ओरिस्साराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(ओड़िशा इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Orissa in India (disputed hatched).svg

ओऱीस्साराज्यं (फलकम्:Lang-or [[अन्तर्राष्ट्रीय ध्वन्यात्मक लिपि चिह्न सूची|[oˑɽisaˑ]]]) भारतस्य आग्नेयतीरे विद्यते । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते ।
ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं डियोमलिपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते ।
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।

[सम्पादयतु] इतिहासः

कलहण्डिजनपदस्य प्राचीनचित्राणि

प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । महाभारतस्य कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।

[सम्पादयतु] जनपदानि

कोणार्कस्य सूर्यदेवालयः

ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च । राज्यस्य महानगरं राजधानी च वर्तते भुवनेश्वरनगरम् । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, पुरी च ।


सम्‍बद्धाः विषया:

भाषा - ओडिया

नगरम् - कटक

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु