महालिङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
महालिङ्गः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः उद्गातृदशाननम्, प्रतिराजसूयम्, आदिकाव्योदयम्, कलिप्रादुर्भावम्

महालिङ्गस्य उत महालिङ्गशास्त्रिणः जन्म १८९७ ख्रीष्टाब्दे समभूत् । तञ्जौर-मण्डल-वास्तव्येन कविना प्रतिराजसूयनाटकस्य अन्ते निजवंशस्य परिचयो लिखितः । शास्त्रिणा काव्य-कथोपन्यास-सङ्गीत-ललितकलाविषयका अनेके ग्रन्था विरचिताः । अस्य नाट्य-साहित्यं तु सारस्वतसारावताररूपं वर्तते । कविनानेन शृङ्गारनारदीयम् उभयरूपकम् । अयोध्याकाण्डं, मर्कटमार्दलिकप्रभृतीनि नाटकान्तराण्यपि प्रणीतानि ।

उद्गातृदशाननम्[सम्पादयतु]

उद्गातृ-दशाननं नाम नाटकं परमेश्वरस्य कृपा-प्राप्ति-साधनमिति प्रमाणयति सूत्रधारः । रूपकस्यास्य क्रीडास्थली हिमालयप्रदेशः ।

द्वारपालो नन्दी स्वसहचरं भृङ्गिरिटिं शिव-पार्वत्योः वैमनस्यविषये ब्रवीति । एतत्सर्वं रहस्यवार्तां शृण्वन्तीं विजयां प्रति शिवस्य शापः प्रवर्तितः। अत्रान्तरे राक्षसास्तं प्रदेशमाचक्रमुः । विनायक-स्कन्दाभ्यां शिवपुत्राभ्यां सपद्येव दशवदनपीडितकुबेरस्य दैन्यसमाचारः परिज्ञातः । कुबेरप्रभृतयः सर्वेऽपि यक्षाः सुरेन्द्रं पुरस्कृत्यं शिवस्य शरणं जग्मुः ।

द्वितीयाङ्के रावणः कुबेरस्य सिंहासने विराजमानोऽस्ति । तृतीयाके राक्षसैः यक्षदूतो निगृहीतो रावणान्तिकं चानीतः । ततो नारदेन रावणः शिवेन सह योद्धुं प्रेरितः । दशवदनः पुष्पकविमानेन शिवं जेतुं प्रतस्थे । स तत्र गत्वा कैलासपर्वतमुत्थापयामास । शिवः पादाङ्गुष्ठबलेन पर्वतं पुनरपि स्थिरीचकार । कम्पमानपर्वते स्थिता पार्वती भयातुरा सती सत्वरमेव मानं तत्याज । तथा हि -

कैलासाद्रेस्तोलनं तावदास्तां तेनैवास्मिन् दृष्टवीर्ये प्रतुष्येत्।

त्रस्ता देवी मानमुत्सृज्य कण्ठं जग्राह स्थाणुरन्तः समोदः।।

अभिनये रङ्गमञ्चो विचित्ररूपधारिपात्रैः मण्डितोऽस्ति । छायात्मकपात्राणां विचित्रता अस्ति ।

प्रतिराजसूयम्[सम्पादयतु]

प्रतिराजसूयं नाटकं १९५७ ख्रीष्टाब्दे प्रकाशितम् । सप्तस्वकेषु विभक्तस्यास्य नाटकस्योपजीव्यं महाभारतस्य वनपर्व वर्तते । नाटकेऽस्मिन् विदुरप्रवेशः, अक्षयपात्रोपलब्धिः, सुदर्शन-प्रवेशः, दुर्वाससोऽभ्यागमनं, राजकुले दुर्वासा, अर्जुनस्यागमनं, पुलाकपरिपाकः, अभिमन्योश्चाभिसन्धिर्वर्णितानि ।

आदिकाव्योदयम्[सम्पादयतु]

आदिकाव्योदयं रूपकं प्रकरणं वर्तते । रूपकस्यास्य प्रणयनं १५४२ ख्रीष्टाब्दे समापन्नम् । कथानुसारं काचिद् दिव्याङ्गना शिशुद्वयं वाल्मीकेः संरक्षकत्वे निहितवती । वाल्मीकिध्यानबलेन निखिलमपि वृत्तान्तं ज्ञातवान् । द्वितीयके वाल्मीकिः भरद्वाजश्च तमसायास्तीरे विराजमानौ स्तः । तत्र रमणीयेऽरण्ये कश्चिन्निर्दयो निषादो बाण-प्रहारेण क्रौञ्चमिथुनादेकम् अवधीत् । वाल्मीकिस्तं मा निषादेति श्लोकेन अभिशशाप । सपद्येवाकाशवाणी बभाषे -

'कुरु रामायणं कृत्स्नं श्लोकैर्बद्धं मनोहरम्' इति।

तृतीयेऽङ्के रामायणप्रणयनस्य सूचना सम्प्राप्यते । कुश-लवौ तत्कण्ठाग्रीकृत्य गायतः । चतुर्थाङ्के स्वर्णमयीसीतासहायो रामोऽश्वमेधयज्ञानुष्ठाननिरतोऽस्ति । षष्ठेऽङ्के पुत्तलिकानृत्यस्य समावेशो वर्तते । सप्तमेऽङ्के गर्भाङ्कस्य समावेशोऽस्ति । अष्टमाङ्के भीषणयुद्धस्य नवमेऽङ्के रात्रौ विभीषण-हनुमतोः वार्तालापस्य च वर्णनमुपलभ्यते ।

कौण्डिन्य-प्रहसनम्[सम्पादयतु]

कौण्डिन्यप्रहसने नान्दीत एवं प्रेक्षकहास्यसंवर्धिनी प्रवृतिर्दृश्यते । कविः शष्कुली-कवितयोः समानास्वाद्यतां प्रतिपादयति । प्रभाते द्वादशी-पारणानन्तरं गृध्रनासोऽपराह्न-भोजनार्थं चिन्ताकुलो बभूव । स भिक्षार्थं बहिर्गच्छति ।

द्वितीयाङ्के कौण्डिन्यनामकः परान्नव्रतः गृध्रनासं व्यलोकयत् । स तस्य गृहमगच्छत् । तद्वारद्वेशं गत्वा गायति स्म -

परगृहभोजनपरितुष्टानां नित्यातिभ्योत्सवनिष्ठानाम्।

कालत्रयविरतोद्योगानां किं च समेतामितभोगानाम्।।

गृहमेधिनिमन्त्रणचित्तानां षड्रसभरिताशनमत्तानाम्।।[१]

एवं गायन्नसौ पृष्ठद्वारतोऽन्तः प्रविश्य तस्य भोजनं खादितवान् । नाट्यकथायाः संविधानं हास्यकरं वर्तते । संवादः सरल-सुबोधभाषायाम् अतीवमनोग्राही सञ्जातः।

कलिप्रादुर्भावम्[सम्पादयतु]

कलि-प्रादुर्भावं नाम नाटकं १९५६ ख्रीष्टाब्दे प्रकाशितम् । कथानुसारं द्वापरयुगस्य अन्तिमदिवस आसीत् । कात्यायनमिश्रः स्वकीयक्षेत्रं कस्मैचिद् वैश्याय विक्रीणाति । क्षेत्रमुत्खनता वैश्येन निधिः सम्प्राप्तः । स प्रथमदिवसे तं निधिं ब्राह्मणसर्वस्वं मत्वा तस्मै दातुं समुद्यतो बभूव । ब्राह्मणोऽपि तं स्वीकर्तुं नैच्छत् । अपरस्मिन् दिने कलियुगागमनप्रभावेण बुद्धि-परिवर्तनेन तौ द्वावपि निधिप्राप्त्यर्थं कलहं चक्रतुः । अधिकरणिकस्य आज्ञानुसारं निधिर्नरपतये समर्पितः क्षेत्रं च ब्राह्मणाय प्रत्यर्पितम्।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

कलियगुम्

संस्कृतम्

उद्धरणम्[सम्पादयतु]

  1. २.१५
"https://sa.wikipedia.org/w/index.php?title=महालिङ्गः&oldid=435224" इत्यस्माद् पुनः प्राप्तिः