विक्रम बत्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

यूथमुख्यः विक्रम बत्रा (९ सप्तम्बर १९७४ – ७ जुलायि १९९९) एकः भारतीयः सैन्याधिकारी आसीत्। तेन कारगिलयुद्धस्य शौर्यप्रदर्शनाय भारतस्य सर्वश्रेष्ठवीरत्वपुरस्कारेण परमवीरचक्रेण सम्मानितः जातः। तदा सः भारतस्य एकस्य दुष्करतमस्य पर्वतयुद्धस्य नेतृत्वं कृतवान्। भारतीयसेनया असक्तं पाकिस्थानसेनायाः आंतरिकसंदेशे तेन शेरशाह (सिंहपतिः) इति उपाधि दत्तवन्तः।

प्रारंभिकजीवनं शिक्षा च[सम्पादयतु]

विक्रमः ९ सप्तम्बर १९७४ तमे वर्षे हिमाचलप्रदेशस्य पालमपुरनगरे अजायत। तस्य पितुः नाम गिरधारीलाल बत्रा यः सर्वकारस्य विद्यालयस्य प्राचार्यः च मातुः नाम कमलकान्ता बत्रा या शिक्षिका आसीत्। सः तस्य यमजानुजात् विशालात् चतुर्दशनिमेषपूर्वम् उद्भूत्। तयोः मात्रा तौ लवः (विक्रमम्) कुशः (विशालम्) च उपनाम अकरोत् यतः सा श्रीरामस्य भक्ता आसीत्। विक्रमस्य द्वे स्वसारौ सीमा नूतन ( नीतूः) च आसीत्। तेन तस्य प्राथमिकशिक्षा तस्य मात्रा प्राप्तम्। तदा सः माध्यमिकस्तर यावत् दयानन्दाऽङ्गलवैदिकविद्यालयपालमपुरे पठितवान्। तेन तस्य विशिष्टद्वैतीयिकशिक्षा पालमपुरस्य केन्द्रीयविद्यालये प्राप्तम्।

सः मेधावीछात्रः तीक्ष्णक्रीडकश्च आसीत्। सः युथ् पार्लियामेन्ट्री कॉम्पीटीसन् एतस्मिन् दिल्ल्यां स्वविद्यालयस्य प्रतिनिधित्वमकरोत्। सः कराटे पटललाने च अपि निपुणः आसीत्। १९९० तमे वर्षे सः तस्य यमजानुजेन सह स्वविद्यालयस्य प्रतिनिधित्वम् ऑल इण्डिया केवीएस नेशनल्स एतस्मिन् अकरोत्। सः कराटेक्रीडायां हरितापट्टिकाधारकः अपि आसीत्।

१९९२ तमे वर्षे सः द्वादशकक्षायाम् उत्तीर्णः भूत्वा चंडीगढ़स्य दयानन्दाऽङ्गलवैदिकमहाविद्यालये वैद्यकशास्त्रम् (BMSc) अधीतवान्। सः महाविद्यालये राष्ट्रीयकैडेटकौरस्य वायुपक्षम् अयुज्यत। अंतर्राज्यीयस्य राष्ट्रीयकैडेटकौरस्य शिबिरे सः वायुपक्षतः सर्वश्रेष्ठः युवशिशिक्षुः निर्णितः जातः।

सः तस्य राष्ट्रीयकैडेटकौरस्य वायुपक्षेण सह पिंजौर्वायुक्षेत्रे चत्वारिंशदिनात्मकं पैराटुप् परिशिक्षणम् आर्जत।

अग्रिमयोः द्वयोः वर्षयोः सः दयानन्दाऽङ्गलवैदिकमहाविद्यालये राष्ट्रीयकैडेटकौरस्य सेनापक्षस्य युवशिशिक्षुः आसीत्। सः स्वमहाविद्यालये युवासेवासंसर्गस्य अध्यक्षोऽपि आसीत्।

पश्चात् सः राष्ट्रीयकैडेटकौरे 'सी' प्रमाणपत्रम् अर्जयित्वा वरिष्ठान्वाधिकारिणः पदं प्राप्तवान्। १९९४ तमे वर्षे सः राष्ट्रीयकैडेटकौरस्य युवशिशिक्षुरुपेण गणतंत्रदिवसस्य खलूरिकायां भागं गृहितवान्। यदा सः गृहं प्रत्यागच्छत् तदा सः तस्य मातापितॄन् अवदत् सः सैनिकः भवितुम् इच्छति इति। तस्य मातामहः अपि भारतीयसेनायां सैनिकः आसीत्। १९९५ तमे वर्षे सः हांग्कांग्देशे पोतावलिनिगमे पोतवणिक् भवितुं चयनितः अभवत्। परन्तु सः स्वेच्छापरिवर्तनं कृत्वा तस्य मातरम् अवदत् “ धनं जीवने सर्वस्वं न भवति; मां जीवने किञ्चित् उच्चतरं करणीयः, किञ्चित् असाधारणं यत् मम राष्ट्राय गौरवं चाल्यात्।”

तस्मिनेव वर्षे सः चंडीगढ़स्य दयानन्दाऽङ्गलवैदिकमहाविद्यालयेन स्नातकपदं प्राप्तवान्।


१९९५ तमे वर्षे स्नातकपदं प्राप्य सः चण्डीगढ़े पंजाबविश्वविद्यालये प्राविशत्। तत्र सः आङ्गलभाषायाः आचार्यम् (M.A English) इति अधीतवान् यतः सः सम्मिलितरक्षासेवायाः (CDS) परिक्षार्थं सिध्येत्। सः विश्वविद्यालये सायंकालस्य कक्षासु पठति स्म च प्रातः कश्चित् यात्रानिगमे शाखासंचालकरुपेण कार्यं करोति स्म।

पितः, अहं भवतः कृते भारः न भवितुम् इच्छामि। 

— सः स्वपितरम् कथितवान् आसीत्।

१९९६ तमे वर्षे सः सम्मिलितरक्षासेवापरिक्षायां सफलीभूत्वा प्रयागराजे‌ सर्विशेस् सीलेक्शन् बोर्ड् (SBB) एनेन चयितः। सः गौण्यक्रमे  प्रथम ३५ जनानां मध्ये आसीत्। एकवर्षानन्तरं सः भारतीयसैन्याकादमीं योक्तुं विश्वविद्यालय त्यक्तवान् ।

तस्य पितुः वचनानुसारेन —

विक्रमः स्वलक्ष्यं गेषितवान् आसीत्। सः धर्मपथाय स्वमार्गं गेषितवान् आसीत् यत् तं तस्य लक्ष्यं प्रति पुरेत् — एकां सेवां प्रति या सर्वोच्चा अद्भुता च।

कारगिलयुद्धम्[सम्पादयतु]

५१४० अंशस्योपरि आधिपत्यम्[सम्पादयतु]

कैप्टन विक्रम बत्रा
विक्रम बत्रा

कारगिलयुद्धे ५१४० अंशस्योपरि आधिपत्यं स्थापयनस्य दायित्वं विक्रमस्य आसीत् । सेनाधिकारी यदा तस्मै दायित्वं यच्छन् आसीत्, तदा अधिकारी अवदत्, “विक्रम ! ध्यानेन कार्यं कुरु । सावधानो भव ।” इति । अधिकारिणः कथनस्य प्रत्युत्तरं यच्छन् विक्रमः अवदत्, “आर्य ! जानामि यत्, एतत् युद्धं यावत् अहं चिन्तयामि, तावत् सरलं नास्ति । परन्तु भवान् यावत् चिन्तयति, तावत् कठिनम् अपि नास्ति” इति । ततः सः, तस्य दलं च सप्तदशसहस्रोन्नतस्य पर्वतम् आरुह्य शत्रून् अमारयत् । ततः तैः ५१४० अंशे भारतीयत्रिरङ्गपताका आरोहिता । ततः “ये दिल माँगे मोर्..... पाकिस्थान इज़् नो मोर्” (एतत् हृदयम् अधिकम् इच्छति... पाकिस्थानम् इदानीं नास्ति) इत्यनेन जयघोषेण सः स्वदलेन सह ४८७५ अंशस्योपरि त्रिरङ्गम् आरोहयितुम् अगच्छत् । परन्तु ४८७५ अंशस्य स्थितिः अति विकटा आसीत् । ४८७५ अंशस्य सैन्यावासे शत्रूणाम् अतिकठोरम् आधिपत्यम् आसीत् । अतः विक्रमेण बुद्ध्या शत्रून् पराजेतुं योजना कृता । परन्तु तस्यां योजनायां प्राणस्य भयम् आसीत् । दलस्य योजना आसीत् यत्, “कोऽपि एकः सैनिकः शत्रूणां सम्मुखं गत्वा तैः सह युद्धं कुर्यात् । अन्ये सैनिकाः अपरमार्गेण शत्रुषु आक्रमणं कुर्युः” इति । विक्रमः शत्रुसेनायाः सम्मुखं युद्धं कर्तुम् उद्यतः । एतावता अन्ये सैनिकाः शत्रूणां नाशम् अकुर्वन् । परन्तु तावता विक्रमः हुतात्मा अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=विक्रम_बत्रा&oldid=462514" इत्यस्माद् प्रतिप्राप्तम्