शाल्मलिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शल्मलिवृक्षमूलम्
कुसुमितवृक्षः

परिचयः[सम्पादयतु]

वृक्षषु एव अतिवैभवयुतः शल्मलिवृक्षः(Silk Cotton Tree) । भारतदेशे सर्वत्र अयं प्ररोहति चेदपि दक्षिणभारते अधिकं दृश्यते । संस्कृतकवेः बाणभट्टस्य कादम्बरीति गद्यकाव्ये विन्ध्याटवीप्रसङ्गे कस्यचित् महतः शाल्मलिवृक्षस्य विस्तारकं वर्णनं दृश्यते । तमिळुकव्येषु अपि अस्त्य वर्णनं श्रूयते । अस्मिन् पुष्पाणि अधिकानि विकसन्ति किन्तु तानि निर्गन्धानि भवन्ति । अयं वृक्षः डिसेम्बर् मासे अयं पर्णपाती भवति । तूलिनी, रम्यपुष्पः, निर्गन्धपुष्पः इति अस्य वृक्षस्य नामान्तरम् ।

सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]

शाल्मलिवृक्षस्य सस्यशास्त्रीयं नाम Bombax Ceiba,/ Salmalia Malabarica इति । अस्य कुटुम्बः Bombacaceae । Silk Cotton Tree इति आङ्ग्लभाषया कथयन्ति । निबिडैः पञ्चदलैः युक्तस्य अस्य पुष्पस्य रक्तवर्णः भवति । पुष्पमध्ये अधिकाः पुङ्केसराः भवन्ति । यदा वृक्षः कुसुमितः भवति तदा पत्राणि न भवन्ति इति विशेषः । १०-१२से.मी. द्रीर्घाणि हर्द्वर्णीयानि फलनानि । पक्वेषु फलेषु कृष्णवर्णनि गच्छन्ति स्वयम् उन्मीलयन्ति च । फालानाम् अन्तः तूलकानि भवन्ति यानि तेषां बीजप्रसारणे सहाय्यम् आचरन्ति । व्यानुना बीजसंश्लिष्टानि तूलकानि अन्यत्रं नीयते ।

प्रयोजनानि[सम्पादयतु]

शाल्मलिवृक्षे श्वेतवर्णस्य रक्तवर्णस्य इति भेदद्वयम् अस्ति । वृक्षस्य त्वचः परिगणनेन सकण्टकः निष्कण्टकः इति पुनः भेदद्वयं भवति । वृक्षस्य दारूणि मन्दिराणां रथानां अग्निपेटिकनां अग्निशालाकानं चनिर्माणे उपयुज्यते । फलगततूलकाः शय्यासु उपधानेषु च उपयुज्यन्ते । खगाः चित्रोडः कपयः आश्रिय्त्य जीवन्ति । वृक्षस्य निर्यासः भेषजरूपेणापि उपयुज्यते । मौर्यानां प्रशासनकाले भारतदेशे राज्यानां सीमाप्रदेशस्य निदेशः एतैः वृक्षैः भवति स्म ।

शल्मलितूलकः
"http://sa.wikipedia.org/w/index.php?title=शाल्मलिः&oldid=250972" इत्यस्माद् पुनः प्राप्तिः