घृश्णेश्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Grishneshwar Jyotirlinga
Grishneshwar Jyotirlinga is located in Maharashtra
Grishneshwar Jyotirlinga
Grishneshwar Jyotirlinga
Location in Maharashtra[१]
भौगोलिकस्थितिः: १९°३७′१४″ उत्तरदिक् ७५°१४′२५″ पूर्वदिक् / 19.62056°उत्तरदिक् 75.24028°पूर्वदिक् / १९.६२०५६; ७५.२४०२८निर्देशाङ्कः : १९°३७′१४″ उत्तरदिक् ७५°१४′२५″ पूर्वदिक् / 19.62056°उत्तरदिक् 75.24028°पूर्वदिक् / १९.६२०५६; ७५.२४०२८
अवस्थितिः
देशः: India
राज्यम्: Maharastra
मण्डलम्: Aurangabad
अवस्थितिः: Daulatabad
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: Grishneshwar (Lord Shiva)

द्वादश ज्योतिर्लिङ्गानाम् आवल्यां घुश्मेश्वरः द्वादशं ज्योतिर्लिङ्गम् अस्ति । एतत् क्षेत्रं महाराष्ट्रराज्ये अस्ति । सुप्रसिद्धात् एल्लोरातः अर्धमैल् दूरे अस्ति घुश्मेश्वरक्षेत्रम् । अस्मात् क्षेत्रात् अनतिदूरे धारेश्वरनामकं शिवलिङ्गम् अस्ति । अत्रैव एकनाथमहाराजस्य गुरोः श्रीजनार्दनमहाराजस्य स्मारकम् अपि अस्ति । घृष्णेश्वर-देवगिरिदुर्गयोः मध्ये सहस्रलिङ्गपातालेश्वरमन्दिरं, सूर्येश्वरमन्दिरं, सूर्यकुण्ड-शिवकुण्डनामकौ द्वौ सरोवरौ च सन्ति ।

महाराष्ट्रस्य एल्लोरायां विद्यमानं घुश्मेश्वरमन्दिरम्

अस्य क्षेत्रस्य विषये काचित् कथा श्रूयते – अथ कदाचित् देवगिरौ सुधर्मनामकः कश्चन ब्राह्मणः आसीत् । तस्य पत्नी सुदेहा । तयोः पुत्रः नासीत् । पुत्रप्राप्त्यर्थम् अन्यां काञ्चित् वृणोतु इति पत्युः आग्रहम् अकरोत् सुदेहा । स्वानुजया घृष्ण्या सह पत्युः विवाहम् अपि अकारयत् सा । सहोदर्योः मध्ये अन्योन्यता आसीत् । घृष्णी परमशिवभक्ता आसीत् । प्रतिदिनं सा नियतरूपेण १०१ पार्थिवशिवलिङ्गानि निर्माय तानि विधिपूर्वकं पूजयित्वा सरोवरे तेषां शिवलिङ्गानां विसर्जनं करोति स्म । शिवस्य अनुग्रहेण सा पुत्रवती सञ्जाता । पुत्रः यथा यथा वर्धितः तथा तथा दुर्दैववशात् सुदेहायाम् घृष्ण्याः पुत्रविषयिका असूया अपि अवर्धत । कालान्तरे पुत्रस्य विवाहः अपि सञ्जातः । पुत्रस्य कारणादेव गृहे मम स्थानं न्यूनं जायमानम् अस्ति इति अचिन्तयत् सुदेहा । तदनन्तरं सोढुम् अशक्ता सा पुत्रं मारयित्वा सरोवरे अक्षिपत् । तेन दुःखिता स्नुषा श्वश्र्वाः घृष्ण्याः समीपम् अगच्छत् । तदा घृष्णी शिवपूजारता आसीत् । पुत्रस्य मरणविषयं ज्ञात्वा अपि सा विचलिता न जाता । सा शिवपूजां समाप्य शिवलिङ्गानां विसर्जनार्थं सरोवरम् अगच्छत् । तदा सरोवरात् तस्याः पुत्रः उत्थाय आगतवान् । तस्य मरणेन सा यथा दुःखिता न जाता तथैव तस्य पुनरागमनेन हर्षिता अपि न जाता । सर्वम् अपि शिवस्य लीलानाटकम् इति अचिन्तयत् घृष्णी । तस्याः भक्त्या सन्तुष्टः शिवः तत्रैव प्रत्यक्षः अभवत् । तस्याः अग्रजां सुदेहां त्रिशूलेन मारयितुम् उद्युक्तं शिवम् अवरुध्य "तां क्षाम्यतु” इति प्रार्थितवती घृष्णी ।

घृष्ण्याः प्रार्थनानुसारं शिवः तत्रैव लिङ्गरूपेण अतिष्ठत् । तदेव स्थानं घुश्मेश्वरनाम्ना प्रसिद्धं सञ्जातम् ।

टिप्पणी[सम्पादयतु]

  1. Grishneshwar Aurangabad GPS Govt of Maharashtra

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=घृश्णेश्वरः&oldid=398149" इत्यस्माद् पुनः प्राप्तिः