बालाघाटमण्डलम्
बालाघाटमण्डलम् Balaghat District | |
---|---|
बालाघाट जिला | |
बालाघाटमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे बालाघाटमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | बालाघाट, लालबर्रा, परसवाडा, बईहाड, तिरोडी, कटङ्गी, खैरलन्जी, वारशिवनी, किर्नापुर, लाणजी |
विस्तारः | ९,२२९ च. कि. मी. |
जनसङ्ख्या (२०११) | १७,०१,६९८ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७७.०९% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-५१% |
Website | http://balaghat.nic.in/ |
बालाघाटमण्डलम् ( ( शृणु) /ˈbɑːlɑːɡhɑːtəməndələm/) (हिन्दी: बालाघाट जिला, आङ्ग्ल: Balaghat district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बालाघाट इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]बालाघाटमण्डलस्य विस्तारः ९,२२९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिण-पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छत्तीसगढराज्यं, पश्चिमे सिवनीमण्डलम्, उत्तरे मण्डलामण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले वेणगङ्गानदी प्रवहति । अस्य मण्डलस्य दक्षिण-पूर्वभागे सतपुडापर्वतशृङ्खला अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं बालाघाटमण्डलस्य जनसङ्ख्या १७,०१,६९८ अस्ति । अत्र ८,४२,१७८ पुरुषाः, ८,५९,५२० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२१ अस्ति । अत्र साक्षरता ७७.०९% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- बालाघाट, लालबर्रा, परसवाडा, बईहाड, तिरोडी, कटङ्गी, खैरलन्जी, वारशिवनी, किर्नापुर, लाणजी ।
वीक्षणीयस्थलानि
[सम्पादयतु]कान्हा नेशनल पार्क, लणजी मन्दिर, नहलेसरा बांध, धूति बांध, रामपायली मन्दिर, हाटा बावली, गङ्गुलपुरा जलप्रपातः इत्येतानि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।
मण्डलामण्डलम् | ||||
सिवनीमण्डलम् | छत्तीसगढराज्यम् | |||
बालाघाटमण्डलम् | ||||
महाराष्ट्रराज्यम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये बालाघाटमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://balaghat.nic.in/
http://www.census2011.co.in/census/district/324-balaghat.html