलत्रमिव चापरम् ॥१.९४॥
  17. अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
    यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥१.९६॥
  18. न गर्वं कुरुते माने नापमाने च तप्यते ।
    स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥१.९८॥
  19. न क्षुधा पीड्यते यस्तु निद्रया न कदाचन ।
    न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥१.९९॥
  20. सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट् ।
    नियोगसंस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ॥१.१०१॥
  21. सीमा संकोचमायाति वह्नौ चर्म इवाहितम् ।
    स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥१.१०२॥
  22. पञ्चतन्त्रं, मित्रभेदः, श्लो. १०३-१०६
  23. गोरोचनायाः विवरणम्
  24. कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः,
    पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
    काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना,
    प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१.१०३॥
  25. मूषिका गृहजातापि हन्तव्या स्वापकारिणी ।
    भक्ष्यप्रदानैर्माजारो हितकृत्प्रार्थ्यतेऽन्यतः॥१.१०४॥
  26. एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः ।
    दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥१.१०५॥
  27. किं भक्तेनासमर्थेन किं शक्तेनाऽपकारिणा?। भक्तं, शक्तं च मां राजन् नावज्ञातुं त्वमर्हसि॥पञ्च_१.१०६॥
  28. पञ्चतन्त्रं, मित्रभेदः, श्लो. १०७-११०
  29. षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
    तस्मात्सर्वप्रयत्नेन षट्कर्णं वर्जयेत्सुधीः ॥१.१०८॥
  30. दारेषु किञ्चित्स्वजनेषु किञ्चिद्,
    गोप्यं वयस्येषु सुतेषु किञ्चित् ।
    युक्तं न वा युक्तमिदं विचिन्त्य,
    वदेद्विपश्चिन्महतोऽनुरोधात् ॥१.१०९॥
  31. सुहृदि निरन्तरचित्ते गुणवति भृत्येऽनुवर्तिनि कलत्रे ।
    स्वामिनि सौहृदयुक्तं निवेद्य दुःखं सुखी भवति ॥१.११०॥
  32. ३२.० ३२.१ पञ्चतन्त्रं, मित्रभेदः, श्लो. ११९-१२१
  33. दर्शित-भयेपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम्। शोषित-सरसि निदाघे नितराम् एवोढतः सिंधुः॥पञ्च_१.११३॥
  34. Stan Goldenberg (2004-08-13). "Frequently Asked Questions: What is an extra-tropical cyclone?". Atlantic Oceanographic and Meteorological Laboratory, Hurricane Research Division. Retrieved 2007-03-23. 
  35. Kerry Emanuel (January 2006). "Anthropogenic Effects on Tropical Cyclone Activity". Massachusetts Institute of Technology. Retrieved 2008-02-25. 
  36. Raymond D. Menard; J.M. Fritsch (June 1989). "A Mesoscale Convective Complex-Generated Inertially Stable Warm Core Vortex". Monthly Weather Review 117 (6): 1237–1261. Bibcode 1989MWRv..117.1237M. doi:10.1175/1520-0493(1989)117<1237:AMCCGI>2.0.CO;2. 
  37. Glenn Elert (2006). "Density of Air". The Physics Factbook. Retrieved 2010-01-01. 
  38. शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
    जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥१.११५॥
  39. भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत्। कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात्॥पञ्च_१.११८॥