प्रवेशद्वारम्:योगदर्शनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतं ते हार्दं
प्रवेशद्वारं योगदर्शनम्

योगसम्बद्धाः ग्रन्थाः

भगवान् बुद्धः

भारतीयदर्शनशास्त्रम्
दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति । भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम् । ते भारतीया मनीषिणः ऋषयो बभूवुः । ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः । अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म । मन्त्रद्रष्टृणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते स्म । तेषामन्तःकरणे भौतिकानाम् आध्यात्मिकानाञ्च तत्त्वानां चिन्तनाय पर्याप्तम् अवसरोऽविद्यत । ते मनीषिणो विचारितवन्तः –एषा दृश्यमाणा चराचराणां महती सृष्टिः कथं सञ्जातेति । कोऽस्याः कर्त्ता रचयिता वा ? किं सः जगत्कर्त्ता द्रुष्टं शक्यते इति चेत् कथं सम्भवेत् तदीयः साक्षात्कारः ? कथं प्राणिनो जायन्ते म्रियन्ते च ? सांसारिकः प्राणी सुखदुःखमोहादिभिः ग्रस्तोऽस्ति, अतः कथं स मुक्तो भवेत् ? चिन्तनस्यैषा अजस्रं प्रवहमाना विचारधारा दर्शनस्य क्षेत्रं भारतीयमानवस्य दृष्टिकोणेन सह विकासपथे विस्तृतं कृतवती ।

(अधिकवाचनाय »)



अपेक्षिताः लेखाः

वर्गः

प्रवेशद्वारम्:योगदर्शनम्/योगसंस्थाः

प्रवेशद्वारम्:योगदर्शनम्/बाह्यसम्पर्काः