सामग्री पर जाएँ

बीडमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बीडमण्डलम्

Beed District

बीड जिल्हा
मण्डलम्
महाराष्ट्रराज्ये बीडमण्डलम्
महाराष्ट्रराज्ये बीडमण्डलम्
देशः  India
जिल्हा बीडमण्डलम्
उपमण्डलानि बीड, आष्टी, पाटोदा, शिरूर, गेवराई, अम्बाजोगाई, वडवणी, केज, धारूर, परळी वैजनाथ, माजलगाव
विस्तारः १०,६९३ च.कि.मी.
जनसङ्ख्या(२०११) २५,८५,०४९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://beed.nic.in
ईक्षु-सस्योत्पादनम्
सूर्यमुखी-उत्पादनम्
धरूर कोट:
स्वामी रामानन्दतीर्थ
परळी वैद्यनाथ ज्योतिर्लिङ्गम्
देवी अम्बाजोगाई

बीडमण्डलं (मराठी: बीड जिल्हा, आङ्ग्ल: Beed District) महाराष्ट्रराज्ये स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं बीड इत्येतन्नगरम् | द्वादशज्योतिर्लिङ्गेषु अन्यतमं 'परळी वैजनाथ' इत्येतल्लिङ्गम् अस्मिन्नेव मण्डले अस्ति । स्वामी रामानन्दतीर्थस्य जन्मभूमिः इत्यपि बीडमण्डलस्य प्रसिद्धिः । यवनाल(ज्वारी)-उत्पादकमण्डलम् इत्यपि अस्य मण्डलस्य प्रसिद्धिः ।

इतिहासः

[सम्पादयतु]

बीडमण्डलपरिसरस्य इतिहासः पुराणेषु अपि उल्लिखितः दृश्यते । बीड इत्येतन्नगरे स्थितं जटा-शङ्कर-मन्दिरसम्बद्धा रामायणकथा तत्रस्थैः जनैः कथ्यते । अतः रामायणकालात् मण्डलस्य इतिहासः उपलभ्यते । सातवाहन-कलचुरी-वाकाटक-कदम्ब-बहमनीराजानां आधिपत्यमत्रासीत् । चालुक्यवंशीयराजकन्यया चम्पावती इत्यनया अस्य नगरस्य नाम 'चम्पावती' इति निर्धारितमासीत् । अनन्तरम् अल्लाउद्दीन खिल्जी(१२९६-१३१६) इत्यनेन यदा एषः प्रदेशः जितः तदा अस्य 'बीड' इति नामकरणं कृतम् । मोघलाधिपत्ये राक्षसभुवन, खर्डा इत्यत्र ये युद्धे अभवतां ततः बीडपरिसरः मराठासाम्राज्ये समाविष्टः जातः । एषः प्रदेशः स्वातन्त्र्य-पूर्वकाले हैदराबाद-संस्थाने आसीत्, अनन्तरं महाराष्ट्रे विलीनं जातम् ।

भौगोलिकम्

[सम्पादयतु]

बीडमण्डलं मराठवाडा विभागे स्थितं मण्डलम् । बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि परभणीमण्डलं, पश्चिमदिशि अहमदनगरमण्डलम्, उत्तरदिशि जालनामण्डलम्, औरङ्गाबादमण्डलं च, दक्षिणदिशि लातूरमण्डलम्, उस्मानाबादमण्डलं च अस्ति । गोदावरी नदी, माञ्जरा, सिन्दफणा, बिन्दुसरा, वाण इत्येताः अस्मिन्मण्डले प्रवहन्त्यः प्रमुखनद्यः सन्ति ।

कृष्युत्पादनम्

[सम्पादयतु]

आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनालः (ज्वारी), 'बाजरी', 'तूर', माषः, कार्पासः, कलायः इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ यवनालः (ज्वारी), गोधूमः, चणकः, कुसुम्भं(करडई) इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । एतान् विहाय इक्षुः, सूर्यमुखी (Sunflower), बहूनि फलानि च उत्पाद्यन्ते अत्र । बीडमण्डले कृषिः वृष्ट्यवलम्बिताऽस्ति ।

जनसङ्ख्या

[सम्पादयतु]

बीडमण्डलस्य जनसङ्ख्या(२००१) २५,८५,०४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.६१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३६ अस्ति । अत्र साक्षरता ७६.९९% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति ।

  • बीड
  • आष्टी
  • पाटोदा
  • शिरूर
  • गेवराई
  • अम्बाजोगाई
  • वडवणी
  • केज
  • धारूर
  • परळी वैजनाथ
  • माजलगाव

व्यक्तिविशेषाः

[सम्पादयतु]

मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । गणितज्ञस्य द्वितीयभास्कराचार्यस्य जन्मस्थानमिदम् इति कथ्यते । मराठवाडा-मुक्तिसङ्ग्रामस्य नेता स्वामी रामानन्दतीर्थः बीडमण्डलनिवासी आसीत् । तस्य नेतृत्वे बीडमण्डलपरिसरजनाः मराठवाडा मुक्तिसङ्ग्रामे भागम् ऊढवन्तः । सन्तकवेः दासोपन्त इत्येतस्य जन्मभूमिः अपि इयमेव ।

वीक्षणीयस्थलानि

[सम्पादयतु]

बीडमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।

  • परळी-वैजनाथ
  • कङ्कलेश्वरमन्दिरम्
  • धारूर-दुर्गः
  • अम्बेजोगाई दुर्गः
  • आम्बेजोगाई/अम्बेजोगाई मन्दिरम्
  • पाटोदा इत्यत्र रामेश्वरमन्दिरम्
  • नायगाव-अभयारण्यम्
  • सावरगाव इत्यत्र मच्छिन्द्रनाथस्य समाधिस्थानम्
  • भगवान् गड
  • गहिनीनाथ गड
  • खडकवाडी इत्यत्र कानिफनाथ गड
  • धर्मापुरी गड
  • पिम्पळवण्डी इत्यत्र अश्वलिङ्गमन्दिरम्
  • गेवराई इत्यत्र बऱ्हाणपुर

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=बीडमण्डलम्&oldid=481688" इत्यस्माद् प्रतिप्राप्तम्