कदम्बः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
कदम्बवृक्षः

कदम्बः इति वृक्षविशेषः आपुणकालत् श्रूयते । ..... सुराजीवजः कदम्बवनकैरवचारुकलिन्दनकन्यका ॥ ........ कटाक्षयतु कल्याणी कदम्बवनवासिनी॥ इत्यादिषु देवीस्त्रोत्रेषु कदम्बवनस्य प्रस्तावः इति अस्य प्राचीनतातां सूचयति । कदम्बस्य अधुनिकं नाम रूबियेसी कदम्बा । सस्यशास्त्रीयं नाम नियोलामार्सिका कदम्बा (Neolamarckia cadamba) इति । एतत् रूबियेसी कुटुम्बसम्बद्धः इति वदन्ति ।

गुणलक्षणानि [सम्पादयतु]

अतिवेगेन वर्धमानः अयं वृक्षः अण्डमान्, आसाम् प्रदेशेषु दृश्यते । संवृद्धः वृक्षः ४०पादपरिमितम् उन्नतिं प्राप्नोति । अस्य पत्राणि मधूकवृक्षस्य पत्राणि इव भवन्ति । वर्षर्तोः काले अयं वृक्षः कुसुमितः भवति । अस्य शखासु पीतवर्णस्य सुगन्धितपुष्पगुच्छाः भवन्ति । मेघगर्जनं श्रुत्वा एतेषु वृक्षेषु पुष्पाणि विकसन्ति इति प्रतीतिः अस्ति । पीतः परागः यदा पक्वं भवति तदा तस्य वर्णः रक्तः भवति । एतस्य हरिद्रः अथवा नीपः इति अपि कथयन्ति । पुष्पाणि सुगन्धतैलनिर्माणार्थम् उपयुज्यते ।

समृद्धः कदम्बवृक्षः


कदम्बकलिका कुसुमं च



"http://sa.wikipedia.org/w/index.php?title=कदम्बः&oldid=234214" इत्यस्माद् उद्धृतम्