"बालाघाटमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ५९: पङ्क्तिः ५९:
http://www.census2011.co.in/census/district/324-balaghat.html
http://www.census2011.co.in/census/district/324-balaghat.html


[[वर्गः:मध्यप्रदेशस्य मण्डलानि]]
[[वर्गः:मध्यप्रदेशराज्यस्य मण्डलानि]]
{{शिखरं गच्छतु}}
{{शिखरं गच्छतु}}

०८:०३, ३० एप्रिल् २०१६ इत्यस्य संस्करणं

बालाघाटमण्डलम्

Balaghat District
बालाघाट जिला
बालाघाटमण्डलम्
बालाघाटमण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि बालाघाट, लालबर्रा, परसवाडा, बईहाड, तिरोडी, कटङ्गी, खैरलन्जी, वारशिवनी, किर्नापुर, लाणजी
विस्तारः ९,२२९ च. कि. मी.
जनसङ्ख्या (२०११) १७,०१,६९८
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७७.०९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-५१%
Website http://balaghat.nic.in/

बालाघाटमण्डलम् ( /ˈbɑːlɑːɡhɑːtəməndələm/) (हिन्दी: बालाघाट जिला, आङ्ग्ल: Balaghat district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बालाघाट इति नगरम् ।

भौगोलिकम्

बालाघाटमण्डलस्य विस्तारः ९,२२९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिण-पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छत्तीसगढराज्यं, पश्चिमे सिवनीमण्डलम्, उत्तरे मण्डलामण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले वेणगङ्गानदी प्रवहति । अस्य मण्डलस्य दक्षिण-पूर्वभागे सतपुडापर्वतशृङ्खला अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बालाघाटमण्डलस्य जनसङ्ख्या १७,०१,६९८ अस्ति । अत्र ८,४२,१७८ पुरुषाः, ८,५९,५२० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२१ अस्ति । अत्र साक्षरता ७७.०९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- बालाघाट, लालबर्रा, परसवाडा, बईहाड, तिरोडी, कटङ्गी, खैरलन्जी, वारशिवनी, किर्नापुर, लाणजी ।

वीक्षणीयस्थलानि

कान्हा नेशनल पार्क, लणजी मन्दिर, नहलेसरा बांध, धूति बांध, रामपायली मन्दिर, हाटा बावली, गङ्गुलपुरा जलप्रपातः इत्येतानि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://balaghat.nic.in/
http://www.census2011.co.in/census/district/324-balaghat.html

"https://sa.wikipedia.org/w/index.php?title=बालाघाटमण्डलम्&oldid=390197" इत्यस्माद् प्रतिप्राप्तम्