धात्री

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धात्रीवृक्षः

साम्राज्यम् - पादपः

विभागः - मैंगोलियोफाइटा

वर्गः - मैंगोलियोफाइटा

क्रमः - सक्सीफ्रैगल्स्

कुटुम्बः - ग्रोसुलैरीसी

जातिः - रिबीस्

प्रजातिः - आर् यूवाक्रिस्पा

वैज्ञानिकं नाम - रिबीस् यूवा क्रिस्पा

परिचयः[सम्पादयतु]

धात्री कश्चित् फलदः वृक्षः । २०-३०पादपरिमितः संवर्धते अयं वृक्षः । अयं पादपः भारतदेशस्य नित्यहरिद्वर्णारण्येषु, एशियाखण्डे यूरोदेशे आफ्रिकादेशे भारतस्य द्वीपदेशेषु च प्ररोहति । अस्य पष्पाणि लघुघण्टा इव दृश्यते । अस्य आमलकम् अमृतः, आमलकी, पञ्चरसः इत्यादीनि नामानि सन्ति । अस्य फलं लघु गोलकं इव भवति यत् मुष्टौ सङ्गोपयितुं शक्यते । अस्य फलस्य रुचिः कशायः भवति । आङ्ग्लभाषाया Indian gooseberry इति ल्याटिन् भाषया Phyllanthus emblica इति कथयन्ति । अयम् आयुर्वेदीयम् औषधसस्यम् इति जगति प्रसिद्धः । प्रसिद्धस्य प्राचीनायुर्वेदवैद्यस्य चरकस्य मते शारीरिकावनतेः प्रतिरोधकेषु अवस्थास्थापकेषु औषधेषु धात्री प्रधाना भवति । माता इव इयं रक्षणं करोति इति अस्य धात्री इति नाम प्राप्तम् इति प्रतीतिः । अस्य फलानि पूर्णपक्वात् पूर्वम् एव उपयोगार्थं चिन्वन्ति । फलैः रक्तशोधकौषधं निर्मीयते । अतिसारस्य प्रमेहस्य दाहस्य आम्पपित्तस्य रक्तपित्तस्य मूलव्याधेः शमनार्थं वीर्यवर्धनार्थम् आयुवर्धनार्थं च धात्रिफलानि उपयुज्यन्ते । अधुनिकवैद्यकीयानुसारम् धात्रिफलेषु विटामिन् (जीवसत्त्वम्) - सी अधिकप्रमाणेन अस्ति ।

कृषिः[सम्पादयतु]

भारतदेशस्य मृत्तिकावातावरणगुणः धात्रिवृक्षसंरोपणार्थम् अनुकूलकरः अस्ति । भारतीयाः कृषकाः वाणिज्यफलचयरूपेण अस्य कृषिं कुर्वन्ति । ईदानीं बहुत्र प्रसंस्कृतजातीया धात्री अपि दृश्यते । ब्रिटेन, फ्रांस, इटली, सकॉटलैंड, नॉर्वे आदिषु देशेषु अपि अस्य कृषिः सफला अस्ति । अस्य वृक्षस्य संवर्धनार्थं यथेष्टं जलं प्रखरः सूर्यप्रकाशः च आवश्यकौ भवतः ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=धात्री&oldid=263073" इत्यस्माद् पुनः प्राप्तिः