आग्नेयजम्बुद्वीपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिणपूर्वजम्बुद्वीपः इत्यस्मात् पुनर्निर्दिष्टम्)
आग्नेयजम्बुद्वीपः
Southeast Asia (orthographic projection).svg
विस्तीर्णम् ४५,४५,७९२ किमी (१७,५५,१४० वर्ग मील)
जनसङ्ख्या ६५,५२,९८,०४४ (तृतीया)
जनसङ्ख्यासान्द्रता १३५.६ /किमी (३५१ /वर्ग मील)
राष्ट्रीयता आग्नेयजम्बुद्वीपीय
देशाः
अवलम्बिताः
भाषाः
समयवलयानि
अन्तर्जालस्य TLD .bn, .id, .kh, .la, .mm, .my, .ph, .sg, .th, .tl, .vn
बृहत्तमनगराः

आग्नेयजम्बुद्वीपः (हिन्दी: दक्षिण पूर्व एशिया, आङ्ग्ल: Southeast Asia) जम्बुद्वीपस्य भौगोलिकदक्षिणपूर्वीयः उपप्रदेशः अस्ति, यत्र चीनदेशस्य दक्षिणदिशि, भारतीय उपमहाद्वीपस्य पूर्वदिशि, आस्ट्रेलियादेशस्य वायव्यदिशि च स्थिताः क्षेत्राणि सन्ति । दक्षिणपूर्वजम्बुद्वीपस्य उत्तरदिशि पूर्वजम्बुद्वीपः, पश्चिमे दक्षिणजम्बुद्वीपः बङ्गालखातं च, पूर्वे ओशिनिया प्रशान्तमहासागरः च, दक्षिणे आस्ट्रेलिया हिन्दुमहासागरः च । दक्षिणजम्बुद्वीपस्य ब्रिटानीय हिन्दुमहासारप्रदेशः, मालद्वीपस्य २६ प्रवालद्वीप-मध्ये द्वौ च विहाय आग्नेयजम्बुद्वीपः जम्बुद्वीपस्य अन्यः एकमात्रः उपप्रदेशः अस्ति यः दक्षिणगोलार्धस्य अन्तः अंशतः अस्ति । उपप्रदेशस्य बहुभागः अद्यापि उत्तरगोलार्धे अस्ति । पूर्वतिमोरः, इण्डोनेशियादेशस्य दक्षिणभागः च विषुववृत्तस्य दक्षिणभागे एव सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आग्नेयजम्बुद्वीपः&oldid=468313" इत्यस्माद् प्रतिप्राप्तम्