शिग्रुः
शिग्रुः | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Moringa oleifera Lam. | ||||||||||||||||
एषः शिग्रुः भारते वर्धमानः कश्चन शाकविशेषः । मुरुङ्गी इति अस्य नामान्तरम् । अयम् सस्यजन्यः आहारपादार्थः । एषः शिग्रुः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । स्वस्य पर्णैः, शाखोपशाखषिन्यासैः च सुन्दरी कलाकृतिः इव दृश्यते इति कारणेन शोभाञ्जनः इति अस्य अपरं नामधेयम् । अयं तीक्ष्णगुणोपेतः इति कारणेन अस्य तीक्ष्णगन्धा इत्यपि नामान्तरं विद्यते । अनेकैः औषधिगुणैः युक्तः अयं शाकरूपेण औषधिरुपेण च प्रयुज्यते ।
एषः वृक्षः भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं वृक्षः २० – २५ पादमितः उन्नतः भवति । अयं बहुशीघ्रं वर्धते । अस्य शिग्रुवृक्षस्य शाखाः पर्णानि च अत्यन्तं मृदु भवन्ति । अस्य पर्णानि १ – २ पादमितं दीर्घाणि भवन्ति । तत्र ६ – ९ पत्रकाणि भवन्ति । अस्य पर्णानि दूरे दूरे भवन्ति इत्यस्मात् तस्य वृक्षस्य अधः छाया न भवति । अस्मिन् वृक्षे जनवरितः एप्रिल्-मासाभ्यन्तरे पुष्पाणि भवन्ति । अस्य वृक्षस्य पुष्पाणि नीलवर्णयुक्तश्वेतवर्णीयानि । अस्य फलं ६ – १७ अङ्गुलं यावत् दीर्घं भवति । अस्य फलं, पर्णं, पुष्पं च यथा औषधत्वेन उपयुज्यते तथैव आहारत्वेन अपि उपयुज्यते । अस्य वृक्षस्य संस्कृतेन “शोभाञ्जनः” “मोचकः” इत्यपि नामानि सन्ति । अस्य फलेभ्यः अवलेहः अपि निर्मीयते । कटुरसयुक्तम् अस्य मूलं यूरोप्-देशेषु सर्षपस्य स्थाने उपयुज्यते । अस्य वृक्षस्य पल्लवानि पर्णानि च धेनूनाम् आहारत्वेन अपि उपयुज्यन्ते । अस्य त्वचा वल्कलं निष्कास्य रज्जुः अपि निर्मीयते ।
इतरभाषाभिः अस्य शिग्रुवृक्षस्य नामानि
[सम्पादयतु]अयं शिग्रुवृक्षः आङ्ग्लभाषया“हार्स् रेडप् ट्रेस्” (Drumstick Tree) इति उच्यते । तस्य सस्यशास्त्रीयं नाम अस्ति Moringa olifera इति । सः हिन्दीभाषया“सहिञ्जर” इति, तेलुगुभाषया“मुनगा” इति, तमिळ्भाषया “मुरुङ्गाय्” इति, मलयाळभाषया“मुरिगा” इति, मराठीभाषया“शेवणा” इति, गुजरातीभाषया“सरगपो” इति, बेङ्गालीभाषया“शिजिना” इति, कन्नडभाषया“नुग्गे मर” इति च उच्यते ।
फलषुष्पकालः
[सम्पादयतु]फेब्रवरितः –एप्रिलमासपर्यन्तं शिग्रुः पुष्पितः भवति । पुष्पागमनात् पूर्वं पर्णानि सर्वाणि निपतन्ति । पुष्पाणि नीनमिश्रितश्वेतवर्णानि भवन्ति । पुष्पाणि गुच्छरुपेण भवन्ति । अस्य फनं दीर्घं दण्डवत् भवति । अस्य षड् धाराः भवन्ति ।
प्रयोजनानि
[सम्पादयतु]आहारत्वेन सेवनस्य प्रयोजनानि
[सम्पादयतु]शिग्रोः फलपुष्पैः व्यञ्जनं क्वथितम् इत्यादिकं निर्मीय सेवनं क्रियते । अयं प्रधानतया कफपित्तयोः नाशकः । अतः जीर्णशक्तिं वर्धयति । अयम् आमाशये रक्तसञ्चारक्रियायाः वेगं वर्धयति । तेन अधिक्येन पाचकस्रावकान् उत्पादयति । अन्त्रस्य बलं वर्धयित्वा मलविसर्जने अपि साहाय्यं करोति । स्वेदग्रन्थीः उत्तेव्य स्वेदं जनयति । श्वासकोषे, श्वासनाले च विद्यमानं कफं बहिः प्रेषयति । एषः मूत्रपिण्डमपि उत्तेजयति । अतः अस्य उपयोगेन मूत्रपरिमाणः वर्धते । शिग्रुपुष्पे स्नायुरोगस्य, मांसपेशीरोगस्य विद्रधेः(Abcess)च शामकगुणः वर्तते ।
अञ्ननवत् नेत्रे प्रयोगेण लाभाः
[सम्पादयतु]शिग्रो सुवृद्धानां पर्णानां रसः अञ्जनवत् नेत्रे उपयुज्यते चेत् अनेके नेत्ररोगाः निवारिताः भवन्ति । एनं रसं मधुना मिश्रीकृत्य नेत्रे अञ्जनवत् उपयुज्यते चेत् रक्तनेत्रम्, रात्र्यन्धता, नेत्रवेदना इत्यादिः शाम्यतिः । मूर्छितं जागरितं कर्तुं अस्य रसस्य उपयोगं कुर्वन्ति स्म इति उल्लेखः ग्रन्थेषु उपलभ्यते । अतः एव शिग्रोः अक्षीवः, चक्षुष्यः इत्यपि नामानि सन्ति ।
उत्तेजकः
[सम्पादयतु]स्वस्य तीक्ष्णतागुणेन नरानुत्तेज्य सांवेदनिकनाडिसंस्थाने तत्सम्बद्धेषु अङ्गेषु च शिग्रुः महान्तं प्रभावं करोति । अस्मिन् विद्यमानय अस्फटीकीयरय अंशास्य कार्यक्षमाता स्फटिकीयसन्न्वात् अधिकः । रक्त हृदयगतौ तीव्रता, रक्तनात्मानां सङ्कोचः इत्यादिसमस्यासु आद्रिनिमिन् , एफेड्रिन् इव परिणामकारी वर्तते शिग्रुः । जीर्णाङ्गनां श्वासनालानां च स्वतन्त्रपेशीनां गतौ कुण्ठनं शिग्रुः निवारयति । हृदयोत्तेजकः अयं शिग्रुः रक्त वर्धयति । श्वथुः, हृदयविद्रधिः इत्यादीन् हृद्रोगान् शमयति ।
शिग्रुं निर्यासस्य उपयोगिता
[सम्पादयतु]शिग्रुवृक्षं स्वल्पं व्रणितं कुर्मः चेत् ततः निर्यासः निर्गच्छति ।
- •एनं निर्यासं तिलतैलेन मिश्रीकृत्य कर्णे स्थापयन्ति चेत् श्रवणशक्तिः वर्धते
- • निर्यासं क्षीरेण मिश्रीकृत्य ललाटे लेपयन्ति चेत् शिरोवेदना त्वरितं उपशाम्यति ।
शिग्रुत्वचः उपयोगिता
[सम्पादयतु]शिग्रो त्वचः कुट्टयित्वा कल्कः सज्जीकरणीयः । अस्य लेपनेन जानुशोथः (Synovites) शाम्यति । प्रतिदिनं ३-४ वारम् अस्य लेपनं करणीयम् । मूलस्य त्वचः तिलतैलेन सह कषायाः निर्मातव्यः । अस्य सेवनेन जलोदर रोगः शाम्यति । कण्ठस्फोटेन यदा ध्वनिहानिः भवति तदा अस्य कषायेन गण्डूषः करणीयः । तेन बहु हितानुभवः भवति । त्वचः कषाये मधुं योजयित्वा पिबति चेत् क्रिमिदोषः परिहृतः भवति ।
शिग्रोः सामान्यः उपयोगः
[सम्पादयतु]आमवाते, पक्षाधाते च शिग्रोः कषायसेवनं परिणामकारी । अस्मिन् गन्धकस्य अंशः भवति । अतः लेह्यः परिणामकारी भवति । शस्त्रचिकित्सातः पूर्वं अस्य कषायस्य पानेन २५% शीघ्रं शमनं भवति इति संशोधनेन ज्ञातमस्ति । शिघ्रोः पर्णैः सारं निर्मीय सेवनेन हिक्का निवारिता भवति । मूत्रकोषे पाषाणः भवति चेत् शिग्रोः मूलस्य कषायः सेवनीयः । पर्णानि पिष्ट्वा लेपयन्ति चेत् मूलव्याधेः अङ्कुरः नष्टः भवति । प्रधानमूलस्य अहितम् खण्डं धृष्ट्वा लेपयन्ति चेत् दद्रुमण्डलं उपशाम्यति ।
शिग्रोः अहितकरसेवनेन दाहादिपैत्तिकलक्षणानि भवितुम् अर्हन्ति । तदा क्षीरम् अथवा तादृशानि फितशाअकद्वव्यानि सेवनीयानि ।
फलस्य बीजस्य सेवनेन लाभः
[सम्पादयतु]अस्य फलं मस्तिष्कस्य हितकरं वर्तते । बीजस्य तैलं वातरोगेषु उपयुज्यते । शुकबीजानि घृतेन सह धृष्ट्वा लेपयन्ति चेत् रात्र्यन्धता, दृष्टिमान्द्यं च शाम्यति ।
संक्षिप्तचिकित्सा सूची
[सम्पादयतु]अस्य वृक्षस्य मूलस्य त्वचि “मोरिञ्जिन्” नामकः उपयोगयोग्यः अंशः अस्ति । मूले “तेरिगोस्टर्मिन्” नामकः अंशः अस्ति । अस्य शिग्रोः रसः कटुः, तिक्तः च । अयं गुणेषु लघुः, रूक्षः, तीक्ष्णः चापि । विपाके कटुः एव भवति । उष्णवीर्ययुक्तः अयम् । अस्य वृक्षस्य मूलं, त्वक्, बीजं चापि औषधत्वेन उपयुज्यते ।
- १. अस्य शिग्रुवृक्षस्य बाह्या त्वक्, पर्णं च निदाहि । शोथं निवारयतः, विदधिपाचिकं चापि ।
- २. अस्य बीजात् निर्मितं चूर्णं सस्यशिरोविरेचं करोति ।
- ३. अयं व्रणशोधं, अर्धितं (मुखस्य अर्धभागस्य पार्श्ववायुरोगः) च परिहरति ।
- ४. शिग्रोः उपयोगेन अग्निमान्द्यम्, अरुचिः, उदरसम्बद्धाः रोगाः च अपगच्छन्ति ।
- ५. अयं गुल्मं, कासं, कष्टार्तवं, रजोरोधं, मेदोरोगं च निवारयति ।
- ६. शिग्रुः शीतज्वरम् अपि परिहरति ।
- ७. अस्य मूलस्य त्वचः स्वरसः १० – २० मी.ली यावत्, बीजस्य चूर्णं १ – ३ ग्रां यावत् च सेवितुं शक्यते ।
- ८. अयं शिग्रुः रक्तपित्तेन पीडितानां, पित्तप्रकृतियुक्तानाम्, अहितप्रभावविदाहिनां च न हितकरः ।
- ९. अनेन शिग्रुणा निर्मितानि “शोभाञ्जनासिलेपः”, “श्यामादिचूर्णम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु लभ्यन्ते ।
- १०. शिरोभ्रमणं जायते चेत् शिग्रुपर्णं पच्चहरितेन सह पक्त्वा सेवते चेत् शिरोभ्रमणम् अपगच्छति ।
- ११. कामलारोगेण पीडिताः भोजने अस्य त्वचा, पर्णैः वा निर्मितस्य व्यञ्जनस्य उपयोगं कुर्युः ।
- १२. सद्यः प्रसूतानां महिलानां पादस्य अङ्गुष्ठयोः अस्य वृक्षस्य त्वक्, सर्षपं, लशुनं च संयोज्य निर्मितं पिष्टं लेपयित्वा वस्त्रबन्धनं क्रियते चेत् विषं शरीरं न प्रविशति ।
- १३. उष्णसम्बद्धेषु रोगेषु अस्य निर्यासः हितकरः ।
- १४. सुरक्षिततया प्रसवार्थम् अपि शिग्रुः उत्तमः ।
- १५. रात्रौ नेत्रयोः दृष्टिः न्यूना भवति चेत् अस्य मुष्टिद्वयमितं पर्णानि, किञ्चित् प्रमाणेन दालम्, एकं गृञ्जनकं, रागीधान्यं, गुडं च योजयित्वा पक्त्वा सेवनीयम् । एवं १५ दिनानि यावत् निरन्तरं करणीयम् ।
- १६. मूलव्याधिना पीडिताः अस्य शिग्रोः मुष्टिमितं पर्णानि अर्कक्षीरेण सह सम्पेष्य मधु योजयित्वा रात्रौ लेपयेयुः । क्रमेण मूलव्याधेः अङ्कुरः नश्यति ।
- १७. कर्णस्रावे अस्य पुष्पस्य रसः हितकरः ।
- १८. अस्मिन् “विटमिन् ए” नामकः अंशः अत्यधिकः अस्ति । तस्मात् गर्भिण्यः, अशक्ताः च अधिकतया अस्य उपयोगं कुर्युः ।