ओषधयः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
ओषः धीयतेत्र-डु धाञ् (धारणपोषणयोः) "किः" (३।३।९३) ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३५०००० विधाः ओषधयः जीवन्ति। ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन हरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।
== विभागाः ==
- अल्गे - सरलाः लघुपादपाः
- ब्रयोफैटा - शैवलादयः
- प्टेरिडोफैटा - वहुपत्रकादयः
- जिम्नोस्पर्मा - देवदारवादयः
- अञ्जियोस्पर्मा - सपुष्पकाः
|
|||||
चित्राणि [सम्पादयतु]
-
Cymbopogon citratus-अतिगन्धः