केवलादेव्-राष्ट्रियोद्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
विश्वपरम्परास्थानानि

केवलदेवराष्ट्रियोद्यानम्
राष्ट्रम् भारतम्भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः x
अनुबन्धाः ३४०
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८५  (नवमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

केवलादेवराष्ट्रियोद्यानं भारतदेशस्य राजस्थानराज्ये अस्ति । एतत् किञ्चित् प्रसिद्धं पक्षिधाम । पूर्वम् अस्य नाम भरतपुरखगोद्यानम् इति आसीत् । केवलदेवराष्ट्रियोद्याने प्रतिशिशिरकालं सहस्राधिकाः सैबीरियाबलाकाः आगच्छन्ति । सहस्राधिकक्रोषकेभ्यः आगच्छताम् एतेषां सन्ततीनां विनाशकालः सन्निहितः । सामान्यतः २३०जातीयाः बलाकाः अत्र वासस्थानं कल्पितवन्तः । क्रि.श. १९८५तमे वर्षे एतदुद्यानं विश्वपरम्पारास्थानस्य आवल्यां युनेस्कोद्वारा प्रवेशितम् । अधुना एतत् यात्रिकानां प्रसिद्धं पर्यटनकेन्द्रम् अस्ति । बहुसङ्ख्याकाः खगजीवविज्ञानिनः शीतकाले अत्र आयान्ति ।

इतिहासः[सम्पादयतु]

अस्य पक्षिविहारस्थानस्य निर्माणं २५०वर्षेभ्यः पूर्वं कृतम् । अस्य नाम केवलादेवस्य (शिवः) मन्दिरस्य नाम अङ्कितम् । एतन्मन्दिरं तु पक्षिविहरधाम्नि एव प्रतिष्ठापितम् । एतत् प्राकृर्तिकप्रवणः इति कारणेन सर्वदा वर्षाकाले अत्र महापूरः आगच्छति । भरतपुरस्य महाराजः सूरजमलः (क्रि.श. १७२६ तः १७६३) जलबन्धं निर्मितवान् यत्र गम्भीरा बाणगङ्गा इति नदिद्वयस्य सङ्गमः अस्ति । एतत् राष्ट्रियोद्यानं भरपुरस्य महाराजानां मृगयात्रायाः प्रियतमं स्थानम् आसीत् यस्य परम्प्ररा क्रि.श. १८५०तमकालात् पूर्वम् आसीत् । अत्र आङ्ग्ल वैसरायस्य सम्माननार्थं खगानां मृगाया आयोजिता भवति स्म । क्रि.श.१९३६तमे वर्षे सामान्यतः ४२७३खगानां मारणम् एकस्मिन् एव दिने कृतम् । तस्मिन् काले भारते लिनलिथ्गो गवर्नर् जनरल् आसीत् यः स्वसहवर्तिना विटर् होप् इत्यनेन सह मिलित्वा मृगयाम् अकरोत् । भारतस्य स्वातन्त्र्यप्राप्तेः पश्चात् क्रि.श. १९७२तमवर्षपर्यन्तं भरतपुरस्य पूर्वराजस्य तस्य क्षेत्रे मृगयां कर्तुम् अनुमतिः आसीत् । किन्तु क्रि.श. १९८२तमवर्षतः एतस्मात् उद्यानात् तृणस्वीकरार्थमपि प्रतिबन्धः अस्ति । एतस्मात् कारणात् गुर्जरजनानां सर्वकारस्य च मध्ये सर्वदा कलहः सम्भवति ।

चित्रखगसमूहः[सम्पादयतु]

एतत् पक्षिधाम शिशिरर्तौ शीतकाले विशिष्टानां विरलदर्शनानां खगानाम् आवासः भवति । सैबेरियस्य बलाकाः, गोमराः, उत्तरीशाह चकवा, जलपक्षी, लालसरः, बत्तखः आद्ययः विचित्राः पक्षिणः विलुप्तप्रायाः अत्र दृश्यन्ते ।

अपायः[सम्पादयतु]

क्रि.श.२००४तमवर्षे वसुन्धरा राजे इत्यस्याः सर्वकारः कृषकानाम् आग्रहस्य पुरतः अवनतः अभवत् । अतः पक्षिधाम्नि प्रवहणस्य जलं स्थगितम् । अस्य परिणामवशात् । एतस्मात् निर्णयकारणात् परिसरे भयानकः परिणामः आभवत् । नदितटस्य पङ्कभूमिः शुष्का अप्रयोजिका अभवत् । अधिककाधिकपक्षिणः उडीय सन्तानोत्पत्तये अन्यत्र अगच्छन् । अनेके खगाः देहलीतः ९०की.मी.दूरे गङ्गादीतटे स्थितं गढमुक्तेश्वरः इति उत्तरप्रदेशराज्यस्य स्थानम् अगच्छन् ।

बाह्यानुबन्धाः[सम्पादयतु]