होशङ्गाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(होशंगाबादमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
नर्मदापुरममण्डलम्

Narmadapuram District
नर्मदापुरम जिला
नर्मदापुरममण्डलम्
नर्मदापुरममण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे
मध्यप्रदेश राज्यस्य मानचित्रे
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि नर्मदापुरम, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी
विस्तारः ६,७०३ च. कि. मी.
जनसङ्ख्या (२०११) १२,४१,३५०
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७५.२९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५.५%
Website http://hoshangabad.nic.in/

नर्मदापुरममण्डलम् ( /ˈhʃəŋɡɑːbɑːdəməndələm/) (हिन्दी: नर्मदापुरम जिला, आङ्ग्ल: Narmadapuram district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नर्मदापुरम इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

होशङ्गाबादमण्डलस्य विस्तारः ६,७०३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छिन्दवाडामण्डलं, पश्चिमे सीहोरमण्डलम्, उत्तरे रायसेनमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं होशङ्गाबादमण्डलस्य जनसङ्ख्या १२,४१,३५० अस्ति । अत्र ६,४८,७२५ पुरुषाः, ५,९२,६२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.४९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ७५.२९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- होशङ्गाबाद, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी ।

वीक्षणीयस्थलानि[सम्पादयतु]

पचमढी[सम्पादयतु]

पचमढी इति इदं स्थलम् एकस्मिन् लघुशैले स्थितमस्ति । इदं भ्रमणार्थम् एकं रमणीयं पर्वतस्थलम् अस्ति । इदं एकं यात्रास्थलमपि अस्ति । शिवभक्ताः वीक्षणार्थं तत्र गच्छन्ति । सम्पूर्णभारतस्य जनाः तथा वैदेशिकाः अपि तत्र गच्छन्ति ।

सेठानी घाट[सम्पादयतु]

इदं स्थलं नर्मदानदीतटे स्थितमस्ति । तत्र बहूनि मन्दिराणि सन्ति । नर्मदानद्यां स्नानस्य आनन्दाय जनाः तत्र गच्छन्ति । पाण्डव-गुहा, बडा महादेव, गुप्त महादेव इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://hoshangabad.nic.in/
http://www.census2011.co.in/census/district/316-hoshangabad.html

"https://sa.wikipedia.org/w/index.php?title=होशङ्गाबादमण्डलम्&oldid=465599" इत्यस्माद् प्रतिप्राप्तम्