"बुरहानपुरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ६३: पङ्क्तिः ६३:




[[वर्गः:मध्यप्रदेशस्य मण्डलानि]]
[[वर्गः:मध्यप्रदेशराज्यस्य मण्डलानि]]
{{शिखरं गच्छतु}}
{{शिखरं गच्छतु}}

०८:०३, ३० एप्रिल् २०१६ इत्यस्य संस्करणं

बुरहानपुरमण्डलम्

Burhanpur District
बुरहानपुर जिला
बुरहानपुरमण्डलम्
बुरहानपुरमण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि बुरहानपुरम्, नेपानगर, खकनार
विस्तारः ३,४२७ च. कि. मी.
जनसङ्ख्या (२०११) ७,५७,८४७
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६४.३६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८%
Website http://www.burhanpur.nic.in/

बुरहानपुरमण्डलम् ( /ˈbʊrəhɑːnəpʊrəməndələm/) (हिन्दी: बुरहानपुर जिला, आङ्ग्ल: Burhanpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बुरहानपुरम् इति नगरम् ।

भौगोलिकम्

बुरहानपुरमण्डलस्य विस्तारः ३,७२७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे खण्डवामण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले तापीनदी प्रवहति । अस्य मण्डलस्य उत्तरभागे सतपुडापर्वतशृङ्खला स्तः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बुरहानपुरमण्डलस्य जनसङ्ख्या ७,५७,८४७ अस्ति । अत्र ३,८८,५०४ पुरुषाः, ३,६९,३४३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ६४.३६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- बुरहानपुरम्, नेपानगर, खकनार ।

वीक्षणीयस्थलानि

राजा की छतरी

राजा की छतरी नामकम् इदं स्थलं बुरहानपुर-नगरात् ४ माइल (mile) दूरे अस्ति । इदं स्थलं तापीनद्याः तटे अस्ति । श्रूयते यत् अस्य मण्डलस्य निर्माणं मुगलसम्राट् औरङ्गजेब नामाख्यः राजाजयसिंहस्य सम्माने कारितवान् इति । दक्खन-शासने राजाजयसिंहः मुगलसेनायाः सेनापतिरासीत् । दक्खन-अभियानात् पुनरागमने बुरहानपुर-नगरे राजाजयसिंहस्य मृत्युरभवत् । अतः अस्मिन् नगरे एव राजाजयसिंहस्य दाहसंस्कारम् अभवत् ।

इच्छादेवी-मन्दिरं, खूनी भण्डारा, ’शाही हमाम’, गुरुद्वारा, असीरगढ इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.burhanpur.nic.in/
http://www.census2011.co.in/census/district/334-burhanpur.html

"https://sa.wikipedia.org/w/index.php?title=बुरहानपुरमण्डलम्&oldid=390195" इत्यस्माद् प्रतिप्राप्तम्