सनकादयः
सनकादयः | |
---|---|
सनकः चलनदेवता, सनन्दनः प्रवचनदेवता, सनातनः गौरवस्य देवता, सनत्कुमारः तपसः देवता। | |
अन्यनामानि | सनत्कुमाराः |
सम्बन्धः | देवर्षयः |
गृहाणि | ब्रह्मलोकः |
व्यक्तिगतविवरणम् | |
पितरौ | ब्रह्मा (पिता) गायत्री (माता) |
सहोदराः | चित्रगुप्तः,नारदः and दक्षः |
बालकरूपेण आविश्वं भ्रमणं कृतवन्तः ऋषयः सनत्कुमाराः इति पुराणेषु प्रसिद्धाः[१][२] । सनकः सनातनः, सनन्दनः सनत्कुमारः इति तेषां नामानि। ब्रह्मणः प्रथममानसपुत्राः इमे इति ख्याताः। स्वपितुः आज्ञाम् उल्लङ्घ्य चत्वारः अपि आजीवनं ब्रह्मचर्यं पालितवन्तः। कामपि लालसां विना एव धर्ममार्गं बोधयितुम् एते विश्वपर्यटनम् अकुर्वन्। बाल्ये एव एते समग्रं वेदम् अधीतवन्तः आसन्।.[१] [३]
सनत्कुमाराः कृष्णस्य द्वादशसु भक्तसु अन्यतमाः इति भागवते उल्लेखः वर्तते। ते तु जीवन्मुक्तिम् प्राप्तवन्तः। सनत्कुमाराः विष्णोः एव अंशाः इत्यपि उल्लेखः विद्यते.[४]। कुत्रचित् शिवस्य अवताराः सनत्कुमाराः इत्यपि उक्तं दृश्यते।
नामानि
[सम्पादयतु]चतुर्णां सनकादीनाम् बहुविधैः नामभिः प्रसिद्धिः वर्तते। कुमाराः, चतुःसनाः, चतुर्सनाः, सनकादयः इत्यादीनि नामानि ख्यातानि। सनकः, सनातनः, सनन्दनः, सनत्कुमारः इति प्रतिऋषि नाम। सनातनस्यैव सनत्सुजातः इति नामान्तरम्। रिभुनामा पञ्चमोऽपि कुमारः कदाचित् योज्यते। सननामकस्य षष्ठस्यापि कुमारस्य क्वचिदुल्लेखः दृश्यते[५]।
महाभारते सप्तानां ऋषीणाम् उल्लेखः सनकादिनाम्ना वर्तते। अनिरुद्धः सनः सनत्सुजातः, सनकः सनन्दनः सनत्कुमारः, कपिलः सनातनः इति तेषां नामानि। ज्ञानम् एतेभ्यः सप्तभ्यः ऋषिभ्यः प्राप्यते। एते सप्त सनकादयः निवृत्तीं परिणीतवन्तः इत्यपि कथा विद्यते।[६]
जन्म, जीवनं च
[सम्पादयतु]सनत्कुमाराः ब्रह्ममानसपुत्राः। यदा ब्रह्मा विश्वसृष्टिम् आरभत तदा आदौ सनकादीन् ससर्ज। ते आरम्भे शैशवावस्थायामेव आसन्। सृष्टिकार्यम् अग्रे अनुवर्तयितुम् ब्रह्मा तान् आदिशत्। परन्तु सत्त्वगुणोपेताः ते पितुः आज्ञाम् उल्लङ्घ्य ब्रह्मचर्यम् समाचरन्। [७]।
सनकादयः बाल्यकाले एव वेदान् अभ्यस्य ज्ञानिनः योगिनः च अभवन्। ते तपः प्रभावात् बालत्वेन एव स्थिताः। पुराणेषु तेषां वयः सर्वदापि पञ्चवर्षीयम् आसीत् इति वर्णितम्। सनकादः विवस्त्राः ज्ञानप्रसारार्थं विश्वभ्रमणं चक्रुः। [८]
बोधनानि
[सम्पादयतु]सनकादयः शुक्राचार्यं वृत्रासुरं च बोधितवन्तः इति कथा महाभारते शान्तिपर्वणि विद्यते। तथा च सत्त्व-रजः-तमोरूपेण गुणानां विभागः अपि सनकादिभिरेव कृतः[९][१०]। सनकादयः पृथुमहाराजं मोक्षमार्गं बोधितवन्तः इति भागवते उल्लिखितम्। [११] नारदीयपुराणे आदिमेषु चतुर्षु अध्यायेषु सनकादीनाम् उपदेशः वर्तते[१२]।
वैकुण्ठगमनम्
[सम्पादयतु]कदाचित् सनकादयः वैकुण्ठं गताः। तत्र द्वारपालकाभ्यां जयविजयाभ्याम् अवरुद्धाः। सनकादयः तौ युवयोः जन्म मर्त्यलोके भवतु शप्तवन्तः। ततः विष्णुः तेषां शापविचारम् ज्ञातवान्। विष्णुविरोधिरूपेण जन्मत्रयम्, आहोस्वित् विष्णुभक्तरूपेण जन्मसप्तकं वा भूमौ वासः करणीयः । अत्र विकल्पः युवाभ्यामेव चेतव्यः इति विष्णुना उक्तम्। तौ विष्णुविरोधिरूपेण जन्मत्रयम् इत्येव विकल्पं चितवन्तौ। जयविजयौ हिरण्याक्ष-हिरण्यकश्यपुरूपेण, रावणकुम्भकर्णरूपेण, शिशुपालदन्तवक्त्ररूपेण च भूमौ जनिं लेभाते। विष्णुना एव हताः च।[२][१३]
शैवसम्प्रदायः
[सम्पादयतु]शिवः चिन्मुद्रया उपविष्टान् सनकादीन् ब्रह्मतत्वम् बोधितवान् इति ऐतिह्यं वर्तते। लिङ्गपुराणानुसारं वामदेवः एव सनकादिरूपे आसीत् इत्यपि श्रूयते.[१४][५]।
निम्बार्कसम्प्रदायः
[सम्पादयतु]निम्बार्कसम्प्रदायः सनकादिसम्प्रदायः इत्यपि प्रसिद्धः। द्वैताद्वैतसिद्धान्तस्य प्रवर्तकाः सनत्कुमाराः इति निम्बार्कानुयायिनां मतम्। विष्णुः हंसरूपेण सनत्कुमारान् ब्रह्मतत्त्वम् उपदिदेश। सनत्कुमारः नारदम् उपदिष्टवान्। नारदात् निम्बार्कः उपदेशं प्राप्तवान्।[१५]।
उल्लेखाः
[सम्पादयतु]- ↑ १.० १.१ "Bhaktivedanta VedaBase: Srimad Bhagavatam 3.12". Vedabase.net. Archived from the original on 2 March 2013. आह्रियत 22 December 2012. Unknown parameter
|df=
ignored (help); Unknown parameter|url-status=
ignored (help) - ↑ २.० २.१ D Dennis Hudson (25 September 2008). The Body of God:An Emperor's Palace for Krishna in Eighth-Century Kanchipuram: An Emperor's Palace for Krishna in Eighth-Century Kanchipuram. Oxford University Press. pp. 355–. ISBN 978-0-19-536922-9. आह्रियत 22 December 2012.
- ↑ James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: Volume Two. The Rosen Publishing Group. pp. 592–. ISBN 978-0-8239-3180-4. आह्रियत 17 December 2012.
- ↑ Alain Daniélou (1 December 1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series. Inner Traditions / Bear & Co. p. 165. ISBN 978-0-89281-354-4. आह्रियत 26 December 2012.
- ↑ ५.० ५.१ The Vishńu Puráńa: A System of Hindu Mythology and Tradition. Oriental Translation Fund of Great Britain and Ireland. 1840. pp. 38–9. आह्रियत 22 December 2012.[नष्टसम्पर्कः]
- ↑ "The Vedic dharma (religion) is verily twofold, characterised by Pravritti (social action) and Nivritti (inward contemplation), designed to promote order in the world; this twofold dharma has in view the true social welfare and spiritual emancipation of all beings."-Adi Shankaracharaya (A.D. 788–820).
- ↑ Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. p. 682. ISBN 978-0-8426-0822-0.
- ↑ Vaisampayana continued... The Mahabharata translated by Kisari Mohan Ganguli (1883 -1896), Book 12: Santi Parva, Part 3, Section: CCCXLI. p. 147 "The puissant Lord who is charged with the creation of all the worlds is called Aniruddha, Sana, Sanatsujata, Sanaka, Sanandana, Sanatkumara, Kapila, and Sanatana numbering the seventh,--these seven Rishis are known as the spiritual sons of Brahman. Their knowledge comes to them of itself (without being dependent on study or exertion). These seven are wedded to the religion of Nivritti. They are the foremost of all persons conversant with Yoga. They are possessed also of deep knowledge of the Sankhya philosophy. They are preceptors of the scriptures on duty and it is they that introduce the duties of the religion of Nivritti, and cause them to flow in the worlds.
- ↑ Mahabharata Published by Geeta Press in Gorakhpur. Written in Hindi.
- ↑ The Mahabharata of Krishna-Dwaipayana Vyasa Santi Parva translated by Kisari Mohan Ganguli [published between 1883 and 1896]
- ↑ "Bhaktivedanta VedaBase: Srimad Bhagavatam 4.22". Vedabase.net. Archived from the original on 9 May 2013. आह्रियत 22 December 2012. Click individual verses for explanatory notes
- ↑ Dalal p. 273
- ↑ Swami Venkatesananda; Venkatesananda (Swami.) (1989). The Concise Śrīmad Bhāgavataṁ. SUNY Press. p. 53. ISBN 978-0-7914-0149-1. आह्रियत 25 December 2012.
- ↑ V. Ravi (2010). Lalita Sahasranama. MANBLUNDER. pp. 432–3. GGKEY:BH0QHZDKYK6. आह्रियत 26 December 2012.
- ↑ Dalal p. 129