विज्ञानकला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ


चतुष्षष्टिकलानाम् अध्ययनदृष्ट्या विभागः क्रियते तर्हि प्रथमतया विज्ञानकला एव दृष्टिगोचरः भवति। विज्ञानं सिद्धसिद्धान्तानां तथा शुद्धतर्कचिन्तनादिना स्थितम् अस्ति। कला कल्पनायाः , आदर्षस्यच् मूलं भवति। अतः विज्ञानम् अपि एका कला इति व्यवहारः कथं शक्यम् ? इति चेत्, निर्दिष्टस्य विषयस्य यदा यथार्थज्ञानम् आयाति तदा कला इति। अस्याः कलायाः सविमर्शः विज्ञानं भवति। अतः विज्ञानम् अपि एका कला। विज्ञानकलायाः विभागाः एवं भवन्ति, चित्राश्वयोगः, ऐन्द्रजालयोगः, कौचुमाराश्वयोगः, विचित्रशाकयूषभक्ष्यविकारक्रिया, पानकरसरागासवयोजना, वास्तुविद्या, वृक्षायुर्वेदयोगः, म्लेच्छितविकल्पः, देशभाषाविज्ञानम्, अभिधानकोशः, छन्दोविज्ञानम्, वैनयिकीविद्याज्ञानम्, वैजयिकीविद्याज्ञानम् तथा व्यायामिकीविद्याज्ञानम् इति।

चित्राश्वयोगः[सम्पादयतु]

औषधमन्त्राभ्यां जनाः दौर्बलाः यथाभवेयुः, अकाले फलितकेशाः यथाभवेयुः, उन्मत्ताः यथाभवेयुः तादृशाः प्रयोगाः चित्राश्वयोगे निरूपितम् अस्ति। उदाहरणम्,
अलाबुनेतियः कीटः श्वेता च गृहगोलिका।
एतेन पिष्टेनाभ्यक्ताः केशास्स्युः शङ्खपाण्डराः॥ इति॥
अलाबु कीटं तथा श्वेतगृहगोलिकां चूर्णं कृत्वा लेपनं क्रियते चेत् श्वेतकेशाः भवन्ति इती।

ऐन्द्रजालयोगः[सम्पादयतु]

मायासृष्टिः, भ्रामकवस्तूनां निर्माणम्, सरिसृपाणां तथा सैन्यसमूहानां उत्पादनम् इत्यादि विषयाणां निरूपणम् ऐन्द्रजालयोगे निरूपितम् अस्ति। नकेवलम् ऐन्द्रजालं यः करोति तस्य प्रभावः। शास्त्रबद्धाः अस्याः विद्यायाः रहस्योद्घाटकाः नैके ऐन्द्रजालतन्त्रग्रन्थाः उपलभ्यन्ते। सामान्यकला नास्ति एषा। अस्याः बहुषु पुराणेषु उल्लेकाः उपलभ्यन्ते। महाभारतस्य उदाहरणम् उदाहरन्ति एवम्-
इहैव पाण्डवास्सर्वे तथैवान्धक वृष्णयः।
इहादित्यांश्च रुद्राश्च वसवश्च महर्षिभिः॥
एनमेव प्रसङ्गं भासः स्व दूतवाक्यनामक एकाङ्के सर्वत्र श्रीकृष्णः दृश्यतेस्म, तस्य बन्धनार्थं महान् प्रयासः आसीत् दुर्योधनस्य विफलश्च सञ्जातः असीत् इति। विनोदार्थं एकस्यां प्रदर्शिन्यां संवरणसिद्धः नाम ऐन्द्रजालिकः विविधवस्तूनां दर्शनं कारयिष्यामि इति प्रतिज्ञां कृतवान् आसीत्। तत् एवम् अस्ति–
धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः।
मध्याह्ने प्रदोषो दर्षयामि.......
हरिहरब्रह्मप्रमुखान्देवान्दर्शयामि देवराजं च।
गगनेऽपि सिद्धविद्याधरवधूसार्थं च नृत्यन्तम्॥ इति॥

कौचुमाराश्वयोगः[सम्पादयतु]

व्यक्तिः बलिष्ठो भूत्वा आरोग्येण भवितुं यं क्रमम् अनुसरन्ति सैव क्रमः कौचुमाराश्वयोगः भवति। बाल्ये, यौवने, वार्धक्यादि अवस्थासु स्वस्व वयसि विशेषतः रोगाः उत्पद्यन्ते। केचन जन्मतः एव वात, पित्त, कफादीनां देषेणे भवन्ति। एतेषां रोगाणां निवाराणार्थम् अस्याः कलायाः उपयोगं कुर्वन्ति।
उदाहरणम्-
वातशोणितरोगे च तथा रोगान्तरेष्वपि।
वैद्य शास्त्रानुसारेण कारयेत्तत्प्रतिक्रियाम्॥
ज्ञात्वा निदानं व्याधीनां स्वरूपं लक्ष्मणैः स्फुटम्।
देशकालानुसारेण साधुप्रकृति सत्वतः॥ इति॥
विषपरिहारोपायमपि अस्यां कलायां निरूपितम् अस्ति। मालविकाग्निमित्रनाटके चतुर्थे अङ्के विदूषकः सर्पेणदंशितः इति यदा जानाति परिव्राजिका तदा परिहारम् एवम् सूचयति,
छेदो दंशस्वदाहोवा क्षतेर्वा रक्तमोक्षणम्।
एतानि दष्टयात्राणामायुष्याः प्रतिपत्तयः॥ इति॥

वास्तुकला[सम्पादयतु]

गणितं ज्योतिषञ्च मिलितं भवति वास्तुशास्त्रम्। वासार्थं गृहाणाम्, राजभवनानाम्, देवालयानाम्, रङ्गमन्दिरादीनाम् निर्माणार्थम् अस्याः वास्तुकलायाः उपयोगं कुर्वन्ति। अस्याः कलायाः विवरणं पुराणादिषु विद्यते।
एवमेव नगरनिर्माणे सुव्यवस्थितपूर्वनियोजनां रामायणस्य अयोध्यालङ्कानगरयोः वर्णनावसरे अस्याः कलायाः स्वरूपं स्पष्टं ज्ञातुं शक्यते। एवं बुद्धचरिते, मेघदूते, कादम्बर्यादिषुच अस्याः कालायाः सम्बद्धाः उल्लेखाः उपलभ्यन्ते। लक्ष्मणः रामाय पञ्चवटिप्रदेशे सीमितपरिकरैः निर्मितपर्णशालायाः विवरणं मनोहरं भवति। तद्यथा,
समीकृततलां रमाम्यां चकारलघुविक्रमः।
निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम्॥ इति॥

म्लेच्छतविकल्पकला तथा देशभाषाविज्ञानकला[सम्पादयतु]

गूढलिपिज्ञानम् अथवा रहस्यभाषायाः अर्थानुसन्धानम्, प्रान्तीयभाषाणां ज्ञानम् एवं राजनीतिषु येषां भाषाणां ज्ञानम् एतानि सर्वाणि म्लेच्छतविकल्पकला तथा देशभाषाविज्ञानकला भवन्ति। अस्याः कलायाः आवश्यकातां शुक्रनीतिसारे वर्णितम् अस्ति। तद्यथा,
कालेऽतीते विस्मृतिर्वा भ्रान्तिः सञ्जायते नृणाम्॥
अनुभूतस्य स्मृत्यर्थं लिखितं निर्मितं पुरा।
यत्नाच्चब्रह्मणा वाचां वर्णस्वरविचिह्नितम्॥ इति॥
कालः यथा क्रमति तथा मनुष्येषु विस्मरणम् उत भ्रान्तिः भवितुम् अर्हति। अतः गतं ज्ञातुं स्मर्तुं च वर्णस्वरचिह्नसहितं लेखनक्रमं ब्रह्मणा पूर्वमेव प्रयत्नेन् निर्मितम् आसीत् इति।

वृक्षायुर्वेदः[सम्पादयतु]

“वृक्षादिप्रसवारोपपालनादिकृतिः कला” प्रकृतिसंरक्षणा, सस्यशास्त्रम्, कृषिः इत्यादयः वृक्षायुर्वेदे अन्तर्भवन्ति। “दशपुत्रसमो द्रुमः” एकः वृक्षः दशपुत्राणां समः इत्येतत् वाक्यं वृक्षस्यमाहात्म्यं स्पष्टयति। अस्याः कलायाः विवरणम् अर्थशास्त्रे, विष्णुधर्मोत्तरपुराणे, बृहत्संहितायाम्, उपवनविनोदे, शार्ङ्गधरपद्धतौ, अभिलक्षितार्थचिन्तामण्यादि ग्रन्थेषु विद्यते। सीताध्यक्षः कृषितन्त्रगुल्मवृक्षायुर्वेद तज्ञः भवेदिति। ध्यान-पुष्प-फल-शाख-कन्द-मूल-क्षम-कार्पासादि बीजान् सकले सङ्ग्रहणम् अस्य कार्यं भवति। न्यूनं जलं कस्य वृक्षस्य अपेक्षितः अस्ति। अधिकं जलं कस्य अपेक्षितः अस्ति इति ज्ञानम् अपि भवेत्।

अभिदानकोशः तथा छन्दोविज्ञानम्[सम्पादयतु]

“वाचामेव प्रसादेन लोकयात्रा प्रवर्तते” शब्दार्थसहितवाण्या लोकव्यवहारः सम्भविष्यति। शब्दैः भाषा, भाषायाः समनन्तरं लिपिः, लिप्या ग्रन्थसृष्टिः, तेन इतिहाससृष्टिः भवति। “वागर्थाविव” इत्यनेन श्लोकेन रघुवंशमहाकाव्ये स्पष्टम् निरूपितं दृष्यते। अभिदानकोशकलायाः आवश्यकातां निरूपितं भवति। छन्दोविज्ञानकलाम् एवं निरूपयन्ति, "छन्दो हीनो न शब्दोऽस्ति छन्दः शब्दवर्जितः” छन्दोविहीनः शब्दः लोके नास्तीति भरतोऽक्तिः। वाक् तथा छन्दस्यच अविनाभावसम्बन्धः अस्ति इति। पदेषु विद्यमानानां गुरुलघ्वक्षराणाम्, तेषां उच्चारणकालमानञ्च आधारीकृत्य यत् अध्ययनं भवति तदेव छन्धशास्त्रमिति व्यवहारः। एषा कला वेदाङ्गत्वेन निरूपितम् अस्ति। वेदमन्त्राणाम् अवबोधाय स्थितं शास्त्रम् इदम्। गायत्री, बृहती, त्रिष्टुब्, शतोबृहती, ककुभ, इत्यादयः सन्ति।

वैनयिकी तथा वैजयिकी कला[सम्पादयतु]

प्रथमं विद्यमानम् वैनयिकी सर्वेभ्यः अन्वितं नैतिकशिक्षणम्। सुव्यवस्थित जीवनम्, गौरवान्वितचारित्र्यनिर्माणार्थं च अपेक्षितविषयाणां निरूपणार्थं अस्याः कलायाः प्राचीनाः उपयोगं स्वीकृतवन्तः। इदमेव मनस्मृतौ एवं निरूपितम् अस्ति,
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः।
धृतिर्भैक्ष्यं कुसीदं च दशजीवनहेतवः॥ इति॥
एषा कला सुन्दरशास्त्रबद्धजीवननिर्माणार्थम् उपयुक्ता इति।

वैजयिकी कला विजयप्राप्तेः आवश्यकविषयाणां ज्ञानम्। विशिष्य नृपाणां सम्बन्धितम् अस्ति। राजकीयक्षेत्रेषु निरतेभ्यः अस्याः कलायाः उपयोगः विद्यते। अस्यां दण्डनीतिः, तथा अर्थशास्त्रादीणां निरूपणं विद्यते। एवं स्वामि-अमात्य-राष्ट्र-कोश-दुर्ग-बल-सुहृत्- एतेषां सप्ताङ्गानाम्, प्रभु-मन्त्र-उत्साहादि शक्तित्रयाणां विषये निरूपणम्, सन्धि-विग्रह-यान-आसन-आश्रय-द्वैधीभावाः तथा साम-दान-भेद-दण्डादीनां विषयेषु अस्यां कलायां निरूपितम् अस्ति। ईदृषाणां नीतिशास्त्राणाम् अध्ययनेन किं भवतीति श्लोके एवं निरूपितम्, अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च।
न पराभवमाप्नोति शक्रदपि कदाचन॥ इति॥
एनं नीतिशास्त्रं सम्यक् तया अध्ययनं यः कृतवान् भवति तं इन्द्रेणाऽपि जेतुं न शक्नोति इति।

व्यायामिकीविद्या[सम्पादयतु]

जयमङ्गलव्याख्यानुसारं तरणं तथा मल्लयुद्धञ्च व्यायामिकीविद्या भवति। नकेवलं दैहिकम्। किन्तु मानसिकं तथा बौद्धिकेनाऽपि सबलं करोति एषा कला। आयामो नाम दैर्घ्यम् इत्यर्थः। अङ्गसाधनादिषु दिर्घोच्छ्वासः तथा श्वासस्य नियन्त्रणं मुख्यं भवतः। प्राणायामसहितेन आसनेन आयुः अधिकं भवति इति हठयोगशास्त्रे निरूपितम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=विज्ञानकला&oldid=389051" इत्यस्माद् प्रतिप्राप्तम्