सामग्री पर जाएँ

"फखरुद्दीन अली अहमद" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{Infobox Officeholder |name = फखरुद्दीन अली अहमद |image = Fakhru.jp... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:५३, १७ एप्रिल् २०१४ इत्यस्य संस्करणं

फखरुद्दीन अली अहमद
भारतस्य पञ्चमः राष्ट्रपतिः
कार्यालये
१०/८/१९७४ – ११/२/१९७७
प्रधानमन्त्री इन्दिरा गान्धि
उपराष्ट्रपतिः श्रीबसप्पा दनप्पा जत्ती
पूर्वगमः श्रीवराहगिरि वेङ्कट गिरि
पादानुध्यातः श्रीनीलम सञ्जीव रेड्डी
व्यक्तिगत विचाराः
जननम् १३/५/१९०५
शिवसागरमण्डलमे, असमराज्यम्
मरणम् ११/२/१९७७ (आयुः ७२)
देहली-महानगरं, भारतम्
राजनैतिकपक्षः कोङ्ग्रेस
पतिः/पत्नी शाहजहां बैगम
अपत्यानि द्वे पुत्र्यौ
मुख्यशिक्षणम् स्टेफन्स्-महाविद्यालयः, केम्ब्रिज-विश्वविद्यालयः
वृत्तिः वाक्कीलः
धर्मः मुस्लिमधर्मः

फखरुद्दीन अली अहमद भारतस्य पञ्चमः राष्ट्रपतिः (१९०५-१९७७) । भारतधर्मनिरपेक्षतायाः प्रतीकः अस्ति यत्, भारतस्य सर्वोत्कृष्टे स्थाने (राष्ट्रपतिपदे) मुस्लिम-देशभक्ताः अपि आरूढाः भवन्ति । १९४७ तमे वर्षे भारतस्य धर्माधारीतं विभाजनं पाकिस्थानस्य जनकः अभूत् । तथापि भारतस्य धर्मनिरपेक्षतायाः विचाराः शिथिलाः नाभूवन् । एवं भारतस्य स्वतन्त्रतान्दोलनस्य देशभक्तः नेता फखरुद्दीन अली अहमद राष्ट्रपतित्वेन चितः । डा. वराहगिरि वेङ्कट गिरि-महाभागस्य कार्यकाले समाप्ते सति १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य दशमे (१०) दिनाङ्के राष्ट्रपतिनिर्वाचने फखरुद्दीन अली अहमद बहुमतेन चितः । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् ।

जन्म, शिक्षणं च

१९०५ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के फखरुद्दीन अली अहमद जातः । तस्य पितुः नाम खलीलउद्दीन अली अहमद, मातुः नाम रुकिया सुल्ताना च । फखरुद्दीन अली अहमद इत्यस्य जन्म देहली-महानगरस्य ‘हौज काजी’-स्थले अभवत् । सः बाल्यकालादेव प्रतिभावान्, मेधावी चासीत् । फखरुद्दीन अली अहमद इत्यस्य जन्मनः स्वल्पे काले एव खलीलउद्दीन इत्यस्य स्थानान्तरं उत्तरप्रदेशस्य गोण्डामण्डले अभूत् । ततः शिक्षायोग्यं स्वपुत्रं सः गोण्डामण्डलस्य सर्वकारस्य विद्यालये प्रवेशं अकारयत् । १९२१ तमे वर्षे फखरुद्दीन अली अहमद यदा ‘मैट्रिक’-इत्यस्य अध्यनं कुर्वन् आसीत्, तदा तस्य पितुः पुनः स्थानान्तरं देहली-महानगरे अभूत् । अतः ‘मैट्रिक’-इत्यस्याध्यनं सः देहली-महानगरे समापीतवान् । ‘मैट्रिक’-इत्यस्य द्विवर्षात्मकम् अध्ययनं समाप्य सः १९२३ तमे वर्षे उच्चशिक्षां प्राप्तुं इङ्ग्लैण्ड-देशम् अगच्छत् । सः इङ्ग्लैण्ड-देशस्य कैम्ब्रिज-विश्वविद्यालये यदा सः पठनं आरभत, तदा सः अष्टादश(१८)वर्षीयासीत् । तस्मिन् एव विश्वविद्यालये जवाहरलाल नेहरू पठन् आसीत् । सः फखरुद्दीन अली अहमद इत्यस्मात् ज्येष्ठकक्षायां पठन् आसीत् । तस्मात् कालात् आजीवनं नेहरू तस्य मित्र-मार्गदर्शक-आदर्शरूपेण तं प्रेरितवान् इति सः स्वजीवन्याम् अलिखत् । पञ्चवर्षं यावत् कैम्ब्रिज-विश्वविद्यालये स्नातक-न्याययोः अध्यनं समाप्य सः १९२८ तमे वर्षे भारतं प्रात्यागतः ।

वैवाहिकजीवनम्

फखरुद्दीन अली अहमद इत्यस्य वैवाहिकजीवनं बहुविलम्बेन प्रापब्धम् । चत्वारिंशत्तमे (४०) वयसि तस्य विवाहः आबिदा हैदर इत्यनया सह अभूत् । विलम्बेन विवाहः जातः परन्तु विवाहस्य स्थितिः तु हास्यपूर्णा, गौरवपूर्णा इति वक्तुं शक्नुमः । कन्यायाः गृहजनाः वरस्य विषये यदा प्रशनम् अकरोच् यत्, “वरः सद्यः आजीविकार्थं किं कुर्वन् अस्ति”, तदा फखरुद्दीन अली अहमद इत्यस्य परिवारस्य जनाः उत्तरम् अयच्छन्त्, “वरस्तु जोरहाट-कारागारे बन्धकः अस्ति” । ततः वरस्य विषये बहव्यः भ्रमणाः कन्यायाः परिवारस्य जनेषु उद्भूता । परन्तु फखरुद्दीन अली अहमद महात्मना प्रेरिते भारत छोडो-आन्दोलने आङ्ग्लानां विरोधं कृतवान् आसीत्, अतः कारागारे बन्धकः इति श्रुत्वा कन्यायाः गृहजनाः विवाहार्थं सम्मताः अभूवन् । ततः १९४५ तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे (९) दिनाङ्के फखरुद्दीन अली अहमद, आबिदा हैदर इत्यन्योः विवाहः सम्पन्नः ।

राजनीतिप्रवेशः

१९२८ तमे वर्षे यदा फखरुद्दीन अली अहमद भारतं प्रत्यागच्छत्, तदा सः लाहौर-उच्चन्यायालये वाक्कीलत्वेन कार्यं प्रारभत । तस्य पितुः इच्छा आसीत् यत्, “यथा अहं सर्वकारस्य कार्यम् अकर्वं , तथैव मम पुत्रः अपि सर्वकारस्य कार्यं कुर्यात् । परन्तु फखरुद्दीन अली अहमद इत्यस्य मनसि आङ्ग्लानां प्रति श्रद्धा नासीत् । कारणं यदा सः इङ्ग्लैण्ड-देशे पठन् आसीत्, तदा आङ्ग्लाः मानवतायाः उच्चगुणानां चर्चां कुर्वन्तः आसन् । परन्तु भारते वसद्भिः नागरिकैः सह ते पशुवत् व्यवहारं कुर्वन्तः आसन् । अतः फखरुद्दीन अली अहमद इत्यस्य इच्छा सर्वकारस्य वृत्तिप्राप्तेः नासीत् । तस्य पिता यदा फखरुद्दीन अली अहमद इत्यस्य विचारान् अजानत्, तदा सोऽपि पुत्रस्य विचाराणां सम्मानम् अकरोत् । फखरुद्दीन अली अहमद देशसेवां कर्तुम् इच्छति स्म । अतः सः १९३१ तमे वर्षे कोङ्ग्रेस-पक्षस्य सदस्यः अभवत् । १९३९ तमात् वर्षात् १९७४ तमं वर्षपर्यन्तं फखरुद्दीन अली अहमद कोङ्ग्रेस-पक्षसञ्चालितस्य सर्वकारस्य विभिन्नविभागस्य मन्त्रिपदं व्यभूषयत् ।

राष्ट्रपतित्वेन फखरुद्दीन अली अहमद

डा. वराहगिरि वेङ्कट गिरि-महाभागस्य कार्यकाले समाप्ते सति १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य दशमे (१०) दिनाङ्के राष्ट्रपतिनिर्वाचने फखरुद्दीन अली अहमद बहुमतेन चितः । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । तस्य यदा राष्ट्रपतित्वेन कार्यभारस्य दायित्वम् आसीत्, तदा प्रधानमन्त्री इन्दिरा गान्धि आसीत् । परन्तु तस्याः राजनैतिकस्थितिः समीचीना नासीत् । कारणं पुत्रप्रेम्णा ग्रस्ता सा देशस्य हितं विस्मृतवती आसीत् । तस्याः पुत्रः सञ्जय गान्धि, सञ्जयस्य मित्राणि च सर्वकारत्वेन कार्यं कुर्वन्तः आसन् । तेषां निर्णयाः देशहिताय न अपि तु देशस्य अहिताय एव आसन् । भारतीयजनसङ्ख्यां नियन्त्रितुं ते 'नसबन्धी' इत्यस्य अभियानस्य घोषणामकरोत् । तस्मिन् अभियाने सञ्जय गान्धि इत्यस्य कृपादृष्टिं प्राप्तुं केचन मुख्यमन्त्रिणः तु अष्टादशवर्षीयस्य युनः आरभ्य षष्ठिवर्षीयस्य वृद्धपर्यन्तं 'नसबन्धी' कारितवन्तः । एतत् तु उदाहरणमासीत्, इतोऽपि असंविधानिक-अराजनैतिक-अमानवीयनिर्णयाः सर्वकारेण जनेषु आरोपिताः आसन् । उत्कोचं विना सर्वाकारिविभागेषु कार्यं न भवति स्म । नेतारः भ्रष्टाचारं कृत्वापि दण्डं न प्राप्नुवन्ति स्म । सर्वत्र अराजकतायाः वातावरणमासीत् । तस्मिन् अराजकतायाः वातावरणेन दुःखितः एकः स्वातन्त्र्यसेनानी सर्वकारस्य विरोधमकरोत् । सः स्वान्त्र्यसेनानी महात्मना सह भारतस्वतन्त्रतान्दोलने भागम् अवहत् । तस्य नाम आसीत् श्रीजयप्रकाश नारायणजयप्रकाश नारायण भारतस्य स्वतन्त्रतया सन्तुष्टः, राजनीतिकक्षेत्रस्य त्यागं कृत्वा स्वस्य ग्रामे शान्त्या जीवनं व्यापयति स्म । परन्तु महात्मा-मार्गस्य अनुगामी सः यदा देशे अराजकतायाः वातावरणम् आनुभवत्, तदा सः सर्वकारस्य विरोधमकरोत् । १९७५ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे (१२) दिनाङ्के इलाहाबाद-उच्चन्यायालयेन इन्दिरा गान्धि विरुद्धम् अभियोगस्य निर्णयः कृतः । निर्वाचनसम्बद्धभ्रष्टाचारस्य दोषी इन्दिरा गान्धि इति इलाहाबाद-उच्चन्यायालयेन उद्घोषितम् । भारतीयसर्वोच्चन्यायालयाय याचिकां दातुं इन्दिरा गान्धि इत्यनया पार्श्वे विंशतिः दिनानां कालः आसीत् । परन्तु सर्वोच्चन्यायालयः अपि एतादृशं, इतोपि कठिनं वा न्यायं करिष्यति इति भयः तस्याः मनसि आसीत् । तस्याः राजनैतिकक्रूरतायाः परिणामः आसीत् यत्, १९७५ तमस्य वर्षस्य 'जून'-मासस्य षड्विंशति(२६)तमे दिनाङ्के एव भारते आन्तरिकापत्कालस्य घोषणा अभूत् ।

आपत्काले फखरुद्दीन अली अहमद

आपत्कालः अर्थात् संविधानविरोधीनि कार्याणि राज्ये वा चलन्ती सन्ति, शासकः संविधानानुसारं राज्ये शासनं कर्तुम् असमर्थः अस्ति वा । राष्ट्रपतिः एतादृषं यदि राज्यपालस्य सूचनेन, अन्यरीत्या वा जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां कर्तुं शक्नोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशत्तमा(३५६)नुच्छेदानुसारं संसदः स्वीकृत्या सह षण्मासावधेः वर्षत्रयं यावत् राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं शासनं करोति । अस्य षड्पञ्चाशदधिकत्रिशत्तमस्य (३५६) अनुच्छेदस्य बहुवारं दूरुपयोगः जातः अस्ति । अतः भारते बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः विपक्षस्य यस्मिन् राज्ये शासनम् अस्ति, तस्मिन् राज्ये शासकात् सत्ताम् अपकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । एतस्य षड्पञ्चाशदधिकत्रिंशत्तमस्य (३५६) अनुच्छेदस्य दुरुपयोगं इन्दिरा गान्धी अकरोत् । १९७५ तमस्य वर्षस्य 'जून'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के गृहमन्त्रिद्वारा फखरुद्दीन अली अहमद इत्येनम् आपत्कालस्य प्रस्तावे हस्ताक्षरं कर्तुम् आदिशत सा । इन्दिरा गान्धी स्वस्य पत्रे अलिखत्, “भवान् आपत्कालस्य पत्रे हस्ताक्षरं करोतु । मन्त्रिणां समर्थनात्कं पत्रं श्वः प्रातः दास्याम्यहम्” इति । ततः आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरार्थं कः अगच्छत् इति विषये भिन्नानि मतानि सन्ति । केचन वदन्ति इन्दिरा गान्धी स्वयं राष्ट्रपतिभवन् अगच्छत् हस्ताक्षरं कारयितुम् । केचन वदन्ति, “पञ्चविंशतितमे दिनाङ्के रात्रौ सञ्जय गान्धी स्वमित्रैः सह राष्ट्रपतिभवन् अगच्छत् । बलेन आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरम् अकारयत् सः” । यत्किमपि जातं स्यात् तस्यां रात्रौ । परन्तु फलं तु कलङ्कवदेवासीत् । १९७५ तमस्य वर्षस्य 'जून'-मासस्य पञ्चविंशतितमे दिनाङ्के मध्यरात्रौ भारते आपत्कालस्य घोषणा जाता ।

१९७५ तमस्य वर्षस्य आपत्कालपत्रम्

In exercise of powers conferred by clause 1 of Article 352 of constitution, I, Fukhruddin Ali Ahmed, President of India, by this proclamation declare that a great emergency exists where by the security of India is threatened by internal disturbances.
New Delhi: 25th June 1975 President

फखरुद्दीन अली अहमद इत्यस्य राजनैतिकक्षतिः, नेहरू इत्येनं प्रति प्रेम, इन्दिरा गान्धी इत्यनयाः भयः वा स्यात् । परन्तु तस्य कृतः निर्णयः आभारतस्य कलङ्कः एव आसीत् । आपत्कालस्य प्रस्तावे हस्ताक्षरं करणात् प्राक् तेन वक्तव्यम् आसीत् यत्, “अस्मिन् पत्रे मन्त्रिमण्डलस्य हस्ताक्षरस्य अनन्तरमेव मम हस्ताक्षरः स्यात् इति संविधानानुसारम् उचितम्” । सः तस्याः विरोधेन पदत्यागं कर्तुं शक्तुयात् । परन्तु सः असंविधानिकरीत्या तस्मिन् प्रस्तावे हस्ताक्षरम् अकरोत् । तस्मिन् प्रस्तावे हस्ताक्षरः कृत्वा राष्ट्रात् उत्कृष्टः पक्षः इति विचारधारुनासारं इन्दिरा गान्धी इत्यस्यै भारतीयसंविधानस्य अपमानं कर्तुम् अवसरम् अयच्छत् सः । भारताय, फखरुद्दी अली अबमद इत्यस्मै, इन्दिरा गान्धी इत्यस्यै च सः आपत्कालः कलङ्कः एव ।

फखरुद्दीन अली अहमद इत्यस्य मृत्युः

डा. जाकिर हुसैन यथा स्वकार्यकालं विना समाप्य एव देहम् अत्यजत्, तथैव फखरुद्दीन अली अहमद इत्यनेना सह अभूत् । १९७७ तमस्य वर्षस्य 'फरवरी'-मासस्य एकादशे दिनाङ्के सोऽपि राष्ट्रपतिभवने हृदयाघातेन मृतः ।

बाह्यानुन्धाः

http://pastpresidentsofindia.indiapress.org/ahmed.html

http://www.britannica.com/EBchecked/topic/10208/Fakhruddin-Ali-Ahmed

http://www.rrtd.nic.in/fakhruddinaliahmed.htm

http://www.gloriousindia.com/biographies/fakhruddin_ali_ahmed.html

http://www.mapsofindia.com/who-is-who/government-politics/fakhruddin-ali-ahmed.html


"https://sa.wikipedia.org/w/index.php?title=फखरुद्दीन_अली_अहमद&oldid=270909" इत्यस्माद् प्रतिप्राप्तम्