बिल्वः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बिल्ववृक्षः
बिल्वफलम्

परिचयः[सम्पादयतु]

बिल्वः कश्चित् वृक्षविशेषः । भारते अयं अतिपवित्रः तरुः अस्ति । शिवस्य बहुप्रियं बिल्वपत्राणि इति भारतीयानां दृढः विश्वासः । धार्मिकभावनया आयुर्वेदीयप्रयोजनेन च अस्य वृक्षस्य प्रामुख्यम् अस्ति । अयं श्लोकः अस्य गरिमां सूचयति । अयं मध्यमप्रमाणेन प्ररोहति । एशियाखण्डे सर्वत्र एषः वृक्षः दृश्यते । मन्दिराणां पुरतः उद्यानेषु च विशेषातया प्रारोपयन्ति ।

अश्वत्थमेकं पिचुमन्दमेकं, न्यग्रोधमेकं दशतिन्त्रिणीकम् ।
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।

अयं बिल्ववृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः सर्वेषु अपि प्रदेशेषु वर्धते । विशेषतया ४,००० पादमिते औन्नत्ये वर्धते । धार्मिकदृष्ट्या अयं बिल्वः भगवतः शिवस्य अत्यन्तं प्रियः इति विश्वसन्ति भारते । अयं वृक्षः २५ – ३० पादमितम् उन्नतः भवति । ३ – ४ पादमितः स्थूलः भवति । १ अङ्गुलं यावत् दीर्घाणि कण्टकानि भवन्ति । अस्य पर्णानां कश्चन गन्धः भवति । पुष्पाणि हरितमिश्रितश्वेतानि, सुगन्धयुक्तानि च भवन्ति । फलानि २ – ४ अङ्गुलं यावत् स्थूलानि, गोलाकारकाणि भवन्ति । फलानाम् अन्तः बहूनि बीजानि भवन्ति । अस्य फलेषु ४.६ % यावत् शर्करांशः, ६ %यावत् टेनिक्, २ % निर्यासः, तिक्तसत्त्वम्, उडनतैलं, पेक्किन् इत्यादयः अंशाः भवन्ति । अस्य पर्णेषु एलिगन्, एगलिनिन् इत्यादयः अंशाः भवन्ति ।

इतरभाषाभिः अस्य बिल्ववृक्षस्य नामानि[सम्पादयतु]

बिल्ववृक्षः रुटसिये कुटुम्बसम्बद्धः अस्य सस्यशास्त्रीयं नाम अजेल् मर्मेलस् (Aegle Marmelos) इति । । हिन्दीभाषया “बेल्” इति, तेलुगुभाषया “मोरेडु” इति, तमिळ्भाषया “बिल्वम्” इति, मलयाळभाषया “विल्वम्” इति, बेङ्गालीभाषया “बेल्” इति, मराठीभाषया अपि “बेल्” इति, कन्नडभाषया “बिल्व” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य बिल्ववृक्षस्य प्रयोजनानि[सम्पादयतु]

अस्य बिल्ववृक्षस्य रसः तिक्तः कषायः च । विपाके सः कटुः भवति । अयम् उष्णवीर्यः, लघु, रूक्षः चापि ।

१. अस्य बिल्वस्य पर्णानि वातहराणि, वेदनास्थापकानि च ।
२. अयं बिल्वः नेत्राभिष्यन्दे, पार्श्ववेदनायां, शोथे चापि उपयुज्यते । नेत्राभिष्यन्दे अस्य पर्णानां रसः नेत्रे स्थाप्यते । पार्श्ववेदनायां पर्णानि उष्णीकृत्य शाखदानं क्रियते ।
३. अस्य उपयोगेन उन्मादः, अग्निमान्द्यम्, अतिसारः चापि अपगच्छति ।
४. अयं वातव्याधेः आक्षेपकः अपि ।
५. अयं रक्तातिसारं, उदरवेदनां, हृदयदौर्बल्यं चापि परिहरति ।
६. प्रवाहिकाग्रहणे, कासे, श्वासरोगे, सूतिकारोगे, विषमज्वरे, श्वेतप्रदरे च अयं हितकरः ।
७. अस्य चूर्णं ५ – १० ग्रां यावत्, स्वरसः १० – २० मि.ली यावत् सेवितुं शक्यते ।
८. अनेन निर्मितानि “बिल्वपञ्चकक्वातम्”, “बिलादिचूर्णं”, “बिल्वादिघृतं”, “बिल्वतैलं”, “बिल्वमूलादिगुटिका” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।

गुणलक्षणानि[सम्पादयतु]

अयं पर्णपाती वृक्षः। इत्युक्ते यदा पर्णानि परिपक्वानि/वृद्धानि भवन्ति तदा पर्णानि पातयति । प्रतिवर्षं निरिष्टे ऋतौ जीर्णपर्णानि त्यक्त्वा नूतनानि प्राप्नोति इत्यर्थः । वृक्षकाण्डे कण्टकानि

उपयोगः[सम्पादयतु]

अस्य पत्राणि शिवपूजायां श्रेष्ठानि इति परिगणितानि ।अस्य प्रत्त्येकम् अङ्गम् आयुर्वेदे उपयुज्यते ।{कर्णाटकस्य सस्यानि}}


"http://sa.wikipedia.org/w/index.php?title=बिल्वः&oldid=250936" इत्यस्माद् पुनः प्राप्तिः