विजयनगरमण्डलम्
विजयनगरम् విజయనగరo జిల్లా | |||||||
— मण्डलम् — | |||||||
निर्देशाङ्काः
१८°०७′उत्तरदिक् ८३°२५′पूर्वदिक् / 18.12°उत्तरदिक् 83.42°पूर्वदिक् | |||||||
देशः | भारतम् | ||||||
राज्यम् | आन्ध्रप्रदेशराज्यम् | ||||||
केन्द्रप्रदेशः | विजयनगरम् | ||||||
बृहत्तमं नगरम् | विजयनगरम् | ||||||
समीपतमं नगरम् | विशाखपट्टनम् | ||||||
Collector | डा. बि. किशोर् | ||||||
सांसदक्षेत्रम् | विजयनगरम् | ||||||
Zilla parishad | विजयनगरम् | ||||||
जनसङ्ख्या • सान्द्रता |
२२,४५,१०३245,491 (2001[update]) • 344 /किमी2 (891 /वर्ग मील) | ||||||
साक्षरता • Male |
51.07% • 62.37% | ||||||
व्यावहारिकभाषा(ः) | तेलुगुभाषा | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
विस्तीर्णम् • तीरप्रदेशः |
6,539 वर्ग किलोमीटर (2,525 वर्ग मील) • 28 किलोमीटर (17 मील) | ||||||
सङ्केताः
| |||||||
जालस्थानम् | विजयनगरमण्डलम् |
विजयनगरमण्डलम् (Vizianagaram district) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं विजयनगरम् ।
इतिहासः
[सम्पादयतु]कलिङ्गराज्ये अन्तर्भूतमिदं विजयनगरमण्डलम् । शातवाहनैः, विष्णुकुण्डिभिः, विजयनगरराड्भिः परिपालितम् । इदं मण्डलं गोलकोण्डाराजैः वशीकृतं तल्लिकोटयुध्दे १५६५ तमे वर्षे फ्रेञ्चदेशसाहाय्येन अधिकारः प्राप्तः, अत्र सलाबज्जङ्गमहारायेन । १७५७ तमे वर्षे विजयनगर-बोब्बिलिराजयोः बोब्बिलिमहासङ्ग्रामः समभूत् । फ्रेञ्चसैन्याध्यक्षः बुस्सी आसीत् । बुस्सीसाहाय्येन विजयनगरराजस्य रामराजनामकः बोब्बिलिराजा रङ्गरायं प्रति युध्दं कृत्वा बोब्बिलेः ससैन्यं प्रासादं ध्वस्तवान् । रङ्गरायचरवः अनन्तरकाले रामराजं जघाम ।
१९५८ वर्षे संवृत्ते चन्दुर्तिसङ्ग्रामे ब्रिटिष् सैन्येन, फ्रेञ्च् सैन्यं पराजितम् । १७६८ पर्यन्तम् उत्तरप्रान्ते सर्वाणि मण्डलानि ब्रिटिष् हस्तगतानि । १८९० काले गञ्जाम्विशाखप्रान्तयोः जातीयोद्यमं कार्यमारब्धम् । १९०५ समये वङ्गदेशविभाजनं पुरस्कृत्य प्रवृत्तेषु उद्यमेषु स्थानीयाः अतीवासक्त्या भागं गृहीतवन्तः । पश्चात् प्रवृत्तेषु बहुषु उद्यमेषु समधिकोत्साहेन भागम् ऊढवन्तः । १९७९ जून् १ दिनाङ्के अस्य मण्डलस्य आविष्कारः आन्ध्रप्रदेशराज्यावतरणानन्तरम् अभवत् ।
भौगोलिकम्
[सम्पादयतु]अस्य मण्डलस्य सीमायां प्राग्दक्षिणयोः बङ्गालाखातसमुद्रः, विशाखपट्टनमण्डलं च, पश्चिमोत्तरयोः ओडिष्षाराज्यं च वर्तन्ते । अस्मिन् मण्डले नेल्लिमर्लप्रान्ते माङ्गनीस् विरलतया लभ्यते । वायव्यात् नैरुतिं प्रति पर्वतपङ्कतयः विस्तृताः सन्ति अस्मिन् मण्डले । वर्षपातः नैरुति ऋतुपवनाधारेण मण्डलेस्मिन् ६०% कृषिभूमिः वर्तते ।
कृषिः वाणिज्यं च
[सम्पादयतु]मण्डलस्य प्रधानसस्यं धान्यम् । सामान्यतया इक्षुः, मरीचिका, कलायः इत्यादिसेद्यं कुर्वन्ति । माच्खण्ड- जलविद्युत्केन्द्रद्वारा विद्युतः योगदानम् अस्ति । आन्ध्रराज्ये जूटोत्पादनम् ५०% अस्मात् जनपदात् उपलभ्यते । बोब्बिलिप्रान्ते सङ्गीतपरिकराणां निर्माणं गृहपरिश्रमरुपेण चाल्यते ।
आन्ध्रविश्वविद्यालयपरिधौ अस्मिन् मण्डले महाविद्यालयाः प्रचाल्यन्ते । चारित्रकसङ्गीतसाहित्यकलासांस्कृतिकविशेषैः प्रख्यातिमाप्नोति इदं मण्डलं विजयनगरम्।
वीक्षणीयस्थलानि
[सम्पादयतु]पर्याटकेभ्यः मनोरञ्जकः रोचकः च वर्तते बोर्राबिल प्रदेशः । रामतीर्थग्रामे श्रीरामदेवालयः वर्तते।
तालूकाः
[सम्पादयतु]
|
|
|
|
|
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये विजयनगरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
- Official Vizianagaram District Government Website Archived २००७-०१-०१ at the Wayback Machine
- Zilla Parishad Vizianagaram Website Archived २०१२-०२-०७ at the Wayback Machine