सामग्री पर जाएँ

बीरभूममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Birbhum इत्यस्मात् पुनर्निर्दिष्टम्)
बीरभूममण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः बर्धमान
केन्द्रनगरम् सिउरि, बीरभूम
Area
  Total ४,५४५ km
Population
 (2011)
  Total ३,५०२,३८७
  Density ७७१/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि बीरभूम, बोलपुर,
Website http://www.birbhum.nic.in/

बीरभूम(Birbhum,बङ्गला-বীরভূম জেলা)) इति भारतवर्षस्य पश्चिमबङ्गराज्यस्य एकं प्रशासनिकमण्डलम् । अस्य मण्डलस्य केन्द्रनगरं सिउरि ।

भौगोलिकम्

[सम्पादयतु]

बीरभूम-मण्डलस्य विस्तारः ४५४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य जनपदम् परितः मुर्शिदाबादजनपदम्, बर्धमानजनपदम्, झारखण्डराज्यम् च अस्ति। अस्मिन् मण्डले १३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अजया, मयूराक्षि, कोपाइ, बकरेश्वर, ब्रह्मानि, इत्यादि नद्यः प्रवहन्ति ।

जनसङ्ख्या

[सम्पादयतु]

२००१ जनगणनानुगुणम् बीरभूम-मण्डलस्य जनसङ्ख्या ३५०२३८७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७७१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५६ अस्ति । अत्र साक्षरता ७०.९% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

१.सुरी

२.बोल्पुरम्

३.रामपुरतम्

वीक्षणीयस्थलानि

[सम्पादयतु]

औरङ्गाबादमण्डले इदं प्रसिद्धं वीक्षणीयस्थलं शान्तिनिकेतन्, पण्ड्डराजस्य डिबि च अस्ति ।

नामौचित्यम्

[सम्पादयतु]
बीरभूमौ महावीरस्य मूर्तिः
बीरभूमौ महावीरस्य मूर्तिः

वीरभूमिः इति संस्कृतशब्दात् प्रादेशिकबीरभूमशब्दस्य निष्पत्तिः । अत्र "वीरः" नाम जैनतीर्थङ्करमहावीरः, तस्य भूमिः वीरभूमिः इति । जैनागमग्रन्थः आचारङ्गसंहितायां महावीरस्य "राढभूमिभ्रमणं"(बीरभूमप्रदेशस्य पूर्वनाम) वर्णितम् अस्ति । भिन्नमतानुसारम्, अत्र राजत्वकारी वीरराजवंशस्य नामानुसारेण मण्डलस्य नामकरणम् अभवत् इति । तथा सन्थालीभाषायां 'बीर'शब्दस्य अर्थः अरण्यमिति । तदनुसृत्य बीरभूमिः नाम अरण्यभूमिः इति सिद्ध्यति ।

वैशिष्ट्यम्

[सम्पादयतु]

बीरभूममण्डलं सांस्कृतिक-ऐतिह्यस्वातन्त्र्यात् समग्रपश्चिमबङ्गे विशिष्टस्थानं भजते । बीरभूममण्डलस्य पश्चिमभागः अरण्यमयः । तथा पूर्वदिशि पललसमृद्धम् उर्वरकृषिक्षेत्रम् अस्ति । मण्डलमिदम् सांस्कृतिक-धार्मिकभावस्य पीठभूमिः । विश्वकविरवीन्द्रनाथेन प्रतिष्ठितः विश्वभारती विश्वविद्यालयः अन्ताराष्ट्रियख्यातिसम्पन्नः विश्वविद्यालयः अत्रैव वर्तते । सुसम्मृद्धे अस्मिन् मण्डले पौषोत्सवः वैभवेन आचर्यते ।

अवस्थानम्

[सम्पादयतु]
  • बीरभूममण्डलस्य अवस्थानम्-
उत्तर अक्षांशः २३° ३२'३०" - २४° ३५' ०" (कर्कटक्रान्तिरेखा) तथा पूर्वरेखांशः ८७°५'४५" -८८° १' ४०"

बीरभूममण्डलस्य पश्चिमांशः पुराकाले वज्रभूमिः अथवा वज्जभूमिः (प्राकृतरूपम्) नाम्ना ख्यातः आसीत् । प्रान्तेऽस्मिन् ऊषरतरङ्गायितोच्चभूमिः वर्तते । परन्तु मण्डलस्य पूर्वांशः तु उर्वरतरः । राढप्रदेशस्य उत्तर-पूर्वदिशि अवस्थितस्य अस्य मण्डलस्य पूर्वांशः गाङ्गेयसमभूमौ अन्तर्भवति ।

वातावरणम्

[सम्पादयतु]

बीरभूममण्डलस्य वातावरणं शुष्क-चरमभावापन्नं च । पूर्वांशस्य वातावरणं मृदुः । सामान्यतः ग्रीष्मकाले ४०º सेण्टिग्रेड्परिमितं तथा शिशिरकाले १०º सेन्टिग्रेड्परिमितं तापमानम् अत्र भवति । वार्षिकवृष्टेः परिमाणम् - १४०५ -१२१२ मिलिमिटर्-परिमितम् ।

नद-नद्याः

[सम्पादयतु]

बीरभूममण्डले बहुनद-नद्याः प्रवहन्ति । तासु अजयः, मयूराक्षी(मोर), कोपाइ, वक्रेश्वरः, ब्राह्मणी, द्वारका, हिंलो, बांशलै इत्याद्याः उल्लेखयोग्याः ।

इतिहासः

[सम्पादयतु]

प्राचीनयुगः

[सम्पादयतु]
ऐतिहासिकवीरभूमिः
ऐतिहासिकवीरभूमिः

बीरभूममण्डले प्रत्नस्थलानि बहुत्र दृश्यन्ते, यथा- आउसप्रदेशस्य पाण्डुराज्ञः स्तूपादयः (बाङ्गला- আউসগ্রামের পাণ্ডুরাজার ঢিবি) ताम्रप्रस्तरयुगस्य निदर्शनानि । आचाराङ्गसूत्रम् इति जैनागमग्रन्थानुसारं सर्वशेषतीर्थङ्करः महावीरः अत्र आगतवान् । क्रैस्तपूर्वपञ्चमशतके अस्य प्रान्तस्य नाम लाढदेशः आसीत् । दिव्यावदानम् इति बौद्धग्रन्थम् आधारीकृत्य डां अतुल सुर् प्रतिपादितवान् यत्- भगवान् गौतमबुद्धः अत्र धर्मप्रचारं कृतवान् इति ।

मध्ययुगः

[सम्पादयतु]

बीरभूममण्डले क्रैस्तवीय त्रयोदशशतके मुस्लिमशासनम् आसीत् । तथापि मुस्लिमशासनं सम्पूर्णमण्डले नासीत्(पश्चिमांशे केवलम्) । वस्तुतः प्रान्तोऽयं वीरः इति स्थानीयहिन्दूराजवंशेन शासितासीत् । तेषां राजत्वस्य ध्वंसावशेषाः हेतमपुरे, वीरसिंहपुरे तथा राजनगरे इदानीमपि सन्ति । पौराणिकविवरणानुसारं वज्जभूमिः वा वज्रभूमिः(पश्चिमबीरभूम) हिन्दूतान्त्रिकक्रियायाः पीठभूमिः आसीत् । ऐतिहासिकस्य डां अतुल सुर्-महोदयस्य मतानुसारं वज्रभूमेः जनवसतिविरलता धर्मीय-आचारानुष्ठानादि पालने अनुकूला आसीत् । तान्त्रिकपरिप्रेक्षितेन बहुग्रन्थकारेण कामकोटी इति अविधया मण्डलमिदं वर्णितमस्ति । शाक्त-बौद्धतान्त्रिकाः तन्त्रसाधनार्थमत्र बहुमन्दिराणि निर्मितवन्तः। अष्टादशशक्तिपीठेषु अन्यतमं तारापीठम् अत्रैव अस्ति ।

आधुनिकयुगः

[सम्पादयतु]

१७८७ तमे वर्षे इस्ट् इन्डिया संस्थायाः शासने बीरभूम नामकस्य अस्य प्रशासनिकमण्डलस्य निर्माणम् अभवत् । पुराकाले प्रान्तोऽयं मुर्शिदाबादमण्डलस्य अंशः आसीत् । नवनिर्मितबीरभूममण्डलं वर्तमानस्वरूपतः बृहदासीत् । १७९३ वर्षपर्यन्तं विष्णुपुरं(वर्तमाने वांकुडामण्डलम्) बीरभूममण्डले आसीत् । १८५७ तमे वर्षे सेनाविद्रोहसमये अस्य मण्डलस्य विस्तृतिः देवघरपर्यन्तम् आसीत् । १८५५ वर्षे अविभक्तबीरभूममण्डले सन्थालिविद्रोहात् आदिवासिभिः अध्युषितस्य पश्चिमप्रान्तस्य विभाजनस्य आशुप्रयोजनम् सर्वकारेण अनुभूतमासीत् । तदर्थं कर्तृपक्षेण विद्रोहदमनानन्तरं मण्डलस्य विभाजनमपि कृतमासीत् । इदानीमपि बीरभूममण्डले सन्थालिविद्रोहस्य सिधु-कान्हु इति वीरनायकयोः विजयदिवसरूपेण संपाल्य स्मृतिचारणां जनाः कुर्वन्ति ।


"https://sa.wikipedia.org/w/index.php?title=बीरभूममण्डलम्&oldid=464704" इत्यस्माद् प्रतिप्राप्तम्