दादरा नगरहवेली च
दादरा नागरहवेली च दादरा एवं नगर हवेली દાદરા અને નગર હવેલી | |
---|---|
केन्द्रशासितप्रदेशः | |
देशः | भारतम् |
राज्यम् | दादरा नागरहवेली च |
Established | 1961-08-11 |
राजधानी | सिलवासा |
Government | |
• Administrator | Shri B.S. Bhalla, IAS |
Area | |
• Total | ४८७ km२ |
Area rank | 4th |
Population | |
• Total | ३,४२,८५३ |
• Rank | 33rd |
• Density | ७००/km२ |
भाषाः | |
• अधिकृताः | हिन्दी, गुजराती, आङ्ग्लभाषा |
Time zone | UTC+5:30 (IST) |
ISO 3166 code | IN-DN |
मण्डलानि | १ |
HDI |
0.618 (2005) |
HDI Category | high |
Website | dnh.nic.in |
दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति। क्रिस्ताब्दस्य १९५४ पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः ४९१ चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति । हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति । वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति । धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।