सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

ऋग्वेदस्य मातृका

वेदः संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते। भारते धर्मव्यवस्था वेदायत्तैव। वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया। श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी। न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि। प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। चत्वारः वेदाः भवन्ति। ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति। एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागः अस्ति। वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति। तानि च सूक्तानि प्रतिभानवतां ऋषीणां योगदानानि भवन्ति। एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति। (अधिकवाचनाय »)



आधुनिकलेखः

बेङ्गळूरु

"बेङ्गलूरु"(Bangalore) नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति। बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते। एतत् मण्डलमपि। बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति। २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम्। एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम्। अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति। बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति। बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति। (अधिकवाचनाय »)




ज्ञायते किं भवता?

संस्कृतवाक्यानि प्रतीकेषु उपयुक्तानि -

सत्यमेव जयते - भारतसर्वकारः
नभःस्पृशं दीप्तम् - भारतीयवायुदलम्
योगक्षेमं वहाम्यहम् - भारतीयजीवविमानिगमः
शं नो वरुणः - भारतीयजलसेना
बहुजनहिताय - आकाशवाणी
न हि ज्ञानेन सदृशम् - मैसूरुविश्वविद्यालयः
ज्ञानं विज्ञानसहितम् - बेङ्गलूरुविश्वविद्यालयः
योऽनूचान: स नो महान् - राष्ट्रियसंस्कृतसंस्थानम्
तन्नो हंसः प्रचोदयात् - रामकृष्ण मिशन्
सत्यं शिवं सुन्दरम् - प्रसारभारती
तत्त्वं पूषन्नपावृणु - केन्द्रियविद्यालयसङ्घटनम्



वार्ताः

मुम्बई
मुम्बई
  • पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
  • मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
  • बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
  • मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।

अद्यतनं सुभाषितम्

यो यस्य चित्ते वसति न सदूरे कदाचन।

खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥

गर्गसंहिता माधुर्यखण्डः १/११

यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति। यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति )।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्