निम्बः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
निम्बः
निम्बस्य पुष्पानि पर्णानि च
निम्बस्य पुष्पानि पर्णानि च
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
गणः Sapindales
कुलम् Meliaceae
वंशः Azadirachta
जातिः A. indica
द्विपदनाम
Azadirachta indica
पर्यायपदानि

Antelaea azadirachta (L.) Adelb.

निम्बवृक्षः

शतायुर्वज्रदेहाय सर्वसम्पत्कराय च ।
सर्वानिष्टविनाशाय निम्बकं दलभक्षणम् ॥

अयं श्लोकः निम्ब/निम्बकवृक्षस्य धार्मिकं स्वास्थ्यं च गुरुत्वं सूचयति । अयं निम्बवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं बहूपयोगी वृक्षः इत्येव प्रसिद्धः अस्ति । युगादिपर्वणः अवसरे निम्बगुडस्य सेवनं परम्परानुगुणं प्रवर्तते भारते । अयं वृक्षः समतलभूमौ वर्धते । यत्र अधिका वृष्टिः जायते तत्र अयं वृक्षः न वर्धते । कासाराणां, तडागानां, सरोवराणां वा तीरे समृद्धरूपेण वर्धते अयं निम्बवृक्षः । अस्य वृक्षस्य सर्वाङ्गानि अपि औषधत्वेन उपयुज्यन्ते । अस्य पर्णाणि संयुक्तगात्राणि । अयं वृक्षः सदा हरिद्वर्णीयः । अस्य पर्णानाम् अञ्चलः (अन्तिमभागः) क्रकचः इव तीक्ष्णः भवति । अस्य निम्बवृक्षस्य त्वक् कपिलवर्णीयं भवति । पर्णानां कक्षे पुष्पाणां गुच्छं भवति । पुष्पाणि मधुगन्धयुक्तानि, श्वेतवर्णीयानि च भवन्ति । मार्चमासतः मेमासाभ्यन्तरे पुष्पाणि जायन्ते । सेप्टेम्बर्-तः नवेम्बर्-मासाभ्यन्तरे फलानि वर्धन्ते । फलानि मन्दपीतवर्णीयानि । अस्मिन् एव अवधौ बीजानां सङ्ग्रहणम् अपि प्रचलति ।

इतरभाषाभिः अस्य निम्बवृक्षस्य नामानि[सम्पादयतु]

अयं निम्बवृक्षः आङ्ग्लभाषया Neem इति उच्यते । हिन्दीभाषया “नीम” इति, बङ्गभाषया "निम्" इति, तेलुगुभाषया “वेपचेट्टु” इति, तमिळ्भाषाया “वेम्बु” इति, मलयाळभाषया “वेप्पु” इति, कन्नडभाषया “बेवु” अथवा “कहिबेवु” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य निम्बवृक्षस्य प्रयोजनानि[सम्पादयतु]

अस्य निम्बवृक्षस्य रसः तिक्तः । अस्य निम्बवृक्षस्य त्वक्, निर्यासः, पर्णं, पुष्पं, पल्लवं, बीजं, फलं, बीजस्य तैलं, पिण्याकः, रसः च औषधत्वेन उपयुज्यते ।

१. उष्णजले अस्य निम्बवृक्षस्य पर्णानि निमज्य तेन जलेन स्नानं क्रियते चेत् कण्डूयनं, पिटकाः च अपगच्छन्ति ।
२. विशिष्टेषु केषुचित् पिटकेषु अस्य पर्णानि सम्पेष्य रसं निषीड्य लेप्यते ।
३. निम्बस्य सेवनेन विषबाधा निवारिता भवति।
४. यद्यपि निम्बः अत्यन्तं तिक्तः तथापि सः सञ्जीवनी इव । पुस्तकानां मध्ये अपि अस्य पर्णानि स्थाप्यन्ते । तेन पुस्तकानि कीटैः न खाद्यन्ते ।
५. अस्य पर्णानां शलाकाः दन्तधावनार्थं दन्तकूर्चाणां स्थाने उपयुज्यन्ते ।
६. मषकाणां निवारणाय अस्य काष्ठैः, पर्णैः वा धूमः उत्पाद्यते ।
७. अस्य निम्बस्य फलानि क्वथयित्वा उद्घर्ष्य वा निष्कासितं तैलम् औषधत्वेन उपयुज्यते ।
८. अस्य मूलस्य चूर्णम् उष्णजलेन सह १ – २ चमसमितं प्रातः रिक्तोदरे सेवन्ते चेत् शरीरे बलं वर्धते ।
९. अस्य फलानि कीटनाशकानि अपि ।
१०. व्रणेषु यथा पूयं न भवेत् तथा अस्य तैलं, कल्कं वा उपयुज्यते ।
११. मक्षिकाणां निवारणार्थम्, चर्मरोगेषु च अपि अस्य तैलम् उपयुज्यते ।
१२. अस्य मूलस्य रसः ज्वरे प्रतिबन्धकत्वेन उपयुज्यते ।
१३. अनेन फेनकं, दन्तफेनः, दीपतैलं चापि निर्मीयते ।
१४. कौशेयस्य वर्णपूरणार्थम् अस्य निर्यासः उपयुज्यते ।
१५. अस्य वल्कलेन रज्जुः निर्मीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=निम्बः&oldid=282687" इत्यस्माद् पुनः प्राप्तिः