परिवर्तनानि

Jump to navigation Jump to search
सम्पादनसारांशरहितः
==मुख्यविषयाः==
===सृष्टिप्रक्रिया कारणवादः च===
ब्रह्मा मयोपाधिना सहितः ईश्वरो भूत्वा जगतः सृष्टेः कारणीभूतः अस्ति । जगतः सृष्टिः इच्छापूर्विका<ref>बहुस्यां प्रजायेय- छान्दोग्योपनिषत् ६.२.३ </ref> । अस्यां सृष्टिप्रक्रियायां ईश्वरः निमित्तकारणम् भवति । ईश्वरस्य सङ्कल्पेनैव आदौ [[आकाशः|आकाशस्य]] समनन्तरं क्रमशः [[वायुः|वायोः]], [[तेजः|तेजसः]], [[जलम्|जलस्य]], [[पृथिवी|पृथिव्याः]] च पञ्चभूतानां सृष्टिः अभवत् । <ref>तस्माद्वा एतस्मादात्मन आकाशः संभूतः॥
आकाशाद्वायु वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी, पृथिया ओषधयः । तैत्तिरीयोपनिषत् (ब्रह्मानन्दवल्ली)१.१</ref> एतेषु आकाशे शब्दगुणः, वायौ शब्दः स्पर्शश्च, तेजसि [[शब्दः]],[[स्पर्शः]], रूपञ्च , जले शब्दः, स्पर्शः, रूपम्, रसश्च, पृथिव्यां शब्दः, स्पर्शः, रूपम्, गन्धः च गुणाः भवन्ति । एतानि पञ्चभूतानि मायया सहितानि ।

===सत्यत्वं ख्यातवादः च===
ज्ञानानां विषये दार्शनिकाः विवेचितवन्तः । पञ्चविधख्यातयः निरूपिताः सन्ति । आख्यातिः, असत्ख्यातिः, आत्मख्यातिः, अन्यथाख्यातिः, अनिर्वचनीयख्यातिः च । [[मीमांसा|मीमांसकानाम्]] आख्यातवादः, माध्यमिकबौद्धानाम् असत्ख्यातिवादः, योगाचार्याबौद्धानाम् आत्मख्यातिवादः, [[न्यायदर्शनम्|तार्किकानाम्]] अन्याथाख्यातिवादः, अद्वैतिनाम् अनिर्वचनीयख्यातिवादः च । [[माया]] सत्, असत्, सदसत्, इति निर्वचनं न शक्यते । अतः अनिर्वचनीयम् अस्ति [[माया]] । मायायाः स्वरूपं [[शङ्कराचार्यः]] विवेकचूडामणौ वर्णितवान् अस्ति ।

:'''सन्नप्यसन्नप्युभयात्मिका नो'''

::'''भिन्नाप्यभिन्नाप्युभयात्मिका नो''' ।

===मोक्षस्वरूपम्===
चतुर्विधपुरुषार्थेषु मोक्षाख्यः अन्यतमः । [[मोक्षः]] आत्मनः सहजस्वरूपम् । स्वाभाविकतया जीवः नित्यशुद्धबुद्धमुक्तः । मोक्षः प्राप्यः उत्पाद्यः वा न । बृहदारण्यकोपनिषदः [[शाङ्करभाष्यम्|शाङ्करभाष्यस्य]] [[सुरेश्वराचार्यः]] व्याख्यानं कृतवान् । तस्मिन् मुक्तेः स्वरूपम् निरूपितवान् अस्ति <ref> राजसूनोः स्मृतिप्राप्ता व्याधभावो निवर्तते ।
कथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ॥ (बृहदारण्यकोपनिषद्-भाष्यम्, सुरेश्वराचार्यस्यवार्तिका २.१.२०) </ref>, कश्चित् राजकुमारः बाल्ये व्याधकुले प्रवृद्धः। कालान्तरे नाहं व्याधः राजकुमारोऽहम् इति ज्ञातवान् । तथैव, जीविः '''तत्त्वमसि''' इत्यादिभिः महावाक्यैः अज्ञाननिवृत्तिं सम्प्राप्य, जीवब्रह्मणोः अभेदं ज्ञात्वा च स्वस्वरूपभवनम् मोक्षः । सहजस्वरूपस्य अज्ञानावरणनिवृत्तिः एव वेदान्तस्य लक्ष्यम् इति शङ्कराचार्यः प्रतिपादितवान् अस्ति । <ref>अस्य अनर्थहेतोः प्रहाणाये आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ॥ "ब्रह्मसूत्र-शाङ्कराभाष्यम्", उपोद्घातः (अध्यासप्रकरणम्)</ref> ब्रह्मणः अपरोक्षज्ञानमेव मोक्षसाधनम् । ब्रह्मज्ञानं श्रवणात् अनुभवे पर्यवसतं भवति <ref>अनुभवावसानत्वात् भूतविषयेत्वाच्छ ब्रह्मज्ञानस्य । "ब्रह्मसूत्र-शाङ्कराभाष्यम्" १.१.२ </ref>। ब्रह्मणः विषये श्रुत्याद्याः, अनुभवाः च प्रमणभूताः । ब्रह्मज्ञानं मोक्षसाधनम् न तु शाब्दज्ञानम् इति [[शङ्कराचार्यः]] उल्लिखति । तत् एवम्,

:न गच्छति विनापानं व्याधिताषधिशब्दतः ।
::विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥<ref> विवेकचूडामणिः, श्लोकसंख्या-६२ </ref>

===[[माया]]===
[[अविद्या]], अनिर्वचनीया च या सा [[माया]] । या मा सा [[माया]] इत्यपि कथयन्ति । मा नाम त्रिकालेश्वपि न विद्यते किन्तु अस्ति इति भाति । यद्यपि आत्मनः एकत्वे अन्यत् सर्वं मिथ्या इति सिध्यति तथापि संक्षेपेण तस्य मिथ्यास्वरूपस्यापि उपवर्णनं भवति । तथा हि- दृश्यप्रपञ्चः बुद्ध्यादयश्च मिथ्याभूताः इति अस्मिन् वेदान्तशास्त्रे प्रतिपाद्यते । अद्वितीयः सः परमात्मा स्वशक्त्या विचित्ररूपेण परिदृश्यमानम् अमुं प्रपञ्चं सृजति, अनन्तरं च सृष्टं सर्वं जगत् स्वात्मनि विलीनं करोति । प्रपञ्चस्य जन्मनाशौ भवतः इति श्रुतिस्मृतिभ्याम् अभ्युपगतत्वात् दृश्यमानः प्रपञ्चः मिथ्या भवति ।

===[[अविद्या]]===
अविद्यायाः अस्तित्वे किं प्रमाणम् ? समाधानत्वेन "अहमज्ञः, मामन्यं च न जानामि" इत्यादि सांव्यवहारिकं वचनमेव अविद्यायाः सत्वे प्रमाणं भवति इत्युच्यते ।

===[[ब्रह्म]]===
जीवब्रह्मणोः एकता उच्यते, जीवस्तु ज्ञातः ब्रह्म तु न ज्ञातम्, अज्ञाते ब्रह्मणि कथमेकता? यदि [[ब्रह्म]] ज्ञातुमित्युच्यते तर्हि किं प्रमाणम् ? इति विचारे पूर्वपक्षी वदति, ननु ब्रह्मज्ञाने प्रत्यक्षं न प्रमाणं भवति । यतः ब्रह्म अतीन्द्रियत्वात् । अतीन्द्रियं न कदापि प्रत्यक्षीक्रियते। प्रत्यक्षानुमानोपमानानां प्रमाणानां ब्रह्म विषयत्वाभावात् इमानि ब्रह्माणि ब्रह्मसाधने न क्षमन्ते । अन्तिममागमप्रमाणमस्त्येव । तेन ब्रह्मणः अस्तित्वे ब्रह्मस्वरूपज्ञाने प्रमाणत्त्वमस्त्त्येव । श्रुतिभिः ब्रह्म आगमगम्यप्वेनोक्तम् ।

===[[अध्यासः]]===
अध्यासो नाम "अतस्मिंस्तद्बुद्धिः" इति भाष्यकारस्य वचनम् । तद्यथा- पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मान् अध्यस्यति । स्थूलोऽहम्, कृशोऽहम्, गौरोऽहम्, तिष्ठामि इत्यादि देहधर्मान् स्वात्मनि अध्यस्यति ।

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/251093" इत्यस्माद् पुनः प्राप्तिः

सञ्चरणावलिः