शक्तिभद्रः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
शक्तिभद्रः
Śaktibhadra
जननम् सप्तमः एवं एकादशः शताब्दः मध्ये
केरळदेशे कॉडुमोन् वा आडूर् पार्श्वे
मरणम् अज्ञातम्
वृत्तिः नाटकरचयिता
राष्ट्रीयता भारतीयः
प्रकारः सम्स्क्ऱुतनाटकम्
विषयाः इतिहासः
प्रमुखकृतयः आश्चर्यचूडामणी

शक्तिभद्रः (Shaktibhadra) केरलीयः नाटककर्ता भवति । अयं महाकविः क्रिस्तोः ८-९ शतकयोः मध्ये जीवनं निर्धारितवानिति श्रूयते । अत एव शङकराचार्यस्य समकालिकोयं महाकविः । अस्य जननीजनकयोः विषये काऽपि कींवदन्ती न श्रूयते । अयम् आश्चर्यचूडामणिः इति नाटकमेकं रचयामास । अत्र नाटके सूत्रधारवचनैः अयं केरलीय इति स्पष्टतया अवगम्यते । यथा-

सूत्रधारः- आर्ये! दक्षिणापथादागतम् आश्चर्यचूडामणिं नाम नाटकं......।
नटी- युज्यते, रत्नाकरः खलु प्रदेशः ।क्ष्

एतेन अयं केरळदेशीयः इति निर्विवादः । अपि तु एषः केरळ देशीयानां यथा परिचितः तथा नान्येषाम् इति ज्ञातुं शक्यते । किञ्च-

सूत्रधारः- "आश्चर्यचूडामणिरिति नाटकम् अभिनेयम् । आर्ये श्रूयताम्, उन्मादवासवदत्ताप्रभृतीनाम् काव्यानां कर्तुः कवेः शक्तिभद्रस्य इदं प्रज्ञाविलसितम् ।

एतेन ज्ञायते यत्, शक्तिभद्रः उन्मादवासवदत्ता इति नामकं काव्यमेकम् अतनोदिति विदितं भवति । काव्यमिदं तु न लब्धम् ।

शक्तिभद्रस्य कालविचारः[सम्पादयतु]

केरळदेशीयैः कथाभिः अयं श्रीशङ्कराचार्याणां समकालीनः इति ज्ञातुं शक्यते । अतः शक्तिभद्रस्य कालः क्रि.श. ७८८तः ८२० अवधौ आसीदिति ज्ञायते । एकदा आकस्मिकेन अग्निस्पर्शेन शक्तिभद्रस्य आश्चर्यचूडामणिग्रन्थः दग्धः, अनन्तरम् श्रीशङ्कराचार्याः तं ग्रन्थं स्मृत्वा पुनः अवदन्, इति कथा अस्य विषये प्रचलिताऽस्ति । अतः शक्तिभद्रः अष्टमे शतमाने आसीदिति निश्चेतुमुचितम् । यतः श्रीशङ्कराचार्याणां कालः अष्टमं शतमानम् । अपि च दशमशतके केरलीयः कविः कुलशेखरवर्मा तपतीसंवरणम् सुभद्राधनञ्जयम् आश्चर्यमञ्जरीकथा आत्तप्रकारम् क्रमदीपिका इति पञ्च ग्रन्थान् व्यरचयत् । तेषु आश्चर्यचूडामणेः शक्तिभद्रस्य च प्रस्तुतिः दृश्यते । अतः शक्तिभद्रः ततोऽपि प्राचीनः इति निश्चप्रचम् ।

आश्चर्यचूडामणेः अनन्यता[सम्पादयतु]

रामायणकथाऽऽधारितेषु नाटकेषु चत्वारि प्रसिद्धानि । तत्र प्रथमम्, भवभूतेः उत्तररामचरितम्, द्वितीयम् शक्तिभद्रस्य "आश्चर्यचूडामणिः" ’ त्रृतीयम् मुरारिकवेः अनर्घराघवम् चतुर्थं तु राजशेखरस्य बालरामायणम् । एषु द्वितीयम् ’अद्वितीयम्’ । यतः रङ्गे प्रयोक्तुं युक्तम् उत्तररामचरितमिव समीचीनम् आश्चर्यचूडामणिरेव नान्यद् द्वयम् । अत्र नाटके अङ्कावतरणम्, विष्कम्भकश्च सामञ्जस्येन भवतः । व्याख्यानकर्तॄणाम् अभिप्रायेण अस्मिन् नाटके "अद्भुतरसः’ प्रधानो रसः । शृङ्गारः,करुणः, शान्तश्च आङ्गिकाः रसाः । यथोक्तम्-

वीरकार्याद्भुतरसभूयिष्ठत्वेन आश्चर्यकराणाम् चूडामणिरिति आश्चर्यचूडामणिरिति संज्ञा । अत्र कथासंविधानम्, पात्रसंयोजनम्, सम्भाषणम् इत्यादीनि ह्द्यानि भवन्ति, यथा सहृदयः मन्त्रमुग्धो भवेत् ।

आश्चर्यचूडामणेः कथावितानम्[सम्पादयतु]

आश्चर्यचूडामणिनाटके सप्त अङ्काः भवन्ति । अत्रैव अङ्कानुक्रमः एवं सूचितः-

पर्णशाला, शूर्पणखा, मायासीता ततः परम्, ।
जटायुषो वधो,ऽशोकवनिका,ऽप्यङ्गुलीयकम्, ।
सप्तमोऽपि ततश्चेत्थं चूडामण्यङ्ककीर्तनम् ।

एवम् प्रथमेऽङ्के चित्रकूटवने रामादीनां पर्णशालावासः । द्वितीयेऽङ्के शूर्पणखाप्रसङ्गः । तृतीयेऽङ्के मायामृगस्य सन्निवेशः आश्चर्यं जनयति । अत्र सर्वं मायामयम् । रावणः मायारामः भूत्वा एकाकिन्याः सीतायाः समीपम् आगच्छति । रावणस्य सारथिः लक्ष्मणस्य वेषं धृत्वा रथमानयति । अपि च भरतः शत्रुभिः समाक्रान्तः, सहायार्थं राममानेतुम् सारथिना सह रथं प्रेषितवान् इति वदन् मायारामेण सह सीतां रथमारोहयति । शूर्पणखा च मायासीतारूपेण रामस्मीपं गच्छति । लक्ष्मणस्तु रामवपुषं मूर्छामापन्नं मारीचं रामभ्रान्त्या उपचरति । सर्वं दृश्यं राक्षसमाया इति रावण एव सीतां समाधापयति । चतुर्थेऽङ्के मायासीतया साकम् आगच्छन्तम् रामं द्ष्ट्वा लक्ष्माणः अयं मायावीति मत्वा तेन योद्धुं सिद्धो भवति । तदा श्रीरामः स्वस्य् हस्ते विद्यमानम् अद्भुताङ्गुलीयकं दर्शयति । ततः अङ्गुलीयकस्पर्शमात्रेण मारीचः निजरूपं धरति । तं दृष्ट्वा रुदन्तीं सीतां प्रणिधापयन् रामः यदा तस्याः अश्रुमार्जनार्थं तां स्पृशति तदा निजरूपं प्राप्तवती । निर्बन्धेन पृष्टा सती रामाय रावणस्य कापट्यं निवेद्य गता । चतुर्थेऽङ्के इतः रामरूपी रावणः सीतायां मोहपरवशः सन् तस्याः केशपाशबन्धनार्थं यदा हस्तं प्रसारयति तदा तस्याः शिरसि विद्यमानस्य चूडामणेः स्पर्शः भवति । तदा रावणः निजरूपी भवति । सीता रोदिति । तद् रोदनं श्रुत्वा जटायुः रावणेन सह युध्यति । जटायुषः मरणं भवति । पञ्चमेऽङ्के अशोकवने सीतायाः विलापः, रावणस्य कोपाटोपः, आत्मानं तिर्स्कुर्वतीं सीतां रावणः हन्तुमुद्युङ्ते च । षष्ठेऽङ्के हनूमता रामाङ्गुलीयकप्रदानम् । सप्तमेऽङ्के चूडामणिप्रदानम्, रावणस्य वधः, अयोध्यागमनम् इत्यादीनि दृश्यानि विहितानि ।

शक्तिभद्रकवेः शैली[सम्पादयतु]

शक्तिभद्रः स्वनाटके कालिदासकवेः शैलीम् अनुकरोति । यथा-

गुणाः प्रमाणं न दिशां विभागः निदर्शनं नन्विदमेव तत्र ।
स्तनद्वये ते हरिचन्दनं च हारश्च नीहारमरीचिगौरः ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शक्तिभद्रः&oldid=304640" इत्यस्माद् पुनः प्राप्तिः