श्रीसोमनाथसंस्कृतविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीसोमनाथसंस्कृतविश्वविद्यालयः

શ્રીસોમનાથ સંસ્કૃત વિશ્વવિદ્યાલય

सोमनाथ युनिवर्सिटी
विश्वविद्यालस्य प्रतीकचिह्नम्
विश्वविद्यालयस्यास्य प्रतीकचिह्नम्
स्थितिः वेरावल, गुजरातराज्यम्
स्थापनातिथिः ०४-११-२००४
ध्येयसूत्रम् पूर्णता गौरवाय
ध्येयसूत्रस्य_मूलस्थानम् मेघदूतं, पूर्वमेघः, श्लो. २०
विद्यार्थिनः ४४०० (२०१७-१८)
जालस्थानम् sssu.ac.in

श्रीसोमनाथसंस्कृतविश्वविद्यालयः ( /ˈʃhrsmənɑːthəvɪshvəvɪdjɑːləjəh/) (गुजराती: શ્રી સોમનાથ સંસ્કૃત વિશ્વવિદ્યાલય, आङ्ग्ल: Shree Somnath Sanskrit University) गुजरातराज्यस्य सौराष्ट्रविभागे गीर-सोमनाथ-मण्डले स्थितः कश्चन विश्वविद्यालयः। एषः राज्यस्य एकमात्रः संस्कृत-विश्वविद्यालयः वर्त्तते। “पूर्णता गौरवाय” इत्येतद् विश्वविद्यालस्यास्य ध्येयसूत्रं वर्त्तते। एतस्य विश्वविद्यालयस्य व्यापः आगुजरातराज्यम् अस्ति। अतः सम्पूर्णे राज्ये कुत्रापि संशोधनकेन्द्रं, शैक्षणिककेन्द्रं वा स्थापयितुं प्रभवति सः। सम्पूर्णे राज्ये पञ्चतिंशदधिकाः (३५+) महाविद्यालयाः एतस्य विश्वविद्यालस्य अङ्गभूताः वर्तन्ते।

इतिहासः[सम्पादयतु]

चतुराधिकद्विसहस्र(२००४)तमस्य वर्षस्य नवम्बर-मासस्य चतुर्थे (०४-११-२००४) दिनाङ्के गुजरातसर्वकारद्वारा अस्य विश्वविद्यालस्य स्थापना अभवत्। स्थापनायाः कार्यक्रमे तत्कालीनः मुख्यमन्त्री श्रीनरेन्द्रमोदिवर्यः सर्वकारपक्षात् संस्कृतविश्वविद्यालयं गुजरातराज्याय समर्पितवान्। पञ्चाधिकद्विसहस्र(२००५)तमस्य वर्षस्य अप्रैल-मासस्य प्रथमे (०१-०४-२००५) दिनाङ्के गुजरातसर्वकारेण विधानसभायां श्रीसोमनाथसंस्कृतविश्वविद्यालयविधेयकः (२००५) समर्थितः।[१] [२] ततः द्वितीय(२ (f))विभागस्य (section 2 (f))[३] [४] अन्तर्गततया विश्वविद्यालयानुदानायोगः षडाधिकद्विसहस्र(२००६)तमस्य वर्षस्य फरवरी-मासस्य सप्तदशे (१७-०२-२००६) दिना्ङ्के एनं विश्वविद्यालयं स्वस्य मानितविश्वविद्यालयानां सूच्याम् अयोजयत्। [५] [६] [७] श्रीसोमनाथन्यासः (एषः न्यासः एव सोमनाथमन्दिरस्य दायित्वं वहते।) एतस्मै विश्वविद्यालयाय सप्तदश(१७)प्रहल-परिमतं (acre) यावत् भूभागम् अनुदानत्वेन प्रदत्तवान्। ततः २००६-०७ मध्ये श्रीसोमनाथसंस्कृतविश्वविद्यालस्य वेरावल-स्थिते परिसरे संशोधनविभागस्य, शैक्षणिकविभागस्य च प्रप्रथमं सत्रम् आरब्धम्। तस्मिन् वर्षे शैक्षणिकविभागे प्रप्रथमः स्नातकानुस्नातकयोः पाठ्यक्रमः आरब्धः। ततः कालक्रमे तत्र स्नातकोत्तरपदविका(PG)-प्रमाणपत्र-शिक्षाशास्त्र्यादयः अभ्यासक्रमाः आरब्धाः।

परिसरः[सम्पादयतु]

श्रीसोमनाथसंस्कृतविश्वविद्यालस्य परिसरे शैक्षणिक-प्रशासनीक-छात्रावास-कुलपतिनिवासादीनि भवानानि वर्तन्ते। शैक्षणिकभवनस्य नाम “प्रभासज्योतिः”, प्रशासनीकभवनस्य नाम “त्रिवेणी”, कुमारीच्छात्रावासस्य नाम “गार्गी”, कुमारच्छात्रावासस्य नाम “चन्द्रमौलिः” इति वर्तते। शैक्षणिकच्छात्रावासभवनयोः उद्घाटनं तत्कालीनेन मुख्यमन्त्रिणा आनन्दीबेन-वर्यया कृतम् आसीत्।

परिसरेतिहासः[सम्पादयतु]

श्रीसोमनाथविश्वविद्यालयस्य प्रशासनीकभवनं 'त्रिवेणी' इति कस्यचित् यवन-राज्ञः प्रासादत्वेन राराजते स्म। सः प्रासादः जुनागढ-प्रदेशस्य राज्ञः आसीत्। म्लेच्छभाषायां राज्ञां सम्बोधनं ‘नवाब’ इति भवति। अतः तस्य प्रासादस्य म्लेच्छराजस्य नाम 'नवाब' मुहम्मदतृतीयः इति प्रसिद्धम् आसीत्। मोहम्मद महाबतखान रसुलखान बाबी इति तस्य सम्पूर्णं नाम आसीत्।[८] भारतस्वतन्त्रतायाः अनन्तरं जुनागढ-प्रदेशस्य अयं म्लेच्छराजः स्वप्रदेशं पाकिस्थान-देशे अन्तर्भावयितुं निरणयत्।[९] परन्तु तस्य विरुद्धं भारतसर्वकारस्य उपप्रधानमन्त्री वल्लभवर्यः आन्दोलनं, सैन्याभियानं च अचालयत्। अन्ततो गत्वा म्लेच्छराजः भारतदेशात् निष्कासितः। ततः सः पाकिस्थानदेशस्य कराची-महानगरं गत्वा न्यवसत्।[१०] भारते या कापि तस्य प्रासादादिसम्पद् आसीत्, तस्यां भारतसर्वकारस्य आधिपत्यम् अभवत्।[११][१२][१३] तस्य सम्पत्तौ एषः प्रासादोऽपि आसीत्, यस्य निर्माणं सः विश्रामभवनत्वेन कृतवान् आसीत्। गते काले सोमनाथन्यासस्य अन्तर्गततया एतस्मिन् प्रासादे सोमनाथमहाविद्यालयः आरब्धः। सः महाविद्यालयः कालग्रस्ते सति पीहितोऽपि। ततः बहुवर्षं यावत् प्रासादोऽयं निर्मनुष्यः आसीत्। प्रसादं परितः भूभागः तु सर्वकाराधीन आसीत्। अतः तस्योपयोगः सर्वाकरेण संस्कृतविश्वविद्यालस्य निर्माणाय कर्तुं निश्चये कृते सति सः प्रासादः श्रीसोमनाथन्यासेन श्रीसोमनाथसंस्कृतविश्वविद्यालाय दानत्वेन प्रदत्तः। ततः तद्भवनं प्रशासनीकभवनम् अभवत्।

अभ्यासक्रमाः[१४] [१५][सम्पादयतु]

२००६-०७ शैक्षणिकसत्रात् स्नातक-अनुस्नातक-शिक्षाशास्त्रीत्यादयः अभासक्रमाः विश्वविद्यालयस्य स्वान्तर्भूतमहाविद्यालयेषु आरब्धाः। ततः २००७-०८ सत्रे पदविका-प्रमाणपत्रीयाभ्यासक्रमाणाम् अपि आरम्भाय केन्द्राणि प्रस्थापितानि। तेषु केन्द्रेषु मन्दिरव्यवस्थापन-पौरोहित्य-ज्योतिष-वास्तुशास्त्र-योग-संस्कृतसम्भाषण-सङ्गकाभिविन्यासपदविकानाम् अध्यायनम् आरबद्धम्। तस्मिन्नेव सत्रे अनुस्नातक-साहित्यविभागः, अनुस्नातकवेदविभागश्च आरब्धः। २०१४-१५ सत्रात् व्याकरण-दर्शन-ज्योतिष-पुराणविभागानां स्थापना अभवत्। विश्वविद्यालयस्यास्य अन्तर्भूततया ये महाविद्यालयाः सन्ति, तेषु साहित्य-व्याकरण-ज्योतिष-वेद-वेदान्त-धर्मशास्त्र-न्याय-पौरोहित्य-वास्तुशास्त्र-रामानुजवेदान्तादिविषयाः पाठ्यन्ते। ततोऽधिकं गौणत्वेन, अनिवार्यत्वेन वा आङ्ग्ल-सङ्गणक-हिन्दी-गुजराती-अर्थशास्त्र-इतिहास-समाजशास्त्र-मनोविज्ञानादयः विषयाः स्नातककक्षासु पाठ्यन्ते।

क्रमः उपाधिः विषयः प्रवेशार्हता अवधिः
विद्यावारिधिः (Ph.D) साहित्यं, वेदः, पुराणं, ज्योतिषं, न्यायः, वास्तुशास्त्रं, पौरोहित्यं, सर्वदर्शनं, व्याकरणम् संस्कृतेन सह ५५ प्रतिशताङ्कैः अनुस्नातकोत्तीर्णः ३-६ (वि.अ.आ.-नियमानुसारं)
तत्त्वाचार्यः (M.Phil) साहित्यं, वेदः, पुराणं, ज्योतिषं, न्यायः, वास्तुशास्त्रं, पौरोहित्यं, सर्वदर्शनं, व्याकरणम् संस्कृतेन सह अनुस्नातकोत्तीर्णः १ वर्षम्
आचार्यः (M.A.) अनुस्नातकः साहित्यं, वेदः, पुराणं, ज्योतिषं, न्यायः, वास्तुशास्त्रं, पौरोहित्यं, सर्वदर्शनं, व्याकरणम् संस्कृतेन सह स्नातकोत्तीर्णः २ वर्षम्
सङ्गणकाभिविन्यासे अनुस्नातकोत्तरपदविका (P.G.D.C.A) सङ्गणकम् स्नातकोत्तीर्णः १ वर्षम्
शास्त्री (B.A.) स्नातकः साहित्यं, वेदः, पुराणं, ज्योतिषं, न्यायः, वास्तुशास्त्रं, पौरोहित्यं, सर्वदर्शनं, व्याकरणम् कस्मिन्नपि प्रवाहे द्वादशकक्षोत्तीर्णः (12th) २ वर्षम्
पदविका (Diploma) योगः, मन्दिरव्यवस्थापनं, ज्योतिषं, वास्तुशास्त्रं, कर्मकाण्डः, संस्कृतसम्भाषणम् द्वादशकक्षोत्तीर्णः (१२th) १ वर्षम्
प्रमाणपत्रम् (Certificate) योगः, कर्मकाण्डः दशमकक्षोत्तीर्णः (१०th) ६ मासाः

विद्यावारिधिः[सम्पादयतु]

विद्यावारिधिः आङ्ग्लभाषायां Ph.D इति प्रसिद्धम् अस्ति। एतस्मिन् विश्वविद्यालये विद्यावारिधये पञ्जीकरणाय प्रवेशपरीक्षा दातव्या भवति। विद्यावारिधेः शोधप्रबन्धस्य प्रदानं न्यूनातिन्यूनं 3 वर्षेषु, अधिकाधिकं 6 वर्षेषु च भवितुम् अर्हति। 3 वर्षाणाम् अनन्तरं शोधसारः प्रदातुं शक्यते। शोधसारस्य एकवर्षाभ्यान्तरे एव शोधप्रबन्धः प्रदातव्यः भवति, अन्यथा पुनः शोधसारः प्रदाय शोधप्रबन्धः प्रदातव्यः भवति।

ग्रन्थालयः[सम्पादयतु]

'शारदाभवनम्' इति विश्वविद्यालयस्यास्य ग्रन्थालयस्य नामाभिधानं वर्तते। ग्रन्थालये अध्यनखण्डस्य, पुस्तकालयस्य च समावेशो भवति। पुस्तकानां सङ्ख्या द्वादशसहस्रम् (१२,०००) अस्ति। शैक्षणिक-सान्दर्भिक-संशोधनात्मक-विशिष्ट-स्पर्धात्मक-विभागेषु तानि पुस्तकानि विभक्तानि भवन्ति। ग्रन्थालयस्य समयः १०:३० तः ६:१० अस्ति। पुस्तक-आदान-प्रदानकालः ११:०० तः ५:३० पर्यन्तं भवति। सः ग्रन्थालयः राज्यसर्वकारेण घोषितावकाशेषु, प्रति रविवासरे, विश्वविद्यालप्रबन्धनाय घोषितावकाशेषु च पीहितो भवति। ग्रन्थालये त्रिवेणी-सन्दर्भगन्थानां कश्चन पुस्तकसमूहः अपि वर्तते, यस्मिन् विद्यमानाः ग्रन्थाः केवलं प्राध्यापकाः एव स्वीकर्तुं प्रभवन्ति। ग्रन्थालयेऽस्मिन् सन्दर्भग्रन्थः, मातृकाग्रन्थः, अलभ्यपुस्तकं, सामयिकं, शोधप्रबन्धः, शब्दकोशः इति प्रकारकाः ग्रन्थाः प्राप्यन्ते।

प्रकाशनम्[सम्पादयतु]

श्रीसोमनाथसंस्कृतविश्वविद्यालये प्रकाशितानां ग्रन्थानाम् आवलिः
क्रमः संस्कृतनाम आङ्ग्लनाम लेखकः/सम्पादकः (संस्कृतम्) लेखकः/सम्पादकः (आङ्ग्लम्) भाषा पृष्ठानि प्रकाशनस्य वर्षम् ISBN No. मूल्यम् टिप्पणी
1 वैदिकसाहित्यचरितम् A History of Vedic Literature (In Sanskrit) (Translation of Chpt. I-IX of Professor Macdonell's Hisotry of Sanskrit Literature) पि. पि. सुब्रह्मण्यशास्त्री -        के. यल्. व्यासरायशासत्री च P. P. Subrahmanya Shastri ; and K L Vyasaray Shatri Sanskrit xviii, 236 p. 2014 978-93-83097-03-06 200 उपलब्धम्
2 दशरुपकप्रभा Dasharupakprabha सुरेशकुमार टी व्यास Sureshkumar T Vyas Sanskrit iii, 76 p. 2013 978-93-83-097-09-8 50 उपलब्धम्
3 केसरीसिंहः चारणः (बारहठः) Kesarisinh Charan शिवदान गढवी / अनुवादक ललितः पटेलः Shivdan Gadhvi / Translator Lalit Patel Translated from Gujarati into Sanskrit x, 105 p. 2013 978-93-83097-04-3 50 उपलब्धम्
4 दार्शनिकी शिक्षाधारा Darshaniki Shikshadhara रामचन्द्रुल बालाजी Ramchandrul Balaji Sanskrit vi, 160 p. 2013 978-93-83097-05-0 100 उपलब्धम्
5 भक्तिविषयकाः सिद्धान्ताः Bhakti Vishayaka Siddhanta सुरेशकुमार टी व्यास Sureshkumar T Vyas Sanskrit vi, 97 p. 2013 978-93-83097-10-4 100 उपलब्धम्
6 एकवीरा Eekvira विश्वनाथ सत्यनारायण / अनुवादकः श्री ति.गु. वसन्तलक्ष्मीः Vishwanath Satyanarayana /  Translated from Telgu into Sanskrit iii, 115 p. 2013 978-93-83097-07-4 100 उपलब्धम्
7 काव्यगुणदर्शे रघुवंशविमर्शः Kavyagundarshe Raghuvamsha Vimarsha र. कृष्णमाचार्य R Krishnamacharaya Sanskrit x, 86 p. 2013 978-93-83097-06-7 100 उपलब्धम्
8 शिक्षादार्शनिकराद्धान्त Shiksha Darshanikaradhanta ए पी सच्चिदानन्दः A P Sacchidananda Sanskrit vii, 132 p. 2013 978-93-83097-08-1 75 उपलब्धम्
9 वैदिकसाहित्येपरिचयः Vedic Shaitye Parichaya भावप्रकाश एम गांधी Bhavprakash M Gandhi Sanskrit 56 p. 2013 978-81-925721-0-9 100 उपलब्धम्
10 सुभाषितशतकम् Shubhashita Shatakam नरेन्द्रकुमार एल पण्ड्या Narendrakumar L Pandya Sanskrit 22 p. 2013 978-81-925721-8-5 50 उपलब्धम्
11 गुर्जरधरे  ! विभासि Gurjardhare  ! Vibhasi संकलनम् ललित पटेलः, पङ्कज रावल च Compiled by Lalit Patel and Pankaj Rawal Sanskrit 32 p. Jul-05 978-93-83097-02-9 20 उपलब्धम्
12 चन्द्रशेखर आझादः Chandra Shekher Azad कुलीन ग. उपाध्यायः / अनुवादकौ लिलत पटेलः, गोपाल उपाध्यायः Kulin G Upadyay / Transaltors Lalait Patel and Gopal Upadyay Translated from Gujarati into Sanskrit 62 p. 2013 978-81-925721-2-3 50 उपलब्धम्
13 शोधप्रविधिप्रवेशः (भाग-1) Shodha Vidhi Pravesh (Part - 1) देवेन्द्रनाथ पाण्डेयः Devendra Nath Pandey Sanskrit 60 p. 2013 978-93-83097-00-5 100 उपलब्धम्
14 वैदिकवाङ्मये जीवः Vedic Vangmaye Jiva शत्रुघ्न पाणिग्राही Satrughna Panigrahi Sanskrit 84 p. 2013 978-81-925721-9-2 100 उपलब्धम्
15 वैदिकसाहित्ये नारी Vedic Sahitye Nari शत्रुघ्न पाणिग्राही Satrughna Panigrahi Sanskrit 64 p. 2013 978-81-925721-7-8 100 उपलब्धम्
16 शोधज्योतिः Shodha Jyoti (A Collection of Selected Articles from Somjyoti- A quartaly Journal of University) मुख्य संपादकाः देवन्द्रनाथ पाण्डेयः, नरेन्द्रकुमार एल पण्ड्या, डॉ. जानकीशरण आचार्य Editors  : Devendra Nath Pandey ; Narndrakumar Pandya and Dr. Janakisharan Acharya Sanskrit 106 p. 2011 - 50 अनुपलब्धम्
17 निबन्धदशकम् Nibandha Shatakam रमेशचन्द्र शुक्ल Ramesh Chandra Shukla Sanskrit iii, 40 p. 2011 - 10 अनुपलब्धम्
18 अभिनयधर्मिणोः विवरणम् Abhinay Dharmino Vivaranam विष्णु पुरोहित Vishnu Purohit Sanskrit iii, 39 p. 2011 - 10 अनुपलब्धम्
19 प्रतियोगिता दर्पणः (U.G.C. J.R.F /NET/SLET) परीक्षार्थिणां कृते संस्कृतस्य तृतीयपत्रम् Pratiyogita Darpan (U.G.C. J.R.F /NET/SLET) for Paper-III रमेशचन्द्र शुक्ल Ramesh Chandra Shukla Sanskrit 42 p. 2011 - 40 अनुपलब्धम्
20 सुभाषितपीयूषम् Subhashitpiyusham संपादकाः रमेशचन्द्रशुक्लः, पङ्कज रावलः, ललित पटेलः, डाह्याभाई मोकरीयाः, भावप्रकाश गांधी Compiled by Ramesha Chandra Shukla, Pankaj Rawal, Lalit Patel, Dayabhai Mokariaya and Bhavprakash Gandhi Text in Sanskrit Translation into Hindi viii, 116 p. 2008 - 30 अनुपलब्धम्
21 खुदीरामः बोझः Khudiram Bose के पी महेता / अनुवादकौ ललित पटेलः, गोपाल उपाध्याय K P Mehta / Transators Lalit Patel and Gopal Upadyay Translated from Gujarati into Sanskrit iii, 61 p. 2013 978-81-925721-5-4 50 उपलब्धम्
22 राजा महेन्द्रप्रतापः Raja Mahendra Pratap डॉ. सञ्जीव ओझा / अनुवादकौ डा. नरेन्द्रकुमार पण्ड्या- प्रा. कालिदास कृ. ठाकर Dr. Sanjeev Oza ; Tranlsators Dr. Narendrakumar Pandya and Kalidas K Thakar Translated from Gujarati into Sanskrit 58 p. Jan-11 978-81-925721-6-1 50 उपलब्धम्
23 भाई परमानन्दः Bhai Parmanand आरती ओझा / अनुवादक पङ्कजः ठाकरः Arti Oza / Translator Pankaj Thakar Translated from Gujarati into Sanskrit 68 p. Jul-05 - 50 उपलब्धम्
24 काव्यप्रकाशाचमनम् (प्रथमाचमनम्) Kavyaprakash Achamanam (Prathamachamanam) ललित पटेलः,  पङ्कज रावलः च Lalit Patel and Pankaj Rawal Sanskrit 114 p. 2013   978-81-925721-3-0 100 उपलब्धम्
25 काव्यप्रकाशाचमनम्-द्वितीयाचमनम् (7 तः 9 उल्लासानां सरलसंस्कृतव्याख्या) Kavyaprakashachamanam-Divitiyachamanam (7 to 9 Ullasa with Sanskrit Commentary) ललित पटेलः,  पङ्कज रावलः च Lalit Patel and Pankaj Rawal Sanskrit 96 p. 2013 978-81-925721-4-7 100 उपलब्धम्
26 संस्कृतस्य विद्वांसः पण्डिताश्च Sanskrit Scholars रामचन्द्र मावलीयः / अनुवादक देवेन्द्रनाथ पाण्डेयः Ramchandra Malaviya / Translator Devendra Nath Pandey Translated from Hindi into Sanskrit 64 p. 2013 978-93-83097-11-1 50 2017 मध्ये पुनर्मुद्रणम्- पश्य क्रममं. 37
27 बिपिनचन्द्रपालः Bipin Chandra Pal कुलीन ग. उपाध्यायः / अनुवादकौ- भावप्रकाशः एम गांधी, पङ्कज एस रावलः Kulin G Upadyay / Transaltors- Bhavprakash M Gandhi and Pankaj S Rawal Translated from Gujarati into Sanskrit 50 p. 2013 978-81-925721-1-6 50 उपलब्धम्
28 स्वामी श्रद्धानन्दः Swami Shraddhananda हसमुखः रावळः / अनुवादकाः हेमेन्द्रः दवे, प्रफूल्लः पुरोहितः ललितः पटेलः Hasmukh Rawal / Translators Hemendra Dave, Prafull Purohit and Lalit Patel Sanskrit 67 2011 - 50 अनुपलब्धम्
29 नर्मदा-दर्शनम् (नर्मदायाः यानेन परिक्रमा, पादभ्याम् परिक्रमा, सम्पूर्णस्थानस्य क्रमेण वर्णनम्) Narmada Darshanam प्रभुदत्तजी ब्रह्मचारी / अनुवादकः गौरीशङ्कर जोषी Prabhdattaji Brahmachari / Translator Gauri Shankar Joshi Sanskrit 19 2011 - 10 अनुपलब्धम्
30 नरसिंह Narsinha डाह्याभाई मोकरीया Dayabhai Makaria Sanskrit 80 p. 2013 978-93-83097-12-8 - अनुपलब्धम्
31 भगवतः श्रीस्वामिनारायणस्य संक्षप्तः परिचयः Bhagwat Shri Swaminarayanasya Sankshipt Parichaya शास्त्री माधवप्रियदासजी स्वामी / अनुवादकः योगेशः पण्ड्या Shatri Madhavpriyadasji Swami / Translator Yogesh Pandya Sanskrit 22 p. 2013 - 25 2017 मध्ये पुनर्मुद्रितम्- पश्य क्रममं  41
32 जयसोमनाथः Jay Somnath कनैयालाल मुनशी / अनुवादक कृष्णप्रसाद निरौला Kaniyalal Munshi / Translator Krishna Prasad Nirola Translated from Gujarati into Sanskrit iii, 231 p. 2011 - 100 2017 मध्ये पुनर्मुद्रितम्- पश्य क्रममं  39
33 वैयाकरणसिद्धान्तभूषणसारः महामहोपाध्याय श्री कौण्डभट्टविरचितः - नरसिंहप्रियव्याख्योपेतः - प्रथम भाग (धात्वाख्यातार्थनिर्णयात्मकः) Vaiyakaran Siddhanta Bhusanasarah of Mahamahopadhyaya Sri Kaundbhatta with the commenatry of Narasimhapriya - Vol. 1 (Dhatvarthanirnaya and Akhyatarthanirnaya) कौण्ड भट्ट / व्याख्याता : कन्दाळ वेङ्कट रामकृष्णमाचार्यः Kaunda Bhatta / Commentary by Kandala Venkata Ramakrishnamacharya Sanskrit 6+xl+391 p. 2015 978-93-83097-14-2 820 उपलब्धम्
34 वैयाकरणसिद्धान्तभूषणम् - पदवाक्यप्रमाणपारावारपारीणधुरीणश्रीकौण्डभट्ट विरचितम् - प्रथमो भागः : श्रीरामयत्नशुक्लविरचितया निरञ्जनीव्याख्यया, श्रीरामकृष्णमाचार्यविरचितया प्रकाशटिप्पण्या च सहितम् The Vaiyakarana Siddhanta Bhusana of Kaunda Bhatta - Part I : with the Niranjani commentry by Ramyatna Shukla and Prakasa explantory notes by K V Ramasrishnamacharyaulu कौण्ड भट्ट / सम्पादकः के. वि रामकृष्णमाचार्यः Kaunda Bhatta / Critically edited by K V Ramakrishnamacharyulu Sanskrit xl, 592 p. 2015 978-93-83097-13-5 (SSSU); 978-81-8470-208-8 (Insti. France de Pondichery) 1200 उपलब्धम्
35 काव्यलक्ष्णम् - नरकण्ठीरवशास्त्रिप्रणींत Kavyalaxksanam of Narakanthiravasastri वी.कुटुम्बशास्त्री Vempaty kutumba Sastry Sanskrit 42 2016 978-93-83097-15-9 105 उपलब्धम्
36 छन्दः शास्त्र से विकल्पगणित का विकास Chandahsastra se vikalpaganita ka vikasa वेणुगोपाल द.हेरुर / अनुवादकः विजयकुमार अं. चौधरी  Venugopal D.Heroor/ Translated by - Vijaykumar A. Chaudhary Sanskrit xxi, 250 2016 987-93-83097-16-6 440 उपलब्धम्
37 संस्कृतस्य विद्वांसः पण्डिताश्च Samskrtasya Vidvamsah Panditasca रामचन्द्र मावलीयः/ अनुवादक: देवेन्द्रनाथ पाण्डेयः Ramchandra Malaviya / Translator Devendra Nath Pandey Translated from Hindi into Sanskrit 172 p. 2017 978-93-83097-11-1 295 उपलब्धम्
38 दीक्षान्तप्रवचनानि  Convocaion speeches प्रधान संपादक डॉ. अर्कनाथ चौधरी Chief editor - Dr. Ark Nath Chaudhary Sanskrit 87 p. 2017 978-93-83097-17-3 130 उपलब्धम्
39 जय सोमनाथः Jay Somnath कनैयालाल मुनशी / अनुवादक: कृष्णप्रसाद निरौला Kaniyalal Munshi  / Translator Krishna Prasad Nirola Translated from Gujarati into Sanskrit 258 p. 2017 978-93-83097-18-0 325 उपलब्धम्
40 वाक्यार्थज्योतिः - Vol 1 (2014-2015) Vakyarthajyotih - Vol 1 (2014-2015) सम्पादकौ - ललित पटेलः एवं जानकीशरण आचार्यः Editors - Lalitkumar Patel and Janakisharan Aacharya Sanskrit 157 p. 2017 978-93-83097-19-7 250 उपलब्धम्
41 भगवतः श्रीस्वामिनारायणस्य (संक्षप्तः परिचयः) Lord Shree Swaminarayan (Brief Introduction) शास्त्री माधवप्रियदासजी स्वामी / अनुवादकः योगेशः पण्ड्या Shatri Madhavpriyadasji Swami / Translator Yogesh Pandya Sanskrit 24 p. 2017 978-93-83097-20-3 70 उपलब्धम्
42 शान्ति-मन्दिर सिद्धपीठम् Santi-Mandira Siddhapitham आचार्य श्यामसुन्दर झा Aacharya Shyam Sundar Jha Sanskrit 250 p. 2017 978-93-83097-21-0 520 उपलब्धम्
43 कृष्णपण्डितविरचिता कैवल्यदीपिका Dr. Janakisharan Acharya डॉ. जानकीशरण आचार्य Dr. Janakisharan Acharya Sanskrit 530 p. 2018
978-93-83097-25-8 425 उपलब्धम्

महाविद्यालयानां सूचिः[१६][सम्पादयतु]

महाविद्यालयानां सूचिः Archived २०१९-०४-१२ at the Wayback Machine

अङ्कीयक्षेत्रे योगदानम्[सम्पादयतु]

विश्वविद्यालयः स्नानकोत्तरपदविकायां (PG) मध्ये सङ्गणकपरीक्षां संयुक्ततया (Online) स्वीकरोति। विश्वविद्यालयस्य महत्तमः आर्थिकव्यवहारोऽपि मुद्रारहितो भवति। भविष्यत्काले प्रमाणपत्राणाम् अङ्गीयतालके (Digilock) स्थापनम् अपि भवष्यति। प्रवेशप्रक्रिया अपि संयुक्ततया भवति।

सहपाठ्यक्रमक्रियाकलापः[सम्पादयतु]

विश्वविद्यालये, तदन्तर्गतमहाविद्यालयेषु च प्रतिवर्षं संस्कृतसप्ताहस्य आयोजनं भवति। विश्वविद्यालस्य परिसरे प्रतिवर्षं युवमहोत्सवस्य आयोजनम् अपि भवति। एतावता विश्वविद्यालये त्रयः नाट्यमहोत्सवाः, द्वे अन्ताराष्ट्रियासंगोष्ठ्यौ च अभवन्। गुजरातराज्यस्य स्वर्णिमजयन्त्याः अवसरे दशाधिकद्विसहस्र(२०१०)तमे वर्षे एकलक्षजनानां संस्कृतमहाकुम्भः अपि विश्वविद्यालयेऽस्मिन् अभवत्। तस्य महाकुम्भस्य आयोजनं गुजरातसर्वकारेण कृतमासीत्, यस्मिन् तत्कालीनः मुख्यमन्त्री नरेन्द्रमोदी सर्वकारपक्षात् उपस्थितः आसीत्। संस्कृतप्रसाराय प्रतिवर्षं विश्वविद्यालयः संस्कृतशिबिराणि आयोजयति। तानि शिबिराणि ग्रामेषु, पत्तनेषु आयोज्यन्ते, येषु सामाजिकाः जनाः विनामूल्यं संस्कृतं पठितुं पारयन्ति। प्रतिसप्ताहे एकवारं गुरुवासरे विद्यार्थिनां प्रतिभाविकासाय वाग्वर्धिनी सभा आयोज्यते। तस्यां सभायां विद्यार्थिनः स्वशास्त्रे अन्तर्भूतविषयेषु भाषणं कृत्वा स्वस्य वक्तृत्वकौशलस्य विकासं कुर्वन्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. lpd.gujarat.gov.in. "श्रीसोमनाथसंस्कृतविश्वविद्यालयविधेयकः २००५". गुजरातराज्यसर्वकारः. Archived from the original on 2017-08-02. आह्रियत २०/०६/२०१७. 
  2. lpd.gujarat.gov.in. "श्रीसोमनाथसंस्कृतविश्वविद्यालयविधेयकः २००५". गुजरातराज्यसर्वकारः. आह्रियत २०/०६/२०१७. [नष्टसम्पर्कः]
  3. indiankanoon. "Section 2(f) in The University Grants Commission Act, 1956". indiankanoon.org. आह्रियत २०/०६/२०१७. 
  4. indiankanoon. "Section 2(f) in The University Grants Commission Act, 1956". indiankanoon.org. आह्रियत २०/०६/२०१७. 
  5. ugc. "राज्यशः विश्वविद्यालयाः". ugc.ac.in. आह्रियत २०/०६/२०१७. 
  6. ugc. "सर्वेषां विश्वविद्यालयानां सूची". ugc.ac.in. आह्रियत २०/०६/२०१७. 
  7. drdo.gov. "सर्वेषां विश्वविद्यालयानां सूची". drdo.gov.in. आह्रियत २०/०६/२०१७. 
  8. ખાચર, પ્રદ્યુમન (૨૦૧૨). સોરઠ સરકાર-નવાબ મહાબતખાનજી. પ્રદ્યુમન ખાચર. ISBN 978-81-924026-0-4. 
  9. History introduction at hellojunagadh.com: "On September 15, 1947, Nawab Mohammad Mahabat Khanji III of Junagadh, a princely state located on the south-western end of Gujarat and having no common border with Pakistan, chose to accede to Pakistan ignoring Mountbatten's views, arguing that Junagadh adjoined Pakistan by sea. The rulers of two states that were subject to the suzerainty of Junagadh Mangrol and Babariawad reacted by declaring their independence from Junagadh and acceding to India."
  10. Junagadh House Karachi Retrieved Indian Express, 21 January 2004
  11. Royal Junagadh Palace[नष्टसम्पर्कः]
  12. "Juagadh Fort". Archived from the original on 2017-09-02. आह्रियत 2017-06-25. 
  13. History of Junagadh
  14. "विश्वविद्यालयस्य अभ्यासक्रमः". Archived from the original on 2017-06-13. आह्रियत 2017-06-25. 
  15. "पदविकाभ्यासक्रमः". Archived from the original on 2017-06-15. आह्रियत 2017-06-25. 
  16. "विश्वविद्यालयानां सूचिः". Archived from the original on 2017-06-23. आह्रियत 2017-06-25.